________________
भीमशक
६८॥
विद्यमानपुच्छा ॥ ४१ ॥ कयरमणिविषशरादेः ॥२।४। ४२ ॥ कबरादिपूर्वात्पुच्छात् स्त्रियां नित्यं ठीर्भवति । पुनर्विधानं नित्यार्वम् । कवरं करे |
कुटिलं वा पुच्छमस्याः कवरपुच्छी । मणिः पुछेऽस्या मणिपुच्छी । विष पुच्छेऽस्या विषपुच्छी । शरं पुच्छेऽस्या. शरपुच्छी ॥ ४२ ॥ पक्षाचोपमादेः॥ १२।४।४३ ॥ उपमानपूर्वात्पक्षशब्दात्पुच्छाच स्त्रियां जीर्भवति । "उलूकस्येव पक्षावस्या उलूकपक्षी शाला। उलूकस्यैव पुच्छमस्या उलूकपुच्छी सेना ॥ ४३॥ 1 क्रीतात्करणादेः ॥ २॥ ४।४४ ॥ करणमादिरवयवो यस्य तस्मात् क्रीतान्तानाम्नोऽकारान्ताव स्त्रियां कीर्भवति । अश्वेन क्रीयते स्म अश्वक्रीती । धनक्रीती।
वखक्रीती । विभक्त्युत्पत्तेः पूर्वमेव कृदन्तेन समासः । मनसाक्रीती । अलुपू । करणग्रहणं किम् । सुक्रीता । दुष्कीता । आदिग्रहणं किम् । अश्वेन क्रीता । न रात्र १ करणं क्रीतान्तस्य नाम्न आदिरवयवो भवति ऐकपद्याभावात् । कथं 'सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसी' इति । धनं च सा क्रीता चेति कर्मधारयोऽयम्।
करणविवक्षायामपप्रयोग एव । केचित्तु धनेन क्रीतेत्यत्राबन्तेनापि समासमिच्छन्ति बहुलाधिकारात् । तदाकारान्तत्वाभावाद् ङीन भवति ॥४४॥ क्ताल्पे॥२॥४॥४६॥2 क्तमत्ययान्तानाम्नः करणादेरल्पेऽर्थे स्त्रियां कीर्भवति । अभ्रविलिप्ती द्यौः। सूपविलिप्ती स्थाली । अल्पाभ्रा अल्पमुपेत्यर्थः । अल्प इति किम् । चन्दनानुलिप्ता स्त्री। अनल्पेन चन्दनेन लिप्लेत्यर्थः ॥ ४५ ॥ "स्वाङ्गादेरकृतमितजातप्रतिपन्नाहहुव्रीहेः ॥ २॥ ४ ॥ ४६॥ स्वाङ्गादेः कृतादिवर्जितात् तान्ताबहुव्रीहेः स्त्रियां डीभवति । शखौ भिन्नावस्याः शंखभिन्नी । अरुभिन्नी । केशविलूनी । गलककृत्ती । कृतादिवर्जनं किम् । दन्तकृता । दन्तमिता । दन्तजाता । दन्तप्रतिपन्ना ।
बहुव्रीहेरिति किम् । *हस्ताभ्यां पतिता हस्तपतिता। पादपतिता ॥ ४६ ॥ · अनाच्छादजात्यादेर्नवा ॥२।४। ४७ ॥ आच्छादवर्जिता या जातिस्तदादेः १ कृतादिवर्जितक्तान्ताबहुव्रीहेः स्त्रियां डीर्वा भवति । शागरो जग्धोऽनया 'शागरजग्धी । शाङ्गरजग्धा । पलाण्डुभक्षिती पडाण्डुभक्षिता । अनाच्छादग्रहणं किम् ।
मानिवृत्ती वचनम् । यद्येव नासिकादिसूत्र एव कुतो न पठ्यते किमर्थ गृथगुदिश्यत इति । उच्यते । पुच्छादित्यस्योत्तरत्रानुगृत्यर्थम् ॥-कवरम-'न सप्तमीन्दादिभ्यश्च' इत्यनेन मणिपुच्छीत्यादिषु मण्यादिशब्दानां पूर्वनिपात ॥-पक्षाचो-॥ उपमीयतेऽनयेति बाहुलकात् 'उपसर्गादात ' इत्यत् । प्रसिद्धसाधादप्रसिद्धविषये येन ज्ञानमुपजन्यते इति । कयरमणिविपशरादे
पक्षाश्योपमादेस्तु इत्येकयोगाकरणात स्वाझादेरिति निवृत्तम् ॥-उलूकस्येव पक्षावस्या इति । अत्र उलूकशब्द उलूकपक्षे उलूकपुछे च वर्तते । यथोष्ट्रमुखे उष्ट्रशब्द अतश्चोलूकशब्द उपमान । भवतीत्युलक इव पक्षावस्या इत्यादिविग्रह । उलूकस्येव पक्षावित्यादि त्वर्थकथनम् ॥-क्रीतात्कर-॥-केचित्त्विति । तन्मतेऽपि प्रत्ययोत्पत्ते प्रागिति समासो बहुलाधिकारालभ्यते । मन्मतेऽपि
यहुलाधिकाराश्रयणे तथैव ॥-तादल्पे ॥-अभ्रविलिप्तीति । पूर्व्यवदस्याद्यन्तेन समास ॥-सपविलिप्तीति ॥ अल्पार्थस्य गम्यमानत्वादल्पशब्दस्याप्रयोग ॥-स्वाहादेः-॥ पूर्ववत्पारिभाषिक । स्वाहम् ॥-कान्ताद्वीहेरिति । कृतादिवर्जितो य क फान्त इति 'विशेषणमन्तः' इति न्यायात् स अन्ते यस्य बहुबीहे । 'जातिकाल '-इति गहादे प्राग्निपात ॥-हस्ताभ्यां है पतित इति कार्यमन्यथा अदन्तत्याभावेनैव डीप्राप्तिनास्ति ।-अनाच्छाद-|| आच्छादशब्द करणसाधनकप्रत्ययान्तस्तस्य च नञ्चिशिष्टस्य जात्या कर्मधारय । तत आदिशब्देनावयवार्थेन बहुबोहि ३ कार्य ॥-शाहरजग्धीति । वारशब्दस्तालव्याविरव्युत्पन्न ॥-मासयातेत्यादिपु माससवसरशब्दयो कालबचनत्वाबहुसुखदु खाना च गुणवचनत्वासजस्त्वभाववचनत्वादनात्यादेरिति ब्यावृत्या