________________
बहुवचनमाकृतिगणार्थम् । तेन किशलयकरा मृणालभुजेत्यादि । आदित्येव । परमशिखा । ' 'अविकारोऽद्रवं *मूर्त प्राणिस्थं स्वाङ्गमुच्यते । *च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु' इति च स्वाङ्गम् । अविकार इति किम् । बहुशोफा । अद्रवमिति किम् । बहुकफा | सूर्तमिति किम् । बहुज्ञाना । प्रा| स्थिमिति किम् । दीर्घमुखा शाला । च्युतं च प्राणिनस्तदिति किमर्थम् । अमाणिस्थादपि पूर्वोक्ताद्यथा स्यात् । वहुकेशी बहुकेशा रथ्या । तन्निभं च प्रतिमादिष्विति किमर्थम् । प्राणिस्यसदृशादपि पूर्वोक्ताद्यथा स्यात् । पृथुमुखी पृथुमुखा प्रतिमा । कथं कल्याणं पाणिपादमस्याः कल्याणपाणिपादेत्यत्र न भवति । स्वाङ्गसमुदायो हि न स्वाङ्गम् । बहुस्वरत्वेन वक्ष्यमाणनियमवलाद्वा न भवतीति । द्विपादी त्रिपादीत्यत्र तु 'द्विगो समाहारात् ' ( २-४-२२ ) इति विशेष विधानान्नित्यमेव ङीर्भवति । अस्वाङ्गपूर्वपदादेवेच्छन्त्यन्ये । पाणी एक पादौ यस्याः सा पाणिपादा। मुखमेव नासिका यस्याः सा मुखनासिका ॥ ३८ ॥ *नासिकोदोष्ठजङ्घादन्तकर्णशृङ्गाङ्गगात्रकण्ठात् ॥ २ । ४ । ३९ ॥ असहन विद्यमानपूर्वपदेभ्य एभ्यः स्वाङ्गेभ्यः खियां ङीर्वा भवति । पूर्वेण सिद्धे नियमार्थमिदम् । तेन नासिकोदराभ्यामेव बहुस्वराभ्याम् । ओष्ठादिभ्य एव च संयोगोपान्येभ्यो भवति नान्येभ्यः । तुङ्गनासिकी तुङ्गनासिका । कृशोदरी । कृशोदरा । विम्बोष्ठी बिम्बोष्ठा । दीर्घजङ्घी दीर्घजङ्घा । समदन्ती समदन्ता । चारुकर्णी चारुकर्णा । तीक्ष्णशृङ्गी तीक्ष्णशृङ्गा । मृदङ्गी मृदङ्गा । सुगात्री सुगात्रा | स्निग्धकण्ठी स्निग्धकण्ठा । असहनविद्यमानपूर्वपदादित्येव । * सहनासिका । अनासिका । विद्यमाननासिका । सोदरा | अनुदरा । विद्यमानोदरा । इत्यादि । नियमः किम् । पृथुजघना सुललाटा दृढहृदयेत्यादौ बहुस्वरान्न भवति । * कल्याणगुल्फा सुपावी इत्यादौ संयोगोपान्त्यान्न भवति । अङ्गगात्रकण्ठेभ्यो ङीप्रत्ययं नेच्छन् केचित्तु दीर्घजिहशब्दादपीच्छन्ति । दीर्घजिही दीर्घजिह्वा कन्येति ॥ ३९ ॥ नखमुखादनानि ॥ २।४ । ४० ॥ असहन विद्यमानपूर्वपदाभ्यां स्वाङ्गाभ्यां नखमुखशब्दाभ्यां स्त्रियां ङीर्वा भवति अनाम्नि असंज्ञायामेव । शूर्पनखी शूर्पनखा । अतिनखी अतिनखा । चन्द्रमुखी । चन्द्रमुखा । अतिमुखी अतिमुखा । अनाम्नीति किम् । शुर्पणखा । व्याघ्रणखा । वज्रणखा । गौरमुखा । श्लक्ष्णमुखा । कालमुखा । * संज्ञाशब्दा एते ॥ ४० ॥ पुच्छात् ॥ २ । ४ । ४१ ।। असहनञ्विद्यमानपूर्वपदात्स्वाङ्गात्पुच्छात् स्त्रियां ङीर्वा भवति । दीर्घपुच्छी दीर्घपुच्छा । अतिपुच्छी अतिपुच्छा । असहनविद्यमानपूर्वपदादित्येव । सपुच्छा । अपुच्छा ।
कल्याणा गोखा यस्या इति । अवयवविशेषो जघनरूप ॥ - अविकार इति । विकारो वातादिजन्मशोफादिः ॥ अद्रवमिति । द्रवणं द्ववो न द्रवोऽस्येत्यद्रवम् । द्रवतीति द्रवं न द्रवमद्रव घा ॥ - मूर्त्तमिति । रूपादियोगो मूर्त्ति । असर्वगतद्रव्यपरिमाणं वा । तद्योगान्मूर्त्त पुद्गलद्रव्यम् ॥ - च्युतञ्च प्राणिन इति । अपरं लक्षणद्वयमुच्यते । तदविकारादिलक्षणयुक्तं प्राणिन च्युतमपि स्वाङ्गं भवति ॥ - नासिको – ॥ सहनासिकेति । सहस्य सो विकल्पेन भवतीत्यत्र न ॥ - तुङ्गनासिकीति । तुजु वलने चेत्यस्य घनि उद्गादित्वाद्गे तुझा ॥ - समदन्तीति । समशब्दोऽजन्त ॥कल्याणगुल्फेति । गळ अदने ‘कलिगलेरस्योच्च' इति फे गुल्फः । कल्याणौ गुरुफावस्याः ॥ नखमु — ॥ - संशाशब्दा एते इति । न तु यौगिका इत्यर्थ ॥ - पुच्छात् ॥ नासिकादिनिय -