________________
न्यस्मिन्पदे निमित्तानमित्तिनोरन्तरे व्यवधायके नकारस्य णो न भवति । पावनद्धम् । पर्यवनीतम् । माषकुम्भवापेन । बीहिकुम्भवापेन । “चतुरायोगेन । भर्तृवाहयुग्मेन । रोपभीममुखेन । अत्र यदा मा पकुम्भस्य वाप इति माषाः कुम्भो वापोऽस्येति वा समासस्तदा 'वोत्तरपदान्तनस्यादेः-(२-३-७६ ) इति विकल्प प्राप्त प्रतिषेधः । यदा मापस्य कुम्भवाप इति तदा 'कवर्गकस्वरवति' (२-३-७७) इति निसे प्राप्ते । एवं शेषेष्वपि यथासंभवं वाच्यम् । अन्ये तु माषाणां कुम्भवाप इति व्यवधायकस्योत्तरपदावयवत्वे प्रतिपेधं नेच्छन्ति । तन्मते माषकुम्भवापेणेत्यादौ नित्यमेव णत्वम् । अपरे तु माषकुम्भस्य बाप इति व्यवधायकस्य पूर्वपदावयवत्वे प्रतिषेधं नेच्छन्ति । तन्मते माषकुम्भवापेण माषकुम्भवापेनेत्यादौ विकल्प एव भवति । अनाडीति किम् । प्राणद्धम् । पर्याणम् । प्रण्यास्यति । प्रण्यापचति । अतद्धित इति किम् । आगोमयेण । शुष्कगोमयेण । परमापूपमयेण । 'यूषयावकेण ॥ ९३ ॥ हनो घि ॥२॥३॥९४ ॥ इन्तेर्नकारस्य घकारे निमित्तानमित्तिनोरन्तरे सति णो न भवति । वृत्रघ्ने । दृत्रघ्ना । वृत्रघ्नः । ब्रह्मनः । शत्रुघ्नः । संज्ञायाम् 'पूर्वपदस्थान्नाम्न्यगः' (२-३-६५) इति, असंज्ञायां तु 'कवगैंकस्वरवति' (२-३-७७ ) इति, प्रघ्नन्ति, प्रानन्, प्राघानि, प्रघानिष्यते यादिषु तु 'हनः' (२-३-८३) इति प्राप्त प्रतिषेधः । इन इति किम् । अघेण । परिघेण । घीति किम् । वृत्रहणौ । प्रहणनम् ॥ ९४ ॥ नृतेयङि॥२।३।९५॥ नृतेोतोनकारस्य यविषये णो न भवति । नरीनृत्यते । नरिनर्ति । ननतिं । नरीनृतीति । अत्र 'रणवर्णात'-(२-३-६४) इत्यादिना प्राप्तिः। यडीति किम् । हरिरिव नृत्यतीति *हरिणी नाम कश्चित् । 'पूर्वपदस्थानाम्न्यगः। (२-३-६५) इति णखम् ॥ ९५ ॥ क्षुनादीनाम् ॥ २॥३॥ ९६ ।। शुभना इत्येवमादीनां नकारस्य णो न भवति । शुभाति । क्षुनीतः । शुभ्नन्ति । क्षुम्नन् । क्षुभ्नानः । तृप्नोति । तुमुतः । तृप्नुवन्ति । तृप्नुवन् । तृप्नुवानः । आचार्यस्य भार्या आचार्यानी । आचार्यस्य भोग आचार्यभोगस्तस्मै हित आचार्यभोगीनः । एषु 'रघुवर्णात्'- | (२-३-६४) इत्यादिना प्राप्ते, सर्वनाम । नूनमनः । परिवृत्तम् । गुस्नृत्तम् । परिनर्तनम् । ग्रामनटः । शरनदः । शरनदी। गिरिनगरम् । परिनिवेशः। श्रीनिवासः।
कायतीति सप्पिस् अम् का धातु. अग्रे इति स्थिते क इत्यस्याविभक्त्यन्तत्वात्पदत्वाभाव इति नानेन णत्वप्रतिषेधः ॥ ननुत्तरपदमपि पदमुच्यते यथा 'वेदूतोनव्यय '-इत्यत्र पदे इत्युक्तेऽपि उत्तरपदे इति वृत्तिकृता व्याख्यातम् , तद्वदिहापि पदे इत्युक्तेऽपि उत्तरपदमपि लप्स्यते तत्कथ सप्पिकेणेत्यत्र व्यावृत्ति । सत्यम् । नानिष्टार्थ शास्त्रप्रवृत्तिरिति न्यायादेवविध व्याख्यान न सर्वत्रापि युक्त कि त्वभिप्रेतसिद्धर्थ वचिदेव । यद्वा कुत्सिताद्यर्थे क्प् तदा निर्विवादमेव ॥-पदेऽन्तरे-॥-चतुरङ्गयोगेन । अत्र 'क्वगैक'-इति प्राप्त निषिध्यते ॥ मापकुम्भस्य चाप मापस्य कुम्भवाप इत्यास्मिश्च वाक्ये 'वृत्यन्तोऽसपे' इति पदसज्ञानिषेधेऽपि भूतपूर्वकपदत्वमाश्रीयते ॥-कवर्गकस्वरवति इति । क्वर्गाशेन विशेषविहितत्वान्न तु 'वोत्तर'-इति विकल्प. ॥-यूषयावकेणेति । यवानां विकार 'विकारे' अण् वृद्धि । याव एव 'यावादिभ्य क' | यूपेण मासमुद्रादिरसेन मिश्र यावक अलवतक. यूषयावक्तेन ।-नृतेयडि ।-हरिणतीयन तुणिन् ॥शुभ्नादीनाम् ॥ धुन्नेति लुप्ततिनिदेशेन धातुग्रहणं न तु यड्लुप्निवृत्यर्थम् । अनुबन्धनिर्देशे हि क्षोभणमित्यत्रापि स्यात् । एवं तृमु इत्यत्रापि । यद्येव तर्हि पुनीत इत्यादौ णत्वशास्त्रस्थ परेऽसवादीकारादौ कृते क्षुम्नेति रूपाभावान प्राप्नोति । उच्यते । स्वरादेशस्य स्थानिवदावादेकदेशविकृतस्यानन्यावाद्वा भविष्यतीत्यदोष । बहुवचनेन चास्याकृतिगणता घोत्यते । तेनान्योऽप्यविहि