________________
परिवपणम् । प्रयायमाणम् । परियायमाणम् । प्रयायिणौ । परियायिणौ । अप्रयाणिः । अपरियाणि । प्रयाणीयम् । परियाणीयम् । प्रवहणीयम् । परिवहणीयम् ।। यथासंभवं त क्तवतु अन आन इन् अनि अनीय इसते प्रत्ययाः प्रयोजयन्ति। स्वरादिति किम् । मभुग्नः। प्रभुग्नवान् । अदुरित्येव । दुर्यान पन्थाः। कृतीसेवा प्रवापेन । अलचटतवर्गशसान्तर इत्येव । प्रक्लप्यमानम् । परिक्कृप्यमानम् । प्रेण्वनम् । प्रेन्वनम् । प्रदानम् । प्रधानम् ॥ ८५ ॥ 'नाम्यादेरेव ने ॥२।३।८६ ॥ अदुरुपसर्गान्तःशब्दस्थाद्रपुवर्णात्परस्य नागमे सति नाम्पादेरेव धातोः परस्य स्वरादुत्तरस्य कृतिपयस्य नकारस्य णो भवति । प्रेक्षणम् । प्रेङ्गणम् । प्रेवमाणः । प्रेङ्गमाणः । अत्र शानः । प्रेखिणौ । प्रेगिणौ । अप्रेङ्खणिः । अमेङ्गणिः । प्रेखणीयम् । प्रेगणीयम् । नाम्यादेरिति किम् । प्रमङ्गनम् । प्रकम्पनम् । एवकार इष्टावधारणार्थ । न एव सति नाम्यादेरिति हि नियमे इह णो न स्यात् । प्रेहणम् । मोहणम् । पूर्वेण सिद्धे नियमार्थ वचनम् । नग्रहणं नागमादेशोपलक्षणार्थम् | नकारस्य व्यवधाने हि प्राप्तिरेव नास्ति । अन्वनम्। व्यञ्जनान्तादेवायं नियमः। ण्यन्तात्तु 'णेवी' (२-३-८९) इति *परत्वात् विकल्प एव । प्रमङ्गणा । प्रम
ङ्गना ॥ ८६ ॥ व्यञ्जनादेर्नाम्युपान्त्याद्वा ॥२।३१८७॥ अदुरुपसर्गान्तःशब्दस्थात् रपृवत्सरो यो व्यञ्जनादिनाम्युपान्त्या धातुस्ततः परस्य कृद्विषयस्य स्वरादुत्तरनकारस्य णो वा भवति । प्रमेहणम् । प्रमेहनम् । प्रकोपणम् । प्रकोपनम् । प्रगुप्यमाणम् । प्रगुप्यमानम् । प्रकोपिणौ । प्रकोपिनौ । अप्रकोपणिः । अप्रकोपनि। प्रकोपणीयम् । प्रकोपनीयम् । व्यञ्जनादेरिति किम् । प्रेहणम् । प्रोहणम् । नाम्युपान्त्यादिति किम् । मवपणम् । प्रवहणम् । स्वरादित्येव । प्रभुन्न । परिमुग्नः। अदुरिसेव । दुर्मोहनः । दुहन । अलचटतवर्गशसान्तर इत्येव । प्रभेदनम् । प्रभोजनम् । 'स्वरात् ' (२-३-८५ ) इत्यनेन नित्यं प्राप्ते विभाषेयम् ॥ ८७ ॥ १६
णे ॥२।३।८८॥ अदुरुपसर्गान्तःशब्दस्थाद्रपूवर्णात्परस्य ण्यन्ताद्धातोविहितस्य स्वरादुत्तरस्य कृविषयस्य नकारस्य णो वा भवति । प्रमङ्गणा । प्रमङ्गना। प्रयापणम् । प्रयापनम् । मयापिणौ । प्रयापिनौ । अप्रयापणिः। अप्रयापनिः। प्रयापयिम् । प्रयापनीयम् । विहितविशेषणं किम्। प्रयाप्यमाणः, प्रयाप्यमान इति क्येन व्यवधानेऽपि यथा स्यात् । अलचटतवर्गशसान्तर इत्येव । पदापनम् । प्रतियापनम् । अनाम्यादिभ्यो नागमे सति 'नाम्यादेरेव ने' (२-३-८६) इति नियमेनावान्न हि ख्यादीनां कृति निमित्तभूते स्वरात्परो धातुनकारोऽस्ति येन प्राप्तौ प्रतिषेधोऽर्थवान् स्यादिति स्वरादिति कृन्नकारस्य विशेषणम् न ‘अदुरुपसर्गान्तर'-इत्यस्य धातोर्वा 'देशेन्तरोऽयनहन ' इति प्रतिषेधादनेन हि प्राप्तस्य स प्रतिषेधः । न चाऽन्त शब्दो धातुर्वा स्वरान्तो येन प्रतिषेधोऽर्थवान् स्यादिति । किञ्चोपसर्गविशेषणे प्रभुग्न इत्यत्रापि स्यात् । कृद्विशेषणमपि न । तस्मिन्नपि कृते कृतो य स्वर तत परस्य नकारस्येति स्थिते प्रयाणीयमित्यादौ प्राप्तिः । प्रहीण इत्यादी न स्यादिति ॥-प्रक्लप्यमानमिति । वर्णैकदेशस्य वर्णग्रहणेन ग्रहणात्समुदायव्यापारे चावयवस्य लकारस्याप्युच्चारणमित्यऽलचटेति प्रवर्तत एव । यत लुकारस्य मध्येऽर्द्धमानो लकारोऽये पश्चाच तुरीय स्वरभागोऽस्ति ॥ नाम्यादरे-॥ प्रेड्खणमित्यादी 'कवणुक'-इति नागमस्य न णत्वं नामिति बहुवचनेन बाधितत्वात् ॥-परत्वाद्विकल्प इति । प्रेड्खणमित्यादौ 'नाम्यादे'-इत्यस्यावकाशः प्रयापणेत्यादी 'णेर्वा' इत्यस्य, प्रेशणा प्रेशना इत्यादी तूभयप्राप्तौ परत्वाद्विकल्प एव । अत एव प्रमाणमित्यादी नियमाप्रवृत्ति ॥-व्यञ्जनादे-॥-दुर्मोहन इति । दुर्मुसतेऽनेनास्मिन् वा 'करणाधारे' अनट् दुर्मुहातीति नन्दादिभ्यो वा ॥-दुर्गुहन इत्यत्र 'गोहः स्वरे' ऊत् ॥-णेवा
VAN