________________
गुल्माश्च वीरुधः ॥ "फली वनस्पतिज्ञेयो *वृक्षाः पुष्पफलोपगाः ॥ १ ॥ इति यद्यपि भेदोऽस्ति तथाप्यतिवहुत्वार्थबहुवचनालादामहणे वनस्पतीनामाप ग्रहणं भवति । अत एव च यथासंख्यमपि न भवति । तथा संज्ञायामसंज्ञायां च भवति । द्वित्रिस्वरेति किम् । देवदारुवनम् । भद्दारुवनम् । ओपधिक्षेभ्य इति किम् । *विदारीवनम् । पितृवनम् । शिरीपाणामदूरभवो ग्रामोऽपि शिरीपास्तेषां वनं शिरीपवनम् । अनिरिकादिभ्य इति किम् । इरिकावनम् । मिरिकावनम् । तिमिरवनम् । चीरिकावनम् । कमरिवनम् । वीरवनम् । हरिवनम् । इरिकादिराकृतिगणः । इरिकादिविशेपवर्जनाव विशेषाणामेवेह विधिः । तेनेह न भवति । द्रमवनम् । वृक्षवनम् ॥६७॥ गिरिनद्यादीनाम् ॥२॥३६८॥ गिरिनदीत्यादीनां नकारस्य वा णो भवति । गिरिणदी। गिरिनदी गिरिणखः। गिरिनख । गिरिणः । गिरिनद्धः। गिरिणितम्बः। गिरिनितम्वः। वक्रणदी । बक्रनदी । वक्रणितम्या। वक्रनितम्बा। चक्रणितम्बा। चक्रनितम्बा। मापोणः। मापोनः। तूर्यमाणः । तूर्यमान ।आर्गयणः। आर्गयनः। ऋगयनं वेत्त्यधीते वेत्यण् । ऋगयनस्य व्याख्यानं तत्र भवो वा शिक्षादित्वादण् । बहुवचनाद्यथादनिमन्येऽपि भवन्ति ॥६८॥ पानस्य भावकरणे ॥२२३२६९॥ पूर्वपदस्थेभ्यो रपूवर्णेभ्यः परस्य भावे करणे च यः पानशब्दस्तत्संवन्धिनो नकारस्य णो वा भवति । क्षीरपाणं क्षीरपानं वर्तते । कपायपाणं कषायपानं वर्तते । सौवीरपाणं सौवीरपानं वर्तते । करणे, क्षीरपाणं क्षीरपानं भाजनम् । कपायपाणः कपायपानः कंसः। भावकरण इति किम् । पीयतेऽस्मिन्निति पानः । क्षीरपानो घोषः॥ ६९ ॥ देशे ॥२।३।७० ॥ पूर्वपदस्थाद्रपुवर्णात्परस्य पानशब्दनकारस्य णो नित्यं भवति । देशे समुदायेन चेद्देशो गम्यते । योगावभागानवेति निवृत्तम् । पीयत इति पानम् । क्षीरं पानं येषां क्षीरपाणा उशीनरा । सुरापाणाः प्राच्याः । सौवीरपाणा
त्यो मालत्यादय लता वल्ली कर्कोट्यादिका ॥-गुल्मा इस्वस्कन्धास्तरवो बहुकाण्डपत्रा. केतक्यादय । एतलतागुल्मरूप द्वयं वीरुध । उत्पलस्वेव व्याचष्ट। लता गुल्मास्तेभ्यो विलक्षणा वीरुधः। पुष्प विना फलमेव यस्य स लक्षादि फली । पुष्प च फलं चोपगच्छन्ति पुष्पफलोपगा ॥ 'नाम्नो गम'-इति हे वृक्षाः पुष्पफलोपगा इति । न चोभयमेव उपगच्छन्ति त एव वृक्षा. कि तर्हि येऽप्यन्यतरत्पुष्प फलं वा उपगच्छन्ति तेऽपि वृक्षा एव । तत्र वेतसादयः पुष्पमेव प्लक्षादय. फलमेव आनादयस्तूभयमप्युपगच्छन्ति । तत्र वृक्षो वनस्पतित्वमवकेशित्व च न व्यभिचरति। बनस्पतिरवकेशी तु वृक्षत्व व्यभिचरतः । यत' फली वनस्पतिज्ञेय फलवन्ध्यस्त्ववकेशीति । अत एव च वनस्पत्यादिग्रहणमकृत्वा वृक्षग्रहण कृत तदन्तर्गतत्वाइनस्पत्यादेरिति ॥-विदारी लताविशेष ॥-गिरिन-||-तूर्यमाण इति । तूर्य मानमस्लेति वाक्ये निमित्तनिमित्तिनोरेकपदस्थत्नाभावादप्राप्ते विकल्प. । तूर्यतेस्त्वानशि श्ये मागमे च 'रघुवर्ण-इति नित्य प्राप्ते ॥-शिक्षादित्वादिति । अन्यथा बहुस्वरत्वात्प्रायो बहुस्वरादिक्ण् स्यात् ॥-पानस्य-॥-सौवीरपाणमिति । सीवीरेषु प्रायो भवं बाहुलकादका बाधित्वा भवेऽण् । सुवीराणामिदं तस्येदम्' इति वा सौवीरं काशिकम् ॥-देशे-॥-योगविभागादिति । अन्यथा 'पानस्य भावकरणदेशे' इति क्रियेत । तथाऽत्र कर्मसाधनपानशब्दो गृह्यते भावकरणप्रधानस्य तु पूर्वेण विकल्प एवं ॥-उशीनरा इति । उश्यत इति 'स्थादिभ्यः कः' । वष्टीति किपि वा स्वृति गौरादिल्यामुशी नगरी तस्या नराः । यहा वष्टेः 'पदिपठि'-इति इप्रत्यये बाहुलकात् किवे खुति उशयस्तेषां नर । बहुलवचनादीर्घत्वे उशीनरः । तस्यापत्यानि 'राष्ट्रक्षत्रियात् '-इति विहितस्य 'बहुप्वनियाम्' इत' देरणों लुप् ॥ सौवीरेति ॥ अजतेनज्यजीति किति रे अिधक्य'- इति