________________
eeeeeeee
त्यर्थ इत्यपरे । विषष्वाण । अवषष्वाण । विषष्वण्यते । अवषष्वण्यते । विषिष्वणिपति । अवषिप्वणिपति । व्यष्वणत् । अवाष्वणत् । व्यषिष्वणत् । अवापिष्वणत् । १३३ व्यवादिति किम । अतिस्वनति । अत्यसिस्वनत् । अशन इति किम् । विस्वनति । अवस्वनति मृदङ्गः। विविधं शब्दं करोतीसर्थः ॥४३॥ *सदोऽप्रतेः परोक्षायां त्वादेः॥२॥३॥४४॥ प्रतिवर्जितोपसर्गस्थात नाम्यन्तस्थाकवर्गात्परस्य सदो धातोः सकारस्य द्वित्वेऽप्यट्यापि पो भवति परोक्षायां तु द्वित्वे सति आदेः पूर्वस्यैव भवति । निषीदति । विपीदति । निपापद्यते । विषापद्यते । निषिपत्सति । विपिषत्सति । न्यपीदत् । व्यपीदत । न्यपीपदत । पपीपदत । परोक्षायां त्वादेरेव । निषसाद । विषसाद । अमतेरिति किम् । प्रतिसीदति । प्रत्यसीपदत् । प्रतिसिपत्सति । अत्र मतेः परस्याद्यसकारस्य पत्वं न भवति । प्रकृतिसकारस्य तु नामिनः परस्य 'नाम्यन्तस्था'-(३-२-१५) दिसूत्रेण भवत्येव । अस्यापि नेच्छन्त्येके । प्रत्यसीसदत् । प्रतिसिसत्सति । तुर्विशेषणार्थः । परोक्षायामेप विशेषोऽन्यत्र तुभयत्रापि भवति ॥४४॥ स्वाश्च ॥२॥३॥ ४५ ॥ उपसर्गस्थान्नाम्यन्तस्थाकवर्गात्परस्य स्खजेः सकारस्य द्वित्वेप्यट्यपि पो भवति परोक्षायां तु द्वित्वे सत्यादेरेव । अभिष्वजते । परिष्वजते । प्रतिष्वजते । अभिषिष्वङ्क्षते । परिषिष्वक्षते । प्रतिषिष्वक्षते । अभिपाप्वज्यते । अभ्यध्वजत । प्रसप्वजत । अभ्यषष्वात् । परोक्षायां त्वादेरेव । अभिपस्वजे । 'अभिषस्वजे । परिपस्वजे । परिपस्वझे। प्रतिपस्वजे । मतिपस्वो। योगविभागादप्रतेरिति नानुवर्तते । चकारः परोक्षायां त्वादेरित्यस्यानुकर्षणार्थः। ततश्चोत्तरत्राननुवृत्तिः ॥ ४५ ॥ *परिनिवेः सेवः ॥२३॥ ४६॥ परिनिन्युपसर्गस्थानाम्यन्तस्थाकवर्गात्परस्य सेवतेर्धातोः सकारस्य द्वित्वेऽपि पो भवति । परिपेवते । परिपिपेविपते । परिपेपेव्यते । परिपिपेवे । पर्यपेव्यत । निपेवते । निपिपेविपते । निपिपेवे । न्यषेवत । विपेवते । विषिषेविषते । विषिपेवे । व्यपेवत । परिनिवेरिति किम् । अनुसेवते । प्रतिसिपेवे । प्रतिसेपेव्यते। प्रससिपेवत । अत्रोपसर्गाश्रितं पत्वं न भवति । धातोस्तु द्वित्वाश्रितं भवसेव । उभयत्र नेच्छन्त्येके । प्रतिसिसेवे । प्रतिसेसेव्यते । प्रत्यसिसेवत् ॥ ४६ ॥ सयसितस्य ॥ २।३।४७॥ परिनिविभ्य परयो सयसितयोः सकारस्य पो भवति । परिषयः । निषयः । विषयः । परिपितः । निषितः । विषितः । सय इति सिनोतेरलन्तस्याजन्तस्य घान्तस्य वा सित इति तान्तस्य रूपम् । स्यतेर्वा नियमार्थ परिनिविपरस्यैव क्तान्तस्य स्यतेर्यथा स्यात् इति । तेनोपसर्गान्तरपूर्वस्य 'उपसर्गात्सुग'-(२-३-३९) इसादियद्येव तर्हि बोपादित्येवविधमत. सूत्रात्पृथगेव कथ न कृतम् । सत्यम् । विचित्रा सूत्रकृतिः ॥-अवस्तब्धो वृपलः शीतेनेति । संकुचित इत्यर्थ ॥-सदो-॥ पदं विशरणेत्यस्य पदत् विसादने इत्यस्य च ग्रहणम् । उपसर्गादित्यनुवर्त्तते । च्यवादित्यनुवृत्तौ तु तयोरेव विधानात्प्रतिवर्जनानर्थक्य स्यात् ॥-स्वाश्च ॥-अभिपिष्वङ्क्षत इति । नन्वत्र ‘णिस्तोरेव'-इति नियमात् मूलधातुसकारस्य पत्वं न प्राप्नोति । उच्यते ॥ पट्टे पर इति न्यायादिदमेव प्रवर्त्तते ॥-अभिषस्वा इति । भन्न 'स्वोर्नवा' इति परोक्षाया चा कित्वम् । पक्षे किद्वदभावामलोपाभाष ॥योगविभागादित्यादि । ननु योगविभागात्परोक्षायां त्वादेरिति नानुवर्चत इति कथ न विज्ञायते । सत्यम् । व्याख्यानतो विशेषप्रतिपत्तिरिति ॥-परिनिवेः-॥ सेव इति सामान्योक्तेऽपि पेडिति गृह्यते । न तु सेवृद्धिति । कृतस्येत्यनुवृत्तिरिति पारायणमतम् । न्यासकारास्तु पेवृड्डौ सपोपदेशौ अग्रहीषु ॥-सयसित--स्यतेर्वा नियमार्थमिति । उद्योतकरस्त्वाह-सिनोतेरेप