________________
,
प्रतिषेधः । येषां तु दर्शने द्वित्वेऽपि पुनः सनि द्विरुक्तिः तन्मते सुसोपुपिपत इसत्र षणि सुशब्दात् परस्य सस्य पत्वं न भवसेव ॥३७॥ * सर्वा ॥ २ ॥ ३ ॥ ३८॥ इकारान्त निर्देशात् इह ण्यन्तो गृह्यते । सञ्जयतेर्नाम्यन्तस्थाकवर्गात्परस्य पणि परे सस्य पो वा भवति । सिसज्जयिषति । सिपञ्जयिषति । नित्यं पत्वमित्येके ||३८|| + उपसर्गात्सुग्सुवसोस्तुस्तु भोऽव्ययद्वित्वे ॥ २ । ३ । ३९ ॥ अद्वित्वे द्विर्वचनाभावे सति सुनोतिसुवतिस्पतिस्तौतिस्तोभतीनां सकारस्योपसर्गस्थान्नाम्यन्तस्थाकवर्गात्परस्य पो भवति अव्यपि अडागमेऽपि सति । अव्यवधानेऽपीत्यर्थः । सुग्, अभिपुणोति । परिपुणोति । शिड्नान्तरेऽपीत्यधिकारात् निःपुणोति । दुःपुणोति । अभिपुण्वन्तं प्रयुङ्क्ते, अभिषावयति । अत्रोपसर्गसंबन्धे सति णिः । ण्यन्तानां धातूनामुपसर्गसंबन्धे न भवति । अभिसावयति । परिसावयति । अव्यपि, अभ्यपुणोत् । पर्यपुणोत् । गिनिर्देशात् * सौति सवत्योर्माभूत् । अभिसौति । अभिसवति । सुत्र, अभिपुवति । परिपुवति । अय्यपि । अभ्यपुवत् । पर्यषुवत् । शनिर्देशात् "सुतिसुत्योर्न भवति । अभिभूते । अभिसूयते । सो, अभिष्यति । परिष्यति । अय्यपि । अभ्यध्यत् । पर्यष्यत् । स्तु, अभिष्टौति । परिष्क्षैति । *सुष्टुतम् । मुष्टयम् । दुःष्टवम्। *अय्यपि । अभ्यष्टोत् *प्रत्यष्टोत् । स्तुभ् अभिष्टोभते । परिष्टोभते । उपसर्गादिति किम् । दधि सुनोति । मधु सुनोति । पूजायां सोः पूजातिक्रमयोश्चातेरुपसर्गत्वाभावादिह न भवति । सुस्तुतम् । अतिस्तुतम् । येन धातुना युक्ताः प्रादयस्तमेव प्रत्युपसर्गसंज्ञा इति ध्यात्वन्तरयोगे न भवति । निर्गताः सावका अस्मादसौ निःसावको देशः । अभिसावकीयतीत्यत्र सावकी यतेर भिना योगो न सुनोतेरिति न भवति । शिनान्तरेऽपीत्यधिकारात् अटा व्यवधाने न प्राप्नोतीत्यव्यपीति ग्रहणम् । अपिशब्दोऽभावार्थः । अन्यथाव्येव स्यात् । अद्वित्वे इति किम् । अभिसुसूषति । अभ्यसुसुपत् । परिसुसुपति । पर्यसुसुपत् । अभिसिषासति । अभ्यसिषासत् । अत्र पूर्वसकारस्य पत्वं न भवति । मूलधातोस्तु यथामाप्तं पत्वं भवत्येव । केचित्तूपसर्गपूर्वाणां सुनोत्यादीनां पञ्चानामपि सन्नन्तस्तौतिवर्जितानां द्वित्वे सति मूलप्रकृतेरपि पत्वं नेच्छन्ति । अभ्यसुसवत् । अभिसुसाव । अभिसोसूयते । सो, अभ्यसीसयत् । अभिसेसीयते । अभिसिसासति । स्तु, अभितोस्तूयते । अभितुस्ताव । अभ्यतुस्तवत् । स्तुभ्, अभितुस्तुभे । अभितोस्तुभ्यते । अभ्यस्तुभत् । इत्यादि । पदादौ प्रतिषेधे प्राप्ते वचनम् ॥ ३९ ॥ *स्थासेनिसेधसिचसञ्जां द्वित्वेऽपि ॥ २ । ३ । ४० ॥ उपसर्गस्थान्नाम्यन्तस्थाकवर्गात्परेषां स्थादीनां सकारस्य षो भवति द्वित्वेऽपि अय्यपि द्विवचनेनाटा द्वाभ्यां च व्यवधानेऽपीत्यर्थः । स्था, अधिष्ठास्यति । प्रतिष्ठास्यति । अधिष्ठौ । प्रतिष्ठौ । अध्यष्ठात् । अध्यष्ठास्यत् । सेनि, सेनया अभियाति अभिषेणयति ।
नियम । एतद्विपय एवारम्भात् ॥ - सर्वा ॥ इकारान्तनिर्देशादिति । अत एवेह इकार उच्चारणार्थे न कचिदपि विहित. ॥ उपसर्ग - ॥ अत्र - प्रत्यष्टोत् न पर्यष्टोत् परिपूर्वस्य स्तुव अ ' - इति विकल्पभणनात् ॥ ण्यन्तानामिति । धात्वन्तरत्वादिति शेष. ॥ -- अठ्यपीति । विशेषविहितत्वेन पूर्व कृतमपि पत्व परस्मिन्नदागमेऽसिद्ध स्यादिति ॥ -- सौतिसवत्योरिति । पुक् प्रसवे सुं प्रसवैश्वर्ययो. इत्यनयोः ॥ - सूतिसूयत्योरिति । पुढौ ढौच् इत्यनयोः ॥ - सुष्टुतमिति । सातिशयं स्तुयते स्म वाक्यम् । पूजायां तु सोरुपसर्गत्वाभावात् ॥ —स्थासेनि - ॥ अथ