________________
विभक्तिप्रतिरूपका निपाता एते । यथा, परस्परम् परस्परेण परस्परस्येसादयः॥ १२० ॥ 'जात्याख्यायां नवैकोऽसंख्यो बहुवत्॥२।२।१२१ ॥ जातेरेकत्वादेकवचन एव प्राप्ते पक्षे वहुवचनार्थ वहुबद्भाव उच्यते । जातेराख्याभिधानं जासाख्या, तस्यामेकोऽर्थों जातिलक्षणोऽसंख्यः संख्यावाचिविशेषणरहितो बहुबद्वा भवति । संपन्नो यवः । संपन्ना यवाः । संपन्नो ब्रीहिः । संपन्ना ब्रीहयः । जात्यर्थस्य बहुबद्भावात् तद्विशेपणानामपि बहुबद्भावः । तथा चोभयवाचिभ्यो बहुवचनम् । जातिग्रहणं किम् । चैत्रः । मैत्रः। आख्याग्रहणं किम् । काश्यपप्रतिकृतिः काश्यपः । भवस्वयं जातिशब्दो न खनेन जातिराख्यायते कि तर्हि प्रतिकृतिः । एक इति किम् । संपन्नौ श्रीहियौ । मगधेषु स्तनौ पीनौ कलिङ्गेप्वक्षिणी शुभे इत्यादावपि सव्येतरत्वलक्षणाचान्तरजातिद्वयोपाधियोगादेकत्वं नास्तीति बहुबद्भायो न भवति । जातिमात्रविवक्षायां तु भवसेव । मगधेपु स्तनाः पीनाः । स्तनः पीन । कलिऐप्वक्षीणि थुभानि । अक्षि शुभमिति । असंख्य इति किम् । एको व्रीहिः संपन्नः मुभिक्षं करोति । अत्र विशेपणभूतसंख्यामयोगोऽस्तीति एकेत्रीयः संपन्नाः सुभिक्षं कुर्वन्ति इति न भवति ॥१२१ ॥ अविशेषणे दो चास्मदः ।।२।२।१२२॥ अस्मदो द्वावेकश्चार्थो वा बहुचद्भवति 'अविशेषणे' “न चेत्तस्य विशेपणं प्रयुज्यते। *आवां ब्रूवः। वयं ब्रूमः। अहं ब्रवीमि । वयं ब्रूमः। अविशेषण इति किम्। आवां गाग्यौँ । ब्रूवः । अहं पण्डितो ब्रवीमि । अहं चैत्रो ब्रवीमि । कथं नाव्ये च दक्षा वयम्, वं राजा वयमप्युपासितगुरुमज्ञाभिमानोन्नताःसा वाला वयमप्रगल्भमनसः इत्यादि। दक्षत्वादीनां विधेयत्वेनाविशेषणत्वात भविष्यति। यदनूद्यमानमवच्छेदकं तद्विशेषणम् इति *एकानेकस्वभावस्यात्मनोऽनेकस्वभावविवक्षायां वहुवचनं सिद्धमेव
जात्याख्यायां-॥ वैपयिकेऽधिकरणे सप्तमी निमित्तसप्तमी वा ॥-जात्यर्थस्येति । न जातिशब्दस्य तथा सति सपन्ना यवा इति यवशब्दादेव जातिशब्दाबहुवचन स्यात् न सपन्नशब्दात्तविशेषणभूतादिति। । जात्यर्थस्य बहुवद्भावे सपनादिविशेषणान्यपि सामानाधिकरण्याद्यवादिशब्दोपात्ते जात्यर्थे वर्तन्त इति तेभ्योऽपि बहुत्वाश्रय बहुवचनमुपपञ्चमिति ॥-चैत्रः। मैत्र इति । नेह जातिरभिधेया यदृच्छाशब्दत्वादनयो । जातिहि सामान्यमुच्यते यच्छबलशाबलेयधवलधावलेयाद्यनेकव्यक्तिभेदेषु गौगौरित्यायनुवृत्तप्रत्ययकारणमिति । यदि च बालकुमारादिभेदेऽनुवर्तमानमभिन्न रुप जाति कश्चिच्छब्दार्थोऽस्ति इति | जातिग्रहणमनर्थक स्यात् तस्मात्सादृश्यसामान्यमिह जातिन स्वरूपसामान्यमिति ॥-भवत्ययं जातिशब्द इति । गोत्र च चरणै सहेति लक्षणेन परमाख्याग्रहणात्णधान्येन जातावभिधेयाया भवति । इह तु तविशिष्टा प्रतिकृतिरारयायते इति ॥-'मगधेषु स्तनौ पीनौ कलिङ्गेष्वक्षिणी शुभे। याहू प्रलम्वावङ्गेषु बङ्गेषु चरणौ दृढौ' ॥१॥-अविशे-॥ न विशेषणमविशेषणम् । यहा विशेषणस्याभाव । अस्मद इत्यत्र अनुकरणत्वादस्मच्छब्दकार्याप्रवृत्ति । अविशेषण इत्यत्र प्रतिपेधप्रधान प्रसज्यो नञ् । यद्यन्न पर्युदास स्वाद्विशेषणादन्यस्मिन्निति तदा विशेपणेन विधिनापि प्रतिषेधो विशेषणादन्यस्मिस्तु प्रयुज्यमाने विधि । कोऽर्थ , सत्यप्यस्मदर्थस्य विशेपणे ततोऽन्यास्मिन् प्रयुज्यमाने स्यादित्यर्थ । ततश्चाऽह मैत्रो ब्रवीमीत्यत्रापि मिवन्तस्य विशेष्यस्य भावात् मैत्र इति विशेपणे सत्यपि स्यादित्याह-न चेत्तस्येति ॥-आवां व इति । अत्र द्वयोर्मध्ये एको छूते ततश्च कथमावा खूब इति । उच्यते । द्वयोरप्यभेदोपचारात् ॥-विधेयत्वेनेति । अज्ञातज्ञापनीयत्वेनेत्यर्थः ॥एकानेकस्वभावस्येति । अयमर्थ. 'एकोऽप्यात्मा यथैकत्वेनानुभूयते तथा द्रष्ट्रा श्रोता मन्तेत्यादिनानात्वेनापि । न ह्येकान्तेनैकत्वेनानेकत्वेन वेतरविनिर्मुक्तेन प्रतिपत्तिरस्ति । तत्र यथैकत्वेन द्वित्वेन च तस्मिन्निवाक्षिते एकवचन द्विवचनं च तथा बहुत्वविवक्षायां बहुवचन सिद्धम् ॥ नटाना नृत्तम् । 'नटान्नुत्ते न्य.'-नाट्यम् ॥-फल्गु-॥-प्रोष्टपदे इति । प्रवृद्ध ओष्टो यस्य
।