________________
।
सप्तमीपञ्चम्यौ भवतः । अधिको द्रोणः खार्याम् । अधिको द्रोणः खार्याः ॥ १११ ॥ तृतीयापीयसः ॥ २ । २ । ११२ ॥ अधिकशब्देन * सामर्थ्याद्भूयोवाचिना युक्तादल्पीयोवाचकादौणान्नाम्नस्तृतीया भवति । अधिका खारी द्रोणेन ॥ ११२ ॥ पृथग्नाना पञ्चमी च ॥ २ ॥ २ ॥ ११३ ॥ पृथग्नानाशब्दाभ्यां युक्ताद्गौणानाम्नः पञ्चमी तृतीया च भवति । पृथग्मैत्रात् । पृथग्मैत्रेण । नाना चैत्रात् । नाना चैत्रेण । यदा पृथमानाशब्दावन्यार्थी तदा प्रभृत्यादिसूत्रेण पञ्च तृतीयैवानेन विधीयते । यदा त्वसहायार्थी तदा पञ्चमीविधानार्थमपीदम् । अन्ये तु द्वितीयामपीच्छन्ति ॥ २ । २ । ११३ ॥ ऋते द्वितीया च ॥ २ । २ । ११४ ॥ ऋते इसेतदव्ययं वर्जनार्थम् । तेन युक्ताद्गौणान्नानो द्वितीया पञ्चमी च भवति । चित्रं यथाश्रयमृते । श्रनङ्गं विक्रियते रोगमृते । ऋते धर्मात् कुतः सुखम् । द्वितीयां नेच्छन्त्येके ॥ ११४ ॥ "विना ते तृतीया च ॥ २ । २ । ११५ ॥ विनाशब्देन युक्ताद्वैौणानान्नस्ते द्वितीयापञ्चम्यौ तृतीया च भवति । विना वातम् । विना वर्षम् । न विना शब्दभावनाम् । याचां विना विद्धि । विना वातात् । विना वातेन । द्वितीयां नेच्छन्त्यन्ये ॥ ११५ ॥ *तुल्यार्थैस्तृतीयाषष्टयौ ॥ २ । २ । ११६ ॥ तुल्यार्थैर्युक्ता द्रौणान्नान्नस्तृतीयाषष्ट्यौ भवतः ॥ मात्रा तुल्यः । मातुस्तुल्यः । पित्रा समानः । पितुः समानः । गुरुणा समः। गुरोः समः। चैत्रेण सदृशः। चैत्रस्य सुदृशः । अर्थग्रहणं पर्यायार्थम्। उपमा नास्ति कृष्णस्य, तुला नास्ति सनत्कुमारस्येसा दौ उपमादयो न तुल्यार्था इति न भवति । 'गौणाधिकाराच्च गौरिव गवयः, यथा गौस्तथा वय इत्यादौ न भवति । तृतीयामविकल्प्य षष्ठीविधानं सप्तमीबाधनार्थम्। तेन गवां तुल्यः स्वामी, गोभिस्तुल्यः स्वामीत्यत्र स्वामीश्वरेत्यादिना सप्तमी न भवति ॥ ११६॥ + द्वितीयाषष्ट्या वेनेनानञ्चेः ॥ २ । २ । ११७ ॥ एनप्रत्ययान्तेन युक्ताद्रौणान्नान्नो द्वितीयाषष्ट्यौ विभक्ती भवतो न चेत्सोऽचेः परो विहितो भवति । पूर्वेण ग्रामम् । पूर्वेण ग्रामस्य । अपरेण ग्रामम् । अपरेण ग्रामस्य । दक्षिणेन विजयार्धम् । दक्षिणेन विजयार्धस्य । उत्तरेण हिमवन्तम् । उत्तरेण हिमवतः । अनश्चेरिति किम् । माग्ग्रामात् । प्रत्यग्ग्रामात् । उदग्ग्रामात् ॥ ११७ ॥ हेत्वर्थैस्तृतीयायाः ॥ २ । २ । ११८ ॥ हेतुर्निमित्तं कारणमिति पर्यायाः । एतदर्थैः शब्दैर्युक्तात् द्वितीया च । अतस्तयोर्वाधिके सप्तमीपञ्चम्यावनेन विधीयेते ॥ - तृतीया ॥ - सामर्थ्यादिति । अल्पीयस इत्युपादानात् । कर्मसाधनो भूयोऽथोऽधिक्शब्द प्रतिपत्तव्य इति । कर्त्तरि तृतीया सिद्धैव षष्ठीबाधनार्थं तु वचनम् ॥ ऋते द्वि- ॥ नाङ्गं विक्रियत इति । विपयादिभिः कर्तृभिरित्यर्थः । विक्रियत इति कर्मण्ययं प्रयोग । कम्मकर्त्तरि तु 'भूपार्थ - इति किरादित्वात् वयप्रतिषेधः स्यात् ॥ - विना ते ॥ विनेति तृतीयायान्तमव्ययम् । आय करणविन्यास. प्राणस्योध्वं समीरणम् ॥ स्थानानमभिघातश्च न विना शब्दभावनाम् ॥ - तुल्यार्थी - ॥ न तुल्यार्थ इति । तुल्यायो हि धमिवाचका । तुलोपमादयस्तु तुल्यत्वादिधर्मवचना इति न तुल्यार्थी ॥ गौणाधिकाराचेति । प्रधानाद्गोशब्दान्न भवतीत्यर्थ' । तुल्यार्थतापि नास्तीति चकारेण परिहा रान्तर समुचीयत इति शेष । नन्वनन्तरात् पूर्वसूत्रात् तृतीयानुवर्त्तते ततस्तुल्यार्थैवति तद्विकल्पे कृते 'शेषे' इत्यनेन पक्षे शेषलक्षणा पछी सिद्धैव किमर्थं तद्विधानमित्याह - तृतीयेत्यादि ॥ -- गवां तुल्यः स्वामीति । गवां तुल्य इत्यर्थः । यद्यऽसत्स्वामी गवां तुल्य इत्यर्थो विवक्ष्यते तदा गोशब्दस्य स्वामिशब्देनायोगात्सप्तमीप्राप्तिरेव नास्तीति ॥ - गवय इति । कीदृग्गवय इत्येवं पृष्टो नागरिकैयंदा वदत्यारण्यको वार्त्ता यथा गौर्गवयस्तथा ॥ द्वितीया ॥ पूर्वेणेति । पूर्वस्यामदूरवत्तिभ्यां दिशि ' अदूरे एनः ॥ हेत्वर्थैः ॥ प्रत्यासत्तेरिति । हेत्वयैस्तु व्यधिकरणाद्धेतु