________________
अत्राप्यकाथ्याभावे पूर्वेण नित्यं सप्तमी। अन्तेनेति किम्। “अय नश्चतुर्पु गव्युतेषु भोजनम्। भोजनं हि भोक्तधर्मो नावनोऽन्त इति पूर्ववत्सप्तम्येव॥ नन्वन्तेन सहाध्वनोऽभेदोपचारात सिद्धमेवैकार्थ्यं किमनेन । सत्यम् । कालेऽप्येवं मा भूदिति वचनम् ॥ १०७ ॥ षष्ठी वानादरे ॥२।२।१०८॥ यद्भावो भावलक्षणं तस्मिन् भाववति वर्तमानागौणानाम्नोऽनादरे गम्यमाने षष्ठी वा भवति । पक्षे पूर्वेण सप्तमी । रुदतो लोकस्य पात्राजीत् । रुदति लोके पात्राजीत् । कोशतो बन्धुवर्गस्य प्राब्राजीत् । कोशति वन्धुवर्गे पाबाजीत् । रुदन्तं क्रोशन्तं वाऽनादृत्य मात्राजीदियर्थः ॥१०८ ॥ *सप्तमी चाविभागे निर्धारणे॥२।२।१०९॥ जातिगुणक्रियादिभिः समदायादेकदेशस्य बुद्ध्या पृथक्करणं निर्धारणम्। तस्मिन् गम्यमाने गौणान्नाम्नः षष्ठी सप्तमी च भवति 'अविभागे' निर्धार्यमाणस्यैकदेशस्य समदायेन सह कथंचिदैक्ये शब्दागम्यमाने । 'क्षत्रियः पुरुषाणां पुरुषेषु वा शूरतमः । शालयः थूकधान्यानां थूकधान्येषु वा पथ्यतमाः । कृष्णा गवां गोषु वा संपन्नक्षीरतमा । धावन्तो गच्छतां गच्छत्सु वा शीघ्रतमाः। युधिष्ठिरः श्रेष्ठतमः कुरूणां कुरुषु वा । अविभाग इति किम् । माथुराः पाटलिपुत्रकेभ्य आढ्यतराः। पञ्चालाः कुरुभ्यः संपन्नतराः। मैत्रश्चैत्रात्पटुः । अयमस्मादधिकः । अत्र हि शब्दात् भेद एव प्रतीयते न तु कथंचिदैक्यमिति न भवति । 'पञ्चमीवाधनार्थ वचनम् । अन्ये तु पञ्चमी
सामानाधिकरण्य न घटेत । गवामी: श्रीः तां दधाति 'पृकाऋषि '-इति किदु. । सोऽनाऽस्ति मतुः । अव्युत्पन्नो वा गवीधुमच्छब्द, ॥ अद्य नश्चतुर्यु गन्यूतेप्विति । गब्यूतिरत्रास्ति विषयतयाऽवयवितया वा 'अभ्रादिभ्यः' अः ॥ गन्यूत क्रोश एकः ॥-नन्वन्तेनेति । चतुर्पु योजनेषु यत्साकाश्यं तचत्वारि योजनानि ॥-पष्ठी वा-॥-पक्षे पूर्वेण सप्तमीति । वाशब्दमन्तरेणानादरे षष्ठयाऽपवादतया सप्तमी बाध्येत । ननु 'बद्भाव ' इति भावलक्षणे सामान्ये सप्तमी तत्रानादर इति विशेषे पष्ठी सप्तम्यामनादरप्रतीतिरर्थप्रकरणादेरित्यर्थभेदान्न वाध्यबाधकभावोsस्तीति कि पक्षे सप्तम्यर्थेन वाशब्देनेति । उच्यते । यथाऽनादरादन्यत्र साम्यतः सप्तम्यस्ति । एवं 'शेपे' इत्यनेन पष्ठयपि तत्रोभयत्रापि प्रवजन् रुदतापि लोकेन निवर्त्यमानस्तद्रोदनमनादृत्य प्राबाजीदित्यनादर. प्रकरणादेः प्रतीयत इति सामान्येऽर्थे पष्ठी सप्तमी बाधेतेति पक्षे तदर्थ वावचनम् ॥-सप्तमी-॥ क्षताप्रायते 'स्थापा'-इति क. पृपोदरादित्वादलोपे क्षत्र तस्यापत्य 'क्षत्रादिय.'-क्षत्रियः पुरुषाणामित्यादिषु क्षत्रियत्वशालिवजात्या कृष्णत्वगुणेन धावनक्रियया आदिशब्दात् युधिष्ठिरप्रभृतिसंज्ञया च निर्धारणम् । ननु निर्धार्यमाणस्यावयवस्य समुदायाभ्यन्तरत्वात् ततश्च समुदायस्याऽधिकरणविवक्षायां वृक्षे शाखेतिवत् सप्तम्याः सिद्धत्वात् संबन्धविवक्षायां वऽवयवस्य वृक्षस्य शाखेतिवत् षष्ठया अपि सिद्धत्वात्किमनेनेति । नैवम् । विभागे प्रतिपेधार्थत्वादस्य सर्वत्रैव निरिणस्य विभागरूपत्वेनाऽविभागपूर्वकत्वात् अविभागग्रहणस्य निरर्थकत्वादविभागग्रहणसामर्थ्यावधारणमायिते । अविभागो यन्त्र शब्दत एव प्रतीयते तत्र निर्धारणे सप्तमीषष्ट्याविति । यथा क्षप्रियः पुरुषाणां पुरुषेष्वित्यत्र निर्ममाणस्य क्षत्रियस्य पुरुषत्वेनाऽविभागप्रतीतिः । तेन माथुरा. पाटलिपुत्रकेभ्य आक्ष्यतरा इत्यत्र न भवति । न सत्र केन चित्प्रकारेण माथुराणां पाटलिपुत्रकेप्वविभाग शब्दतः प्रतीयते । न हि पाटलिपुत्रका माधुरा नाप्याव्यतरा इति वाक्याझेद एव प्रतीयते इत्याह-शब्दागम्यमाने इति । गवां कृष्णेत्यादी विभज्यमाना गार्गोत्वेन समुदायादविभक्ता काप्पयन तु विभक्ता तस्माद्विभज्यमानस्यैकदेशस्य विभागाश्रमस्य च समुदायस्य पत्र विभागाविभागौ स एवानयोर्विपयः । यत्र तु तयोविभाग एव न कथंचिदैक्यं तत्र पञ्चम्येव भवति । अत एवाह-पञ्चमीबाधनार्थमिति । अयमर्थः निरिणस्य विभागरूपत्वात् यस्य हि यतो विभागस्तस्य तदपेक्षमाऽवधिरूपत्वात् अपादानत्वात् 'पञ्चम्यपादाने' इति पञ्चम्यां प्राप्तायां यत्रावि