________________
द्वितीयो०
श्रीदमश०धिकिनि वर्तमानागौणानाम्नः सप्तमी भवति । उपेसधिकाधिकिसंवन्धं द्योतयति । उप खार्या द्रोणः । द्रोणोऽधिकः खार्या इत्यर्थः । उप निष्के कार्षापणः। कार्षाप॥४३॥ ११ जोऽधिको निष्कस्येत्यर्थः । उपेनति किम् । खार्या उपरि द्रोणः । अधिकिनीति किम् । अधिक मा भूत् । तेनोप द्रोणे खारीति न भवति ॥ १०५ ॥ यद्भावो
भावलक्षणम् ॥ २।२।१०६ ॥ भावः क्रिया । प्रसिद्धं लक्षणमप्रसिद्धं लक्ष्यम् । यस्य संवन्धिना भावेन क्रियया भावोऽपरक्रिया लक्ष्यते तस्मिन् वर्तमानागौणानाम्नः सप्तमी भवति । गोषु दुयमानामु गतः । दुग्धास्वागतः । अत्र कालतः प्रसिद्धन गवां दोहेन भावेनान्यस्य गमनमसिद्धं लक्ष्यते । एवं देवार्चनायां क्रियमाणायां गतः। कृतायामागतः । गम्यमानेनापि भावेन भावलक्षणे भवति । आमेषु 'कलायमात्रेषु गतः । पक्केषु आगनः । अत्र जातेष्विति गम्यते । गम्यमानमपि हि विभतेनिमित्तं भवति । यथा, वृक्षे शाखा । ग्रामे चैत्रः । अत्र भवति वसति चेत्याधारनिमित्तं गम्यते । यत्र क्रियाणां कारकत्वं तद्विपर्ययो वा, यथा, ऋद्धेष भुजानेपु दरिद्रा आसते । ऋद्धेष्वासीनेषु दरिद्रा भुञ्जते । यत्र क्रियानर्हाणामकारकत्वं तद्विपर्ययो वा, यथा, दरिद्रेष्वासीनेषु ऋद्धा भुञ्जते । दरिद्रेषु भुनानेषु ऋद्धा आसते । तत्रापि भावो भावस्य लक्षणं भवतीयनेनैव सप्तमी । यद्भहणं प्रकृत्यर्थम् । भाव इति किम् । यो जटाभिस्तस्य भोजनम् । भावलक्षणमिति किम् । यस्य । भोजनं स मैत्रः । तृतीयापवादो योगः॥ १०६ ॥ *गते गम्येऽध्वनोऽन्तेनैकार्थ्य वा॥२।२।१०७ ॥ कुतश्चिदवविवक्षितस्याध्वनोऽवसानमन्तः । यद्भावो भावलक्षणं तस्याध्वनोऽध्यवाचिशब्दस्यावन एवान्तेनान्तवाचिना सहकार्य सामानाधिकरण्यं वा भवति । तद्विभक्तिस्तस्माद्भवतीत्यर्थः। गते गम्ये, गतशब्देऽप्रयुज्यमाने इत्यर्थः । गवीधुमतः सांकाश्यं चत्वारि योजनानि । चतुर्पु योजनेषु गतेषु भवतीत्यर्थः । एवं लोकमध्यात् लोकान्तमुपर्यधश्च सप्त रज्जूनामनन्ति । पक्षे पूर्वेण सप्तमी । गवीधुमतः सांकाश्यं चतुर्पु योजनेषु । गतेष्विति गम्यते । गत इति किम् । दग्धेषु लुप्तेष्विति वा प्रतीतौ माभूत् । गम्य इति किम् । गतशब्दमयोगे मा भूत् । गवीधुमतः सांकाश्यं चतुर्पु योजनेषु गतेषु भवति । अत्रैकार्थ्यं न भवति । सप्तमी तु पूर्वेण नित्यं भवति । अव्वन इति किम् । कार्तिक्या आग्रहायणी मासे । ॥-उपेना-॥ अत्रापि यदधिक तदधिकिन्यारूढमित्याधारविवक्षायां सप्तमी सिद्धव पर पूर्ववद्विभक्त्यन्तरबाधनार्थम् ॥-अधिको निष्कस्येति । साधु त्यो राज्ञ इतिवन्निष्कशब्दस्याधिकशब्देन सह सयन्धाभावात् 'अधिकेन भूयसस्ते ' इत्यनेन निष्कशब्दान्न पञ्चमी ॥-यद्भावो-|-कलायमाञप्विति । कलायो मालवकप्रसिद्धोऽधमधान्यविशेपो मानमेपा स्यात् 'मानट्' इत्यनेन मात्रट् ॥-यत्रेति । अयमों या ऋद्धाना दरिद्राणां च भुजिक्रियामासनक्रियां च प्रति यथासख्य कारकत्व कोऽर्थ तां प्रति कर्तृत्वं तद्विपर्ययोऽकारकत्व वा तत्रापि भावो भावस्य लक्षणसित्यनेनैव सप्तमी सिद्धेति यदन्यै. क्रियाहाणा कारकत्व तद्विपर्ययो वा यत्र क्रियानहर्हाणामकारकत्व तद्विपर्ययो चेति सप्तमीविधायक सूत्रद्वय कृतं तत्रारम्भणीयम् । यस्य भावो भावस्य लक्षण ततो भाववत सप्तमीप्यते यद्हणमन्तरेण चैतन्त्र लभ्यते इत्याह-यग्रहणं प्रकृत्यर्थमिति । यो जटाभिरुपलक्षितस्तस्य भोजनमित्यत्र न भावो भावस्य लक्षणमपि तु द्रव्यम् ॥-तृतीयापवाद इति । इत्थभूतलक्षणेऽथें ॥-गते गम्ये-॥ कुतश्चिदवधेर्गवीधुमत इत्यादिलक्षणात् विवक्षितस्पेषत्तापरिच्छेदायोपात्तस्पायनोऽयसान साकाश्सायन्त ॥-यद्भाव इति । यस्यायनश्चतुर्योजनरूपस्य भावेन गमनरूपेणाऽपरो भावः साकाश्यभवनरूपो लक्ष्यते तस्येत्यर्थः ॥-ऐकार्थ्यमिति । एकोऽर्थो द्रव्यमनेकभेदाऽधिष्ठान यस्य स एकार्थस्तस्य भाव ऐकार्यम् ॥-तद्विभक्तिरिति । अन्यथैकविभक्तिमन्तरेण