________________
४२ ॥
이
भवति । 'सप्तम्यर्थं वचनम् ॥ ९८ ॥ व्याप्ये क्तेनः ॥ २ । २ । ९९ ॥ इष्टादिभ्यः क्तान्तेभ्य इष्टमनेनेत्याद्यर्थे तद्धित इन् वक्ष्यते । क्तप्रत्ययान्ताद्य इन् तदन्तस्य व्याप्ये वर्तमानाद्गौणान्नाम्नः सप्तमी भवति । वेति निवृत्तम्। अधीतं व्याकरणमनेनेति वाक्यावस्थायामभिधायाधीतीति वृत्त्योक्तेनानभिहिते । कर्मणि प्रसयार्थकर्तृकेण च धात्वर्थेन व्याप्यमाने कृतपूर्वी कटमियादाविव द्वितीयायां प्राप्तायां तदपवादोऽयम् । अधीतं व्याकरणमनेनाधीती व्याकरणे । आम्नातं द्वादशाङ्गमने नाम्नाती द्वादशाङ्गे । परिगणितं ज्योतिरनेन परिगणिती ज्योतिषि । इष्टो यज्ञोऽनेनेष्टी यज्ञे । क्तेन इति किम् । कृतपूर्वी कटम् । भुक्तपूर्वी ओदनम् । इन् ग्रहणं किम् । उपश्लिष्टो गुरून् मैत्रः । व्याप्य इति किम् । मासमधीती व्याकरणे । अत्र मासात् माभूत् । मासस्य हि न कर्मत्वम् । द्वितीया तु 'कालाध्वनोर्व्याप्तौ ' (२-२-४२) इत्यनेन ॥९९॥ तयुक्ते देती ॥ २ । २ । १०० ॥ *हेतुर्निमित्तं कारणम् । तेन व्याप्येन युक्ते संयुक्ते देतो वर्तमानागौणान्नाम्नः सप्तमी भवति । हेतुतृतीयापवादः । चर्मणिदीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् ॥ केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः ॥ १ ॥ तयुक्त इति किम् | वेतनेन धान्यं लुनाति । नात्र वेतनं धान्येन संयुक्तम् । धनेन वसति । हेताविति किम् | "देवस्य पादौ स्पृशति ॥१००॥ अप्रत्यादावसाधुना ॥ २२॥१०२॥ असाधुशब्देन युक्ताद्रौणान्नाम्नोऽप्रसादादिप्रयोगाभावे सप्तमी
प्रसूते स्म 'गव्यर्थ ' इति क ॥ - सप्तम्यर्थ वचनमिति । अयमर्थ स्वाम्यादीना गवादिसबन्धित्व तनिवृत्तो हि तेपा स्वाम्यादिभावाभावखवास्येव पष्ठी, सप्तमी तु क्रियाप्रतीत्यभावान्नास्तीति पक्ष सप्तमीप्रापणार्थं वचनमिति ॥ - व्याप्ये केनः ॥ - वेति निवृत्तमिति । व्याप्योपादानात् तेन यधिकारभेद । पृथग्योगादिति वा ॥ - प्रत्ययार्थेत्यादि । प्रत्ययस्यार्थ प्रत्ययार्थं । प्रत्ययार्थ कर्ता यस्य धात्वर्थस्य अध्ययनलक्षणस्य स तथा । तेन व्याप्यमाने व्याकरण इति ॥ तद्युक्ते ॥ तेन व्याप्येन युज्यते स्म । तथान नानादेशजविनेयानुग्रहार्थं युक्त हेतुर्निमित्त कारणमिति बहुतरपर्यायकथनम् । हेतुशब्दोपादानारियह विशिष्टमेव निमित्तमभिप्रेतं न निमित्तमानमन्यथा तबुक्के निमित्ते इति कृते दागेण धान्ये लुनातीति निमित्तमानवाचिनो दानादपि स्यात्सप्तमी । न चोपपदविभक्तेः कारकविभक्तिर्बलीयसीति न भविष्यतीति वाच्यम् । यतो यथा कर्तृकरणयोस्तृतीया विहितेत्ति तृतीयाया कारकविभक्तित्व तथाsन सप्तम्या अपि व्याप्येन युक्त इति कारक श्रुत्या कारकविभक्तित्वम् । सा सुपपदविभक्तिर्यंत कारकगन्धोऽपि नास्ति यथा शक्कार्थवपादिभिर्योगे चतुर्थीति । तसाद्धेतुशब्दाभिधेय विशिष्टमेव निमित्त यदर्थ कियारम्भस्तदेवात्र निमित्तमभिप्रेत न निमित्तमान तेन दानाय सप्तमी । न हि दानार्थी लवनक्रियेति ॥ द्वीपिनमिति । द्विधा गता आपो यन ' ' अन्तरनवर्ण ' इतीपादेशे द्वीपमस्यास्ति इन् । अय नन्त पुछिन । यदा द्वीपमाचष्टे निजि 'विपिन ' इति निपात्यते तदाकारान्तोऽभिधानद्वीपिनाविति प्रतिपदपाठासुलीय । कुञ्जो दन्तावस्त्र स्तो 'मध्यादिभ्यो र । पुप्प लातीति उऽज्ञातायर्थविवक्षाया के च 'पुष्पलक. ॥ - देवस्य पादाविति । अस्त्यन पादलक्षणेन कर्मणा देवस्य योगो हेतुत्य तु नास्तीति ॥-अप्रत्यादा- ॥ रहादिशब्दस्य व्यवस्थावाचिव्यात् प्रति परि अनु अभि इत्येत एवाप्रत्यादावित्यनेना । ननु साधुशब्देन सदाचार उच्यते । आचरण च कियाविपयमिति मातृशब्देन तद्स्था परिचर्यादिकिया उच्यते इति मातृपरिचरणादिक्रियाणां सम्यगाचरिता मातरि साधुरित्यु
१ पुप्पलक' क्षुद्रग्रामाधिपति स हतो मारित । अथवा पुष्पलक सीमादिकार्थं निक्षिप्त पापाण स केनचित्सीमास्यामिना हतो भिन्न २ यदि तु साधुशब्दो भक्तिप्रधाने संकल्पविशेषे वर्तते । तद्वैपरीत्ये चाऽसाधुशब्द तदा मातुरेव विपयभावसंभवात् सिद्धेव सप्तमी । नेदं सूत्रं उपयुज्यते ।
.
द्वितीयो -
॥ ४२ ॥