________________
11 ग्रहणम् । ग्रामं गमी । औणादिक इन् । ग्राममानामी । औणादिको णिन् । शतं दायी । सहस्रं दायी । कारी मेऽसि कटम् । हारी मेऽसि भारम् । एवाधमण्ये णिन् ।
एष्यणेति किम । अवश्यंकारी कटस्य । साधुदायी वित्तस्य ॥ ९४ ॥ सप्तम्यधिकरणे ॥२।२।९५॥ गौणानाम्न एकद्विवहावधिकरणे कारके डिओस
सुप्लक्षणा यथासंख्यं सप्तमी विभक्तिर्भवति । दिवि देवाः। पर्यङ्के आस्ते । तिलेषु तैलम् । गुरौ वसति । युद्ध संनद्यते । अङ्गुल्यग्रे करिशतम् ॥ ९५ ॥ *नवा ६ सुजथैः काले ॥२।२।९६॥ सुचोऽर्थो वारलक्षणो येषां प्रत्ययानां तदन्तैयुक्तात्कालेऽधिकरणे वर्तमानागौणान्नाम्नः सप्तमी वा भवति । द्विरह्नि भुङ्क्ते ।। १. पक्षे शेषे षष्ठी । द्विरह्रो भुङ्क्ते । मासे पञ्चकृत्वो भुङ्क्ते । मासस्य पञ्चकृत्वो भुङ्क्ते । वहुधाति भुङ्क्ते । बहुधाह्रो भुङ्क्ते । मुजथैरिति किम् । अहि भुङ्क्ते ।
रात्रौ शेते । “बहुव्रीह्याश्रयणं किम् । सुजर्थप्रत्ययस्याप्रयोगे गम्यमाने तदर्थे माभूत । काल इति किम् । "द्विः कांस्यपाभ्यां भुलते । अधिकरणे इसेव । द्विरहूना भुङ्क्ते । आधारस्याधारत्वाविवक्षायां पक्षे शैषिकी पष्ठी सिद्धैव । नियमार्थ तु वचनम् । तेन प्रत्युदाहरणेषु शेषे पष्ठी न भवत्येव ॥ ९६ ॥ कुशलायुक्तेनासेवायाम् ॥२।२।९७ ॥ कुशलो निपुणः। आयुक्तो व्यापृतः । आभ्यां युक्तादाधारे वर्तमानाद्गौणान्नाम्नः सप्तमी वा भवति आसेवायां तात्पर्ये गम्यमाने । कुशलो विद्याग्रहणे । *आयुक्तस्तपश्चरणे । पक्षे अधिकरणाविवक्षायां शेपपष्ठी । कुशलो विद्याग्रहणस्य । आयुक्तस्तपश्चरणस्य । आसेवायामिति किम् । कुशलचित्रकमणि न च करोति । आयुक्तो गौः शकटे । आकृष्य युक्त इयर्थः । अधिकरणे इसेव नित्यं सप्तमी । पक्षे आधारस्याविवक्षायां विकल्पे सिद्धेऽनासेवायामाधाराविवक्षानिवृत्त्यर्थं वचनम् ॥ ९७ ॥ खामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः ॥२।२।९८॥ एभिर्युक्तागौणानाम्नः सप्तमी वा भवति । पक्षे शेषपठी । गोषु स्वामी । गवां स्वामी । गोप्वीश्वरः । गवामीश्वरः । गोष्वधिपतिः । गवामधिपतिः । गोषु दायादः । गवां दायादः । गोषु साक्षी । गवां साक्षी । गोषु प्रतिभूः । गवां प्रतिभूः । गोषु प्रमृतः । गवां प्रसूतः । स्वामीश्वराधिपतीति पर्यायोपादानात् पर्यायान्तरयोगे न भवति । ग्रामस्य राजा । ग्रामस्य पतिः। पष्ठयेव
cwweso
णादे. सल्' 'लिन्मिन्यनि'-इति स्त्रीत्वे वराणसाया अदूरभवा 'निवासादूर'-इत्यण ॥-एण्यह-॥-शतं दायी । शत धारयन् ददाति । 'णिन् चावश्यक'-इति णिन् । करोपीति हरसोति पूर्ववण्णिन् ॥-सप्तम्यधि-॥ अन्न सत्यर्थे वैपयिक वा सप्तमी ।-नवा सु-॥ अधिकरणे नित्यं सप्तमी सिद्धैव पक्षे पष्ठीविधानार्थ तु सूत्रम् ॥-बहुव्रीह्याश्रयणं किमिति । अन्यथा पष्ठीतत्पुरुषाश्नयेण सुजयें काले इति कृते यदाऽर्थादिना द्विर्भुक्के इति द्विखिति प्रतीयते तदापि स्यात्तदा माभूदित्येवमयं तदाश्रयणमित्यर्थ ॥-द्विः कांस्यपाच्यामिति । फसायेद कसीय 'परिणामिनि तदर्थे ' इतीय । तत कसीयस्य विकारः 'कसीयाङ्ग्यः' इति ज्यो यलुक् च ॥-द्विरदा भुङ्क्ते इति । अहरधिकरणमपि अन्नाऽशने करणविवक्षामनुभवतीति तृतीयैव भवति ॥नियमार्थं तु वचनमिति । सुजथैरेव योगे काले सप्तमी वा भवति । सुजोंगे काल एव वा सप्तमी भवतीत्युभयथापि नियमात् प्रत्युदाहरणेषु आधारसप्तम्येव न पष्ठीति ॥-कुशलायुक्ते-॥-आयुक्त इति । युजपी आयुक्ते स, युजिच् आयुज्यते स्म । कर्तरि त. ॥-खामीश्वरा-1-अधिपतीति । अधिरूढ पति 'प्रात्यव'-इति स । अधिकश्चाऽसौ पतिश्च वा ।