________________
श्री मश०
॥ ४१ ॥
1
द्वितीयो
व्रजति । कसु, ओदनं पेचिवान् । तत्त्वं विद्वान् । आनेति उत्सृष्टानुबन्धनिर्देशात् कानशानानशां ग्रहणम् । कटं चक्राणः । वचनमनूचानः । शान, मलयं पवमानः । कतीह कवचमुद्रहमानाः । कतीह शत्रून निघ्नानाः । कवीह वपुर्भूपयमाणाः । आनश्, ओदनं पचमान । चैत्रेण पच्यमानः । कटं करिष्यमाणः । अतृश, अधीयंस्तत्त्वार्थम् । धारयन्नाचाराङ्गम् । शतृ, कटं कुर्वन् । कटं करिष्यन् । ङि, परीपहान् सासहिः । कटं चक्रिः । दधिचित्तम् । णकच, एधानाहारको व्रजति । कटं कारको व्रजति । चिन्निर्देशात् णकस्य न भवति । वर्षशतस्य पूरकः । पुत्रपौत्रस्य दर्शकः । खलर्थः, ईपत्करः कटो भवता । सुज्ञानं तत्त्वं भवता ॥ ९० ॥ तयोरसदाधारे ॥ २॥ २ ॥ ९१ ॥ सतो वर्तमानादाधाराच्चान्यस्मिन्नर्थे विहितौ यौ कौ क्तक्तवतू तत्संबन्धिनोः कर्मकर्त्रीः षष्ठी न भवति । कटः कृतो मैत्रेण । कटं कृतवान् । गतो ग्रामं चैत्रः । ग्रामं गतवान् । असदाधार इति किम् । राज्ञां ज्ञातः । राज्ञां बुद्धः । राज्ञां मतः । राज्ञामिष्टः । राज्ञां पूजितः । कान्तो हरिश्चन्द्र इव प्रजानाम् । ' ज्ञानेच्छा ' ( ५-२-१२ ) इत्यादिसूत्रेण सत्यत्र क्तः कथं शीलितो मैत्रेण, रक्षित क्षैत्रेण । भूतेऽयं क्तः । वर्तमानताप्रतीतिस्तु प्रकरणादिनेति । अन्ये तु ज्ञानेच्छाच - र्थताच्छील्यादिभ्योऽतीते क्तं नेच्छन्ति । तन्मतेऽपशब्दावेतौ । आधारे, इदमोदनस्य भुक्तम् । इदं सक्तूनां पीतम् । इदमहेः सृप्तम् । इदमेषामासितम् । 'अयर्थाचाधारे' (५-१-१२) इति क्तः ॥ ९१ ॥ वा क्लीवे ॥२२॥९२॥ क्लीवे यो विहितः क्तस्तस्य कर्तरि पष्ठी वा न भवति । छात्रस्य हसितम् । छात्रेण हसितम् । मयूरस्य नृत्तम् । मयूरेण नृत्तम् | कोकिलस्य व्याहृतम् । कोकिलेन व्याहृतम् । इहाहेः सृप्तम् । इहादिना सृप्तम् । क्लीव इति किम् । चैत्रेण कृतम् । क्तक्तवत् इति भावे क्तः । पूर्वेण प्रतिपेधे प्राप्ते विकल्पोऽयम् ॥ ९२ ॥ अकमेरुकस्य ॥ २ । २ । ९३ ॥ कमेरन्यस्योकप्रत्ययान्तस्य कर्मणि षष्ठी न भवति । आगामुकं वाराणसीं रक्ष आहुः । भोगानभिलापुकः । अकमेरिति किम् । दास्याः कामुकः ॥ ९३ ॥ एष्यदृणेनः ॥ २ । २ । ९४ ॥ एष्यत्यर्थे ऋणे च विहितस्येनः कर्मणि पट्टी न भवति । इन इति इणिनो
सबन्धविवक्षाया पष्ठी वा ॥ परिपयन्ते 'स्थादिभ्य क ' ' असोडसिसहरसदाम्पत्यम् परपहाः । 'धन्युपसर्गस्य ' इति दीर्घ ॥ महरिष्यतीति क्रियायाम्' इति णकाचे आहारक' ॥ तयोर - ॥ ननु सन् धात्वर्थस्तत्र धातुरेव वर्त्तते कृत्प्रत्ययस्तु 'कर्त्तरि' इत्यादिना कारके भावे च विधीयते । तत्र सति प्रत्ययविधिरेव नास्ति कथ प्रतिषेध सतोऽन्यस्मिन्नर्थ इति । नैष दोष । सदसहचारी प्रत्ययार्थोऽपि सन्नित्युच्यते । यद्वा धात्वर्थोऽपि सन्निति प्रत्ययत एव विज्ञायते । न हि धातुत क्रियालक्षणो धात्वर्थी भूतो भवन भविष्यन्निति वा ज्ञातु शक्य । धातुर्हि क्रियामात्रमाह न त्वमु विशेषम् । स तु प्रत्ययादेव प्रतीयत इति कर्त्रादिकारकवृत्तिरपि प्रत्यय सतीति विज्ञायते ॥ कथमिति । शीलितो मैत्रेणेत्यादावपि 'ज्ञानेच्छा - इति क्त वर्त्तमानताप्रतीतिरप्यस्ति तत्कथनिषेध इत्याशङ्कार्थं ॥ भूतेऽयं त इति । यद्यय भूते क्त कथ वर्त्तमानताप्रतीति । उच्यते । वर्त्तमानमध्ये भूतो भविष्यंश्च कालोऽस्त्यतो भूते च । यथा कट करोतीत्यत्र कटस्य येऽवयवा निष्पन्नास्तदपेक्षयाऽतीतत्व ये च निष्पद्यमानास्तदपेक्षया वर्तमानत्व ये च निष्पत्स्यन्ते तदपेक्षया भविष्यत्यम् ॥ अहेः सुप्तमिति । सदाधारादन्यत्र चातु शब्द भवति यदा कर्त्तरि कस्तदा इममहि सृप्तो देश यदा कम्र्म्मणि तदा अयमहिना सुप्तो देश । भावे तु 'वा क्लीये' इति वा पछयामहे सुतमहिना तृप्तमिति ॥ अकमे - ॥ - वाराणसीमिति । वरणा च असिश्व वरणासी नद्यौ ते वियेते अस्याम् ' अहरादिभ्योऽञ्' । पृषोदरादित्वात् ह्रस्वदीर्घव्यत्ययेऽनन्तत्वात् ड्याम् । यद्वा वराण इति वीरणस्याख्या वराणास्तृणविशेषा सन्त्यस्या 'तृ
॥ ४