________________
१४ खल्वनेकान्तजयपताकायाः कृतिराचार्यहरिभद्रस्याचार्यहरिभद्रेण वा । गम्यमानेऽपि कर्मणि भवति । अन्तछौं येनादर्शनमिच्छति यस्यादर्शनमिच्छतीति वा । अत्रात्मन
इति कर्म गम्यते । द्विहतोरित्येकवचननिर्देशः किम् । आश्चर्यमोदनस्य नाम पाकोऽतिथीनां च प्रादुर्भाव इति । भिन्नकृतोः कर्तृकर्मपष्टीहेतुत्यमत्रेति न भवति । अस्यणकस्यति किम् । चिकीर्षा मैत्रस्य काव्यानाम् । मेदिका चैत्रस्य मैत्रस्य काष्ठानाम् । भावे णकः। कर्तरीत्येव । साधु खल्विदं शब्दानामनुशासनमाचार्यस्याचार्येण वेत्यत्र शब्दशब्दात्कर्मणि विकल्पो न भवति । अन्ये तु पाल्पत्यययोदिहेत्वोः कर्मण्येव पष्ठीमिच्छन्ति न कतरि । आश्चर्यो गवां दोहोऽगोपालकेन। आश्चर्य इन्द्रियाणां जयो
यूना ॥ ८७ ॥ कृत्यस्य वा ॥२।२।८८॥ कृत्यस्य कर्तरि गौणानाम्नः षष्ठी वा भवति । भवतः कार्यः कटः । भवता कार्यः कटः। कर्तव्यः, करणीयः, देयः, ११ कृत्यो वा कटः । कर्तरीत्येव । गेयो माणवको गाथानाम् । प्रवचनीयो गुरुादशाङ्गस्य ॥ ८८ ॥ नोभयोर्हेतोः ॥२।२।८९॥ उभयोः कर्तृकर्मणोः पष्ठीहेतोः |
कृत्यस्य संवन्धिनोरुभयोरेव पष्ठी न भवति । नेतव्या ग्राममजा मैत्रेण । ऋष्टव्या ग्रामं शाखा चैत्रेण । जेतव्यः शतं मैत्रश्चैत्रेण । उभयोhतोरिति किम् । एकैकहेतोर्माभूत् । *उपस्थानीयः पुत्रः पितुः । उपस्थानीयः पिता पुत्रस्य ॥ ८९ ॥ तृन्नुदन्ताव्ययकस्वानातृश्शतृणिकच्खलर्थस्य ॥२।२।९०॥ तृन उदन्तस्य अव्ययस्य कसोरानस्य अतृशः शतुः णकचः खलर्थस्य च कृतः संवन्धिनोः कर्मकोंः पष्ठी न भवति । तृन्, वदिता जनापवादान् । उदन्त, कन्यामलंकरिष्णुः । रिपून जिष्णुः । शरान् विप्नुः । ओदनं बुभुक्षुः । देवान्वन्दारुः । धावत्सो मातरम् । श्रद्धालस्तत्त्वम् । अव्यय, कटं कृत्वा । पयः पायंपायं ब्रजति । ओदनं भोक्तुं । है 'अकेन क्रीडाजीवे' समास ॥-अन्तद्धौं येनादर्शनमिच्छतीति । पञ्चमीविधायक पाणिनिसूत्रमिदम् । अस्य चायमर्थ अन्तद्धौं अन्तर्द्धिविपये आत्मनः कर्मतापनस्य येनोपाध्यायादिना कर्तृभूतेन यददर्शन तदिच्छतीत्यर्थ ॥-भिन्नकृतोरिति । ननु पाक इत्यत्रापि भावाकोघेज् प्रादुर्भाव इत्यत्रापि स एव तत्कथं भिन्नकृतोरित्युच्यते । सत्यम् । धातुभेदात्तस्यापि भेद इत्यदोष ॥भेदिका चैत्रस्य मैत्रस्य काष्ठानामिति । भेदयितुं पर्याय इत्येव कार्य, भावे तु ‘णिवेत्ति '-इत्यनेनाऽनप्रत्यय एव स्यात् । नन्वन्न प्रयोज्यप्रयोजककों. प्रधाने प्रयोजके पष्ठी प्राप्नोति गौणमुख्ययोरिति न्यायात् । सत्यम् । यथा एकवाक्यस्थयो. कोंस्तृतीया स्यात्तथा तद्बाधिका षष्टयपि ॥-अन्ये तु घालेति । ललितस्वभाव इत्यर्थ । काशिकाकारस्तु व्यधिकारविहितयोरणकयो प्रतिपेधादन्यस्मिन्नपि स्त्रीप्रत्यय एवं षष्ठीमिच्छति । अपरे तु णकाकारयोर्भावाभिधायकयो. कृतो प्रतिषेधाशसनादन्यस्मिन् भावाभिधायक एव पष्ठीमिच्छन्ति ॥-कृत्यस्य वा ।-यो माणवको गाथानामिति । अत्र व्यावृत्तेर्गाथानामित्यत्र कर्मणि साफल्य माणवकात्तु अगौणत्वात् प्राप्तिरेव नास्ति ॥ नोभयोः-॥ ननु द्विकर्मकेषु धातुपु तावदय प्रतिषेध, तत्रैवोभयप्राप्तिसंभवात् । तत्र प्रधानकर्मण. कृत्येनैवाभिहितत्वात् षष्ठयविषयत्वात् प्रधानाप्रधानसनिधी प्रधान एव सप्रत्यय इति न्यायात् तव्यादिवत् अप्रधानादप्यप्रसङ्गात् कर्तयेव प्रतिषेधो न्याय्य इत्युभयग्रहणमतिरिच्यते। नैवम् । द्वितीयावाधिका हि कृत्प्रयोगे पष्ठी विधीयते । द्वितीया चाप्रधानात् यथा भवति तथाऽन्न पष्ठयपि भविष्यति ॥-उपस्थानीयः पुत्रः पितुः । उपतिष्ठते 'प्रवचनीयादय ' इति कर्त्तर्यनीय । अन्न पितु' शब्दात् 'कर्मणि कृत.' इति कर्मणि पष्ठी । द्वितीये तु उपस्थीयते इति कर्मणि तव्यानीयौ ‘कृत्यस्य वा' इति कर्तरि पुत्रात्पष्ठी ॥–तुवदन्ता-॥ 'कर्मणि कृत ' 'कर्तरि' इति च प्राप्ताया. षष्ठया अपवादः ॥-पायंपायं । 'एयचाभीक्ष्ये' भृश'-इति द्वित्वं च ॥-भोक्तुं बजतीति । अत्र हेतुहेतुमद्भावे तृतीया 'तुमोर्थे -इत्यनेन चतुर्थी वा ।