________________
। गवां समूहः । कुम्भस्य समीपम् । पृथिव्याः स्वामीति । न माषाणामश्नीयात् । मुभाषितस्य शिक्षते । न ते सुखस्य जानते । न तस्य सायमश्नीयात । अन्नस्य नो देहि । अक्षाणां दीव्यति । ततः पृष्ठं ददाति । नटस्य शणोति । वृक्षस्य पर्ण पतात । महतां विभाषते ॥ कथं पुनः कर्मादीनां सतामप्यविवक्षा । यथा अनुदरा कन्या अलोमिका एडकेति । गौणादित्येव । राज्ञः पुरुषः । अत्र संबन्धस्य द्विष्ठत्वेऽपि प्रधानात्पुरुषान भवति । प्राधान्यं चास्याख्यातपदसामानाधिकरण्यम् । तेन ततः प्रथमैव भवति । यदा तु पुरुषो राजानं प्रति गुणत्वं प्रतिपद्यते । तदा पुरुषस्य राजेति भवत्येव । कथं राज्ञः पुरुपस्य कम्बल इति । राजापेक्षया पुरुपस्य प्राधान्येऽपि कम्बलापेक्षया गौणत्वात् भवति । प्रथमापवादो योगः ॥ ८१॥रिरिष्टात्स्तादस्तादसतसाता ॥२।२।८२॥ रिरिष्टावस्तात्अस्तात्अस्अतस्आत्प्रसत्यान्तैर्युक्तागौणानाम्नः षष्ठी विभक्तिर्भवति । रि, उपरि ग्रामस्य । रिष्टात्, उपरिष्टात् ग्रामस्य । स्तात् , परस्ताद्रामस्य । अवरस्तादामस्य । अस्तात् , पुरस्तात् ग्रामस्य । अवस्ताद्ग्रामस्य । अधस्तात् ग्रामस्य । अस् , पुरो ग्रामस्य । अवो ग्रामस्य । अधो ग्रामस्य । अतस्, दक्षिणतो ग्रामस्य । उत्तरतो ग्रामस्य । परतो ग्रामस्य । अवरतो ग्रामस्य । आत्, अधराद्ग्रामस्य । दक्षिणात ग्रामस्य । उत्तरात् ग्रामस्य । । पश्चात् ग्रामस्य । दक्षिणपश्चात् ग्रामस्य ।५ पञ्चम्यपवादो योगः ॥ ८२ ॥ *कर्मणि कृतः॥२१२१८३॥ कृतः कृदन्तस्य संवन्धिनि कर्मणि गौणानाम्नः पष्ठी भवति । द्वितीयापवादः । अपां स्रष्टा । पुरां भेत्ता । वर्षशतस्य पूरकः । पुत्रपौत्राणां दर्शकः । यवानां लावकः। ओदनस्य भोजकः विश्वस्य ज्ञाता। तीर्थस्य कर्ता। उदकस्य पिवः । ग्रामस्य गमनम् । गवां दोहः। कर्मणीति किम् । शस्त्रेण भेत्ता। क्रियाविशेषणस्यापि कर्मत्वाभावान्न भवति । साधु पक्ता । स्नोक पक्ता कृत इति किम् । कटं करोति ।कृतपूर्वी कटम् । भुक्तपूर्वी ओदनम् । त्यादितद्धितयोः सिध्येत् विशेषज्ञापनायोक्तम् । राज्ञः पुरुप इत्यादिषु यथाक्रम संबन्धः कथ्यते स्वस्वामिभावसवन्धः, जन्यजनकसं०, अवयवावयविस०, आधाराधेयस०, प्रकृतिविकारभाव सबन्धः, समूहसमूहिभावसं०, समीपसमीपिभावसं०, पाल्यपालकभावस०, आश्याशनभावस०, शिक्षणीयशिक्षणभावस०, ज्ञानज्ञेयभावस०, आश्याशनभावसं०, भक्ष्यभक्षणभावसं०, देवनयूतभावसं०, दान दानिविषयस०, श्रवणश्नवणावधिभावसं०, पतनपतनावधिभावसं०, विभाष्यविभापणभावसबन्धः, इत्यादि. ॥-प्रथमापवादइति । एकद्विवहाविति सख्यामानमुपादाय नाम प्रधानादप्रधानाच सामान्येन प्रथमा विधीयते तनाऽय पष्ठीविधिौणादिति विशेपमुपादाय प्रवर्त्तमानस्तदपवादो भवति ॥-रिरिष्टा-1-परस्तादिति । पर परा वा प्रकृति. I 'परावरात् स्तात् । 'सर्वादयोऽस्यादौ इति पुभावः ॥-दक्षिणपश्चादिति । दक्षिणा च साऽपरा च दक्षिणापरा तस्यां वसति । रिप्रभृतय प्रत्यया. स्वार्थिका दिवशब्देभ्यो विधीयन्तेऽतस्तदन्ता अपि दिक्शब्दा एव इति शेषे' इत्यस्यापवाद 'प्रभृत्पन्यार्थ '-इति पञ्चमी विधीयते । अत एव दक्षिणा यामागमणीयं दक्षिणाहि ग्रामागमणीयमिति 'आही दूरे' इति प्रत्ययद्वययोगे पष्ठी न लभ्यते इत्याह-पञ्चम्यपवाद इति ॥-कर्मणि कृतः ॥-द्वितीयापवाद इति । 'कर्मणि' इत्यनेन प्राप्तायाः ॥-पुत्रपौत्राणामिति । पुत्रस्यापत्यमनन्तरं 'पुनर्भूपुत्र'-इत्यन् । पुत्रस्य पौना' पुनसहिता पौत्रा वा इति विधेयम् । द्वढे तु ' गवाश्वादिः' इति समाहृतिः स्यात् । पिवतीति पिवः । 'प्राध्मा '-इति श.॥-कृत इति किमिति । अयमर्थ ननु कर्म कारक तच क्रियामन्तरेण न संभवति । यत क्रियायाः कारकं कारकं भवति । क्रिया च प्रत्ययसहितं धातुमाक्षिपति । धातोश द्वये एव प्रत्यया विधीयन्ते त्यादयः कृतश्च । तन्त्र 'त पचति' इत्यादिज्ञापकात् त्यादिप्रयोगे द्वितीयाविधानात्