________________
श्रीहेमा० यतो द्रव्ये शब्दप्रवृत्तिः स पर्यायो गुणोऽसत्त्वम् । तेनैव वा रूपेणाभिधीयमानं द्रव्यादि । तस्मिन् करणे वर्तमानेभ्यः स्तोकादिस्यः पञ्चमी वा ॥ ३९ ॥ भवति । स्तोकान्मुक्तः। स्तोकेन मुक्तः। अल्पान्मुक्तः । अल्पेन मुक्तः । कृच्छ्रान्मुक्तः । कृच्छ्रेण मुक्तः। कतिपयान्मुक्तः। कतिपयन मुक्तः । असत्वे इति किम् ।
स्तोकेन विषेण हतः । अल्पेन मधुना मत्तः । कृच्छ्रेण भोजनेन निर्विष्णः । विषादि द्रव्यसामानाधिकरण्यात अत्र सत्ववृत्तिता। करण इति किम् । क्रियाविशेषणे मा भूत् । स्तोकं चलति । इह च स्तोकादीनामसैत्ववाचित्वात् द्वित्वबहुत्वासंभवे एकवचनमेव ।। स्तोकस्य चाभिनित्तेरनिवृत्तेश्च तस्य वा ॥ प्रसिद्धि करणवस्य स्तोकादीनां प्रचक्षते ॥ १॥ ७९ ॥ अज्ञाने ज्ञः षष्ठी ॥२।२।८० ॥ अज्ञानेऽर्थे वर्तमानस्य जानातेः संवन्धिनि करणे वर्तमानाद्गौणानाम्न एकद्विवहौ यथासंख्यं उसोसानुलक्षणा षष्टी विभक्तिर्भवति । वेति निवृत्तम् । सपिषो जानीते । सर्पिषा करणभूतेन प्रवर्तत इत्यर्थः । प्रवृत्तिरत्र जानातेरर्थः । एवं सपिंपोजर्जानीते । सर्पिषां जानीते । अथ वा सपिषि रक्को विरक्तो वा चित्तभ्रान्त्या सर्वमेवोदकादि सीरूपेण प्रतिपद्यत इति मिथ्याज्ञानवचनोऽत्र जानातिः । मिथ्याज्ञानं चाज्ञानमेव भवति । अज्ञान इति किम् । स्वरेण पुत्रं जानाति । करण इत्येव । तैलं सपिंपो जानाति । तैलं सीरूपेण प्रतिपद्यत इत्यर्थः । अत्र तैलात्कमणो मा भूत । सर्पिषस्तु करणत्वाद्भवसेव । तृतीयापवादो योगः ॥ ८०॥ शेषे ॥२॥२१८१॥ कर्मादिभ्योऽन्यः क्रियाकारकपूर्वक कर्माद्यविवक्षालक्षणोऽधूयमाणक्रियः श्रूयमाणक्रियो वास्येदंभावरूपः स्वस्वामिभावादिः संबन्धविशेषः शेषः । तत्र गौणानाम्नः षष्ठी भवति । राज्ञः पुरुषः । उपगोरपसम् । पशोः पाद: । वृक्षस्य शाखा । क्षीरस्य विकामित्तात् द्रव्ये विशेष्ये स्तोकादिशब्दप्रवृत्ति स गुणोऽसत्वं शब्दस्य प्रवृत्तिनिमित्तमित्यर्थः ॥ तेनैव वेति । असत्त्वरूपेण। अयमर्थस्तिरोहितधनादि विशेष्य स्तोकादिरूपेणैव सामान्यात्मनाऽभिधीयसमान धनादिरूपन्यावृत्त स्तोकादिरूपापन्न द्रव्य गुण क्रिया वा यदा प्रतीयते तदा द्रव्याद्यसत्वमिति ॥-असत्ववाचित्वादिति । द्रव्यस्यैव विशेषसण्यायोगित्वादिति शेष ॥-द्वित्वबहुत्वा
संभवे इति । एकत्वनिबन्धनकवचनस्यापि असभवे औत्सर्गिकमेकवचनम् । स्तोकाल्पादिशब्दाना स्तोकत्वाद्यर्थाभिधायकत्वेनासत्त्ववाचित्वात् क्रिया प्रति साधकतमत्वाभावात् करणत्वाभाषे कथमनेन पञ्चमीत्याशङ्कायाममीषां पूर्वाचार्यप्रसिधा करणत्वमाह । यहा स्तोकेन राहुणा मुक्त. शशीत्यादौ मोचनामोचनलक्षण क्रियाद्वय विद्यते । यत' स्तोकेन मुक्त इति । कोऽर्थ किचिन्मुक्त किचिद. मुक्त इत्यर्थ । ततश्च कस्या क्रियाया अपेक्षया अत्र करणसज्ञेल्याह-स्तोकस्येत्यादि । स्तोकस्याऽभिनिर्वृत्ति निष्पत्ति स्तोकस्य चाऽनिर्वृत्तिमनिष्पत्तिमाश्नित्य स्तोकादीनां करणत्वप्रसिद्धिमाचक्षते
पूर्वाचार्या ॥-अशाने-॥-वेति निवृत्तमिति । भिन्नविभक्तिविधानादिति शेष ॥-सपिपो जानीते । अन्न 'ज्ञ'-इत्यात्मनेपदम् । अत्र करणस्य सन्धिरूपविवक्षया सपिप इद ज्ञान 12 नान्यस्येति पष्ठी सिध्यतीति किमर्थोऽय योग इत्याह-तृतीयापवादो योग इति । अयमर्थ सिध्यति पष्ठी कि तु करणविवक्षाया तृतीया माभूदित्यय योगः ॥-सर्पियामिति आजगव्यमा- 10 | हिषाणा घृतानामित्यर्थ ॥-शेषे ॥ सरस्वतीकण्ठाभरणे कर्मादिकारकाणि इन्द्रचान्द्राभ्यां करणप्राधान्य श्रुतपालेन कलापके चाऽपादानस्य प्राधान्य शकटाभिप्रायेण स्वमते च कर्तु' प्राधान्यम् ॥क्रियाकारकपूर्वक इति । क्रिया च कारक च क्रियाकारके ते पूर्वे यस्य स तथा यथा राजपुरुष । राजा कर्ता पुरुष बिभर्ति अतो राजपुरुष इत्युच्यते ॥-कर्माद्यविवक्षालक्षण इति । | कर्मादिभ्योऽन्य इति तु विशेपेभ्योऽन्यत्व विवक्षितु न तु सामान्यादनाश्रितविशेषात् कारकादपि । अश्रूयमाणक्रियो यथा राज्ञ पुरुष इत्यादि । श्रूयमाणक्रियो यथा-न माषाणामनीयादित्यादि । अस्येदभावरुप इति । अस्येदशब्दस्य यो भाव प्रवृत्तिनिमित्तं स भावो रूपं यस्य स. सबन्धविशेष इति । अत्र कारकसबन्धाद् भिद्यमान सबन्ध, सबन्धविशेष उच्यते । यावता संबन्ध इत्युक्तेऽपि