________________
दयोरुपलक्षितयोरन्यतरवचनस्तेनान्यार्थाद्भिद्यते । इतरश्चैत्रात् । तस्य द्वितीयो मैत्रादिरिसर्थः ॥ अथ जिनदत्तादन्योऽयं मैत्रस्य, जिनदत्तादितरोऽयं चैत्रस्य, छात्राणां पूर्वमामन्त्रयस्व, कायस्य पूर्वमित्यादौ मैत्रचैत्रच्छात्रकायशब्देभ्यः कथं न भवति । उच्यते । प्रत्यासत्तेयस्यैवान्यत्वादिधर्मनिमित्तोऽन्यशब्दादिना योगस्तत एव जिनदत्तादेः पञ्चमी भवति न मैत्रादेरिति ॥७५ ॥ ऋणाडेतोः॥२॥२१७६॥ फलसाधनयोग्यः पदार्थों हेतुः । हेतुभूतं यहणं तदाचिनो गौणान्नाम्नः पञ्चमी भवति । तृतीयापवादः । शताबद्धः । सहस्राद्धः । हेतोरिति किम् । शतेन बद्धः । शतेन वन्धितः । शतेन चैत्रेण वन्धितः । करि प्रयोज्ये प्रयोजके च कर्तुलक्षणा तृतीया भवति । हेतुर्हि फलसाधनयोग्यः पदार्थः कत्रोंदिभ्योऽन्य उच्यते इति कथं कतुर्हेतुत्वम् ॥ ७६ ॥ 'गुणादस्त्रियां नवा ॥ ३ । २ । ७७ ॥ अस्त्रियां वर्त
मानाद्धेतुभूतगुणवाचिनो गौणान्नाम्नः पञ्चमी वा भवति । जाड्याद्रद्धः । जाड्येन बद्धः । पारिख्यात्यान्मुक्तः । पारिख्यात्येन मुक्तः । मोहाद्वदः । मोहेन बद्धः । 2 ज्ञानान्मुक्तः । ज्ञानेन मुक्तः । गुणादिति किम् । धनेन कुलम् । हेतोरियेव । जाड्यस्यैतद्रूपम् । अस्त्रियामिति किम् । बुद्ध्या मुक्तः । प्रज्ञया मुक्तः। विद्यया यशः।
*अस्त्यत्राग्निधूमाव नास्तीह घटोऽनुपलब्धेः सर्वमनेकान्तात्मकम् “सत्वान्यथानुपपत्तेरित्यादौ नाग्न्यादेधूमादिहेतुः। कस्य तद तज्ज्ञानस्य । कथं तर्हि पञ्चमी 'गम्ययपः कर्माधारे, (२।२।७४ ) इति भविष्यति । धूमादिकमुपलभ्यान्यादिः प्रतिपत्तव्य इति त्रार्थ. । ज्ञानहेतुत्वविवक्षायां हेतुत्वलक्षणा तृतीया भवति । धूमेनानिः । अनुपलब्ध्या घटाभावः । सत्त्वान्यथानुपपत्त्या सर्वमनेकान्तात्मकं प्रतिपत्तव्यमिति ॥ ७७ ॥ *आरादथैः ॥२।२।७८॥ आराद्रान्तिकयोः । तन्वेणाभयग्रहणम् । दूराफरन्तिकार्यैश्च शब्दैर्युक्तागौणानाम्नः पञ्चमी वा भवति । दुरं ग्रामात् । दूरं ग्रामस्य । विप्रकृष्ट ग्रामात । विपकृष्ट ग्रामस्य । अन्तिकं ग्रामात् . अन्तिकं ग्रामस्य । अभ्याशं ग्रामात । अभ्याशं ग्रामस्य । संनिकृष्टं ग्रामात् । संनिकृष्टं ग्रामस्य । आराच्छब्दयोगे तु प्रभृत्यादिसूत्रेण नित्यमेव पञ्चमी। अथ दूरं हित ग्रामात, दूरं हितं ग्रामस्य भूयादित्यादौ हितादियोगे पञ्चम्यभावपक्षे ' हितसुखाभ्याम् (२।२।६४) इति चतुर्थी कस्मान्न भवति । उच्यते । हितसुखादियोगे सा चतुर्थी । इह तु 'दूरान्तिकादिनैव योगो न तद्विशेषणेन "हितादिनेति न भवति । यदा तु हितादिना विशेष्यतया योगस्तदा चतुर्थी भवत्येव । अन्ये त्वसत्त्ववचनेरेवारादरिच्छन्ति ॥ ७८ ॥ स्तोकाल्पकृच्छकतिपयादसत्वे करणे ॥ २ । २ । ७९ ॥ ॥-अन्यार्थाद्भिद्यते इति । अयमर्थः अन्य इति प्रकृतिविलक्षणोऽर्थ उच्यते इतर इति च दृश्यमानप्रतियोगीत्यर्थ ॥-छात्राणामिति । छात्राणामवयविनां योऽवयवश्छात्रस्तस्मात्पूर्व छात्रमामय स्वेति पूर्वत्व छात्रान्तरापेक्ष न च्छात्राणामिति समुदायापेक्षम् । समुदायस्य हि एकदेश. स. न तस्य समुदायापेक्षया पूर्वत्वम् । तत्र पूर्वत्वेन योगछात्रान्तरस्य समुदायस्य त्वेकदेशत्वेनेति ॥-कायस्य पूर्वमिति । कायस्यावयविनो यद्भागान्तरं कि विशिष्ट पूर्व कस्याः सकाशानाभः। कायस्थ सबन्धि यदवयवान्तर पूर्व तस्य नाभिरूपेणाऽवयवान्तरेण सह 'सबन्ध कायस्य त्वऽवयवत्वेन ।गुणाद-॥ जडस्य भाव दृढादित्वात् व्यण् । परिण्यातस्य भावः 'पतिराजान्त'-इति व्यण् ।-अस्त्यत्राग्निधूमादित्युदाहरणत्रय यथाक्रम शैवबीवजनमतेन ॥ सत्त्वान्यथेति । सत्वमुत्पादव्ययधौव्ययुक्तत्वम् । तस्य सत्त्वस्याऽन्यथाऽनेकान्तात्मकत्वमन्तरेणाऽनुपपत्तेरघटनात् ॥-आरादथैः ॥-दूरान्तिकादिनैव योग इति । कथ वर्तते कि तत् कर्तृ दूर कस्य ग्रामस्य कि भूत दूर हितमिति दूरशब्देनैव प्रामस्य सबन्धो विवक्षितो न तु हितशब्देन ॥-असत्ववचनैरिति । धर्ममात्रवृत्तिभि । कारकशेषत्वात् पष्ठीप्राप्तौ वचनम् ॥-स्तोकाल्प-॥ यत स्तोकत्वादेनि