________________
वर्जयित्वेसर्थः । वयं इति किम । अपशब्दो मैत्रस्य ॥ ७१॥ यतः प्रतिनिधिप्रतिदाने प्रतिना ॥२॥२॥७२॥ *प्रतिनिधीयत इति प्रतिनिधिमुख्यस्य सदृशोऽर्थः। प्रतिदानं गृहीतस्य प्रत्यर्पणम् विशोधनमिति यावत् । प्रतिना योगे यतः प्रतिनिधिर्यतश्च प्रतिदानम् तद्वाचिनो गौणानाम्नः पञ्चमी भवति । 'प्रयन्नो वासुदेवात प्रति । अभयकुमारः श्रेणिकतः प्रति । सदृश इसर्थः । तिलेभ्यः प्रति माषानस्मै प्रयच्छति। तिलान् गृहीत्वा माषान् ददातीत्यर्थः । एवं सपिपोऽस्म तैलं
प्रति सिञ्चति । सर्पिषोऽस्मै तैल प्रति सिक्त्वा ब्रजति । यत इति किम् । तिलेभ्यः प्रति मापान् प्रयच्छति इत्यत्र मापशब्दान्मा भूत् । प्रतिनिधिप्रतिदान इति किम् । वृक्ष प्रति विद्योतते विद्युत् ॥७२॥ 'आख्यातयुपयोगे ॥२।२।७३ ॥ आख्याता प्रतिपादयिता तत्र वर्तमानागौणानाम्नः पञ्चमी भवति उपयोगे 'नियमपूर्वकविद्याग्रहणविषये । उपाध्यायादधीते । आचार्यादागमयति । श्रावकात् शृणोति । प्रत्येकवुद्धादधिगच्छति । आख्यातरीति किम् । उपाध्यायात शास्त्रमागमयति । अत्र शास्त्रान्माभूत । उपपयोग इति किम् । नटस्य शृणोति । उपयोगविवक्षायां त्वत्रापि भवति । नटाद्भारतं शृणोति । अपादानवेनैव सिद्धे योग एव यथा स्यादित्येवमर्थ वचनम् ॥७३ ॥ *गम्ययपः कर्माधारे ॥२॥२।७४ ॥ गम्यस्याप्रयुज्यमानस्य यपो यवन्तस्य यत्कर्माधारश्च तत्र वर्तमानाद्गौणानाम्नः पञ्चमी भवति । द्वितीयासप्तम्योरपवादः । प्रासादापेक्षते । आसनापेक्षते । पासादमारुह्यासने चोपविश्य प्रेक्षते इसर्थः । गम्यग्रहणं किम् । प्रासादमारुह्य होते । आसने उपविश्य भुड्क्ते । न ह्यत्र यवन्तस्याप्रयोगे तदर्थः प्रतीयते । यग्रहणं किम् । प्रविश पिण्डीम् । प्रविश तर्पणम् । वृक्षे शाखा । ग्रामे चैत्रः । अत्र हि भक्षयकुरुआस्तेवसतीनां गम्यता न तु यपः। ननु यथा कुमूलादादाय पचति कुसूलात्पचतीत्यत्रादानाङ्गे पाके पचेतनादुपातविषयमेतदपादानमिति पञ्चमी भवति भएवामि
ABUA
अप इत्यनेन सह मैत्रशब्दस्य योगोऽरतीति न वर्य इति व्यावृत्तीङ्गविकलता । अन्न मैत्रशब्दान्माभूत् ॥-यतः प्रति-॥ यस्मात् 'किमयादि-इत्यऽपादाने तस् 'आ द्वेर ' । यदा यस्य यत , तदा आधादिभ्य पृषोदर '-इति दलोप । प्रतिनिधिप्रतिदानशब्दात् प्रथमा औ दीयते ॥-प्रतिनिधीयत इति । प्रतीत सन् मुख्यस्थाने निधीयते, आरोप्यते, सदृश क्रियते इति तात्पर्थिः ॥-प्रतिदानमिति । तुल्यजातीयेनाऽनुल्यजातीयेन वा विशोधनमिति शेष ॥-प्रद्युम्नो वासुदेवात् प्रति । युभिर्मीयते 'सुनिभ्यो माडो डित् न ' । प्रकृष्ट द्युम्न पराक्रमी यस्य प्रद्युम्न' । सदृश क्रियते केन सह वासुदेवेनेति । 'तुत्याथें. '-इति तृतीयापष्टयोः प्राप्ति । श्रेणी कायति प्रसन्नचक्षुषेति 'श्रेणिकः । तस्मात् 'प्रतिना पञ्चम्या ' इति तसु॥-तिलेभ्यः प्रतीति । प्रयच्छति प्रददाति, कान् माषान् , कथभूतान् प्रति प्रतिदानभूतान् , केषां तिलानामिति प्रतिशब्दात् द्वितीयकवचनम् ॥-प्रति सिञ्चति । नान सिच प्रतिना योगोऽपि तु सप्पिष इति 'स्थासेनि '-इत्यनेनोपसर्गस्वाभावान पत्वम् ॥-आण्यातयु-1-नियमपूर्वकेति । नियमो विद्यामहणार्थ गुरभुश्रूषादिक शिष्यवृत्तमाख्यायते न तूपयोगमात्रं यत उपयोगमात्र नटादपि भवत्यतस्तस्मादपि स्यात्परमी -श्रावकादिति । श्रायमतीति णकः ॥-प्रत्येकेति । प्रत्येकमिन्द्रध्वजादिक निमित्तमाश्रित्य युद्धः प्रत्येकबुद्ध ॥-गम्ययपः-॥-एवमिहापीति । असमर्थ । प्रासादाकि सत्यापक्रम्य चक्षु रश्मिद्वारा प्रेक्षते । प्रासादाग्निस्सरता चक्षुषा कृत्वा देवदत्त प्रेक्षते वा ॥ तत्ततोऽपक्रामतीति । भयमर्थ -तत प्रासादादेतत् चक्षुरादि अपति निस्सर