________________
श्रीहमश०
॥३७॥
दिभिश्च शब्दयुक्ताद्गौणानाम्नचतुर्थी भवति । पृथग्योगाद्वेति निवृत्तम्। शक्नोति मैत्रश्चैत्राय। प्रभवति मैत्रश्चैत्राय। अलं मल्लो मल्लाय । समथों मल्लो मल्लाय । प्रभुमल्लो मल्लाय। वपद् , वपडग्नये । वपडिन्द्राय । नमस्, नमोऽहयः । नमः सिद्धेभ्यः । स्वस्ति, स्वस्ति प्रजाभ्यः । स्वस्ति संघाय । स्वाहा, इन्द्राय स्वाहा । अग्नये साहा । स्वधा, पितृभ्यः स्वधा । स्वस्तिशब्दः क्षेमार्थः । तद्योगे आशिष्यपि परत्वान्नित्यमेव । स्वस्ति संघाय भूयात् । स्वस्ति प्रजाभ्यो भूयात् । तुनीयया योगाभिधानादिह न भवति । नमो जिनायतनेभ्यः । नात्र जिनानां नमसा योगः । नमस्यति जिनानित्यत्रापि नमस्यधातुना योगो न नमसा। यद्येवं कथं स्वयंभुवे नमस्कृत्येति । नाने नात्र चतुर्थी कितु नमस्कृतिलक्षणया क्रिययाभिप्रेयमाणत्वात संपदानत्वे 'चतुर्थी' (२।२।५३ ) इत्यनेनैव । स्वयंभुवं नमस्कृसत्यत्र तु क्रियाभिमेयत्वाविवक्षायां द्वितीयैव ॥ ६८॥ पञ्चम्यपादाने ॥२॥२॥३९॥ अपादाने कारके गौणानाम्नो यथासंख्यमेकद्विवही उसिभ्यांभ्यसूलक्षणा पञ्चमी विभक्तिर्भवति । ग्रामादागच्छति । पर्वतादवरोहति । गोदाभ्यामागच्छति । यवेभ्यो गां वारयति । कुमूलात्पचति । बलाहकाद्विद्योतते विद्युत् । चौराद्विभेति ॥ १९॥ 'आङावधी ॥२॥२।७० ॥ अवधिर्मर्यादा । अभिविधिरपि तद्विशेष एवेति तस्यापि ग्रहणम् । अवधौ वर्तमानात आङा युक्ताद्गौणानाम्नः पञ्चमी भवति । आ पाटलिपुत्रादुष्टो मेघः । पाटलिपुत्रमवधीकृत्य तयाप्याव्याप्य वा दृष्ट इत्यर्थः । आ कुमारेभ्यो यशोगतं गौतमस्य ॥ ७० ॥ पर्यपाभ्यां वज्ये ॥२॥२१७१ ॥ वज्ये वर्जनीयेऽर्थे वर्तमानात्पर्यपाभ्यां युक्तात् गौणानाम्नः पञ्चमी भवति । परि पाटलिपुत्रादृष्टो मेघः । परि परि पाटलिपुत्रादष्टो देवः । अप पाटलिपुत्रादृष्टो देवः । पाटलिपुत्र देकदेशेन । तथाहि-हितसुसाभ्यामित्यनेन स्वस्तिशब्दस्यैकयोगाकरणात् । एकयोगे च कृतेऽनाशंसाया हितसुखस्वस्तिभिरित्यनेन आशसायां तु तद्देत्यनेन तदिति पूर्ववस्तुपरामर्शन क्षेमद्वारेण वा विकल्प सिद्ध एव तदकरणाद्वेति निवृत्तमित्यर्थ । ननु कथमनैकदेशेन पृथग्योगो न सामस्त्येन । उच्यते । तदत्यन व्यभिचारात् । तथाहि-तद्रेत्यत्रार्थपरो निर्देश । अप तु शब्दपर एवेति ।
परिकपणे 'एल्गनेन तु एकयोगत्वं न व्याख्येयमर्थस्याऽसगते । तत्र हि परिकपणे वर्तमानानाम्न इत्युक्तम् । अनेन स्पेकयोगे वपढादिवत् परिक्रषगशब्दस्वरूपरिग्रह स्पादिते ॥-परत्वानित्यमेवेति । ननु स्पर्दे पर समानविषययोश्च स्पर्ध इति समानविषयत्व 'तबद '-इत्यस्य दर्शयति । तथाहि-स्वस्ति जाल्मायेत्यन्न जाल्मत्वेनाशीरभावात्तत्वाख्यानमिदमिति स्वस्तिचतुर्थ्या अवकाश । क्षेम भूयासंघायेत्यग तु क्षेमचतुर्थ्या अवकाश' । स्वस्ति प्रजाभ्य इत्यगोभयप्राप्ती परत्वादाशिष्यपि नित्यं स्वस्तिचतुर्थी भवतीत्यर्थ ॥-नमसेति । यद्वाऽस्तु नमसा योग तथापि नम - शब्दस्यापतो ग्रहणादनर्थकयोगे न भवति । अन हि नमस्यधातुरर्थवान तु तदेकदेशो नम शब्द इति । अथवा पदान्तरसबन्धानपेक्षणादन्तरगया द्वितीयया कारकविभक्या उपपदविभक्तिस्वदोक्षणावहिरक्षा चतुर्थी चाध्यते । उपपदविभके कारकविभक्तिर्यलीयसीति न्यायात् । ननु कारकविभक्तिरपि क्रियापदापेक्षिणीति कथमन्तरङ्गा । नैप दोष. । कारकस्य क्रियामात्रतबन्धाव्यभिचारात् स्वरूपान्तर्गतेव सापेक्षा ॥-यद्येवामिति । कारकविभक्त्या द्वितीयया वाध्यमाना कथमन्त्र चतुर्थीति प्रश्नार्थ । 'स्वयभुवे नमस्कृत्य प्रह्मणेऽमिततेजसे ॥ मुनिप्रणीतान् विविधान् भवान् व्याख्यामि शाश्वतान् ॥ ॥-आडाव-॥ प्रवृत्तस्य यन्त्र निरोध स मर्यादा । मर्यादाभूतमेव यदा कियया व्याप्यते तदाऽभिविधिः ॥-पाटलिपुत्रमवधीकृत्येति । एतावानर्थ आडा घोत्यते ॥पर्यपा-॥ वज्यवर्जकसबन्ध पर्यपाभ्यां द्योत्यत इति वाक्यस्य परिर्वर्जने' इत्यनेन परिपरीत्यत्र वा द्वित्वम् ॥-अपशब्दो मैत्रस्य । अपगत शब्दात् । तत्पुरषस्य पूर्वपप्रधानत्वात् पूर्वपदेन