________________
चैत्राय चैत्रस्य वा सुखम् ॥ ६५ ॥ तद्भद्रायुष्यक्षेमार्थार्थनाशिषि ॥२॥२॥६६ ॥ तदिति हितसुखयोः परामर्शः । अर्थशब्दः प्रत्येकामसंबध्यते । हिताद्यर्थैर्युक्तागौणानाम्न आशिषि गम्यमानायां चतुर्थी वा भवति । हितार्थे, हितं जीवेभ्यो भूयात् । हितं जीवानां भूयात् । पथ्यं मैत्राय भूयात् । पथ्यं मैत्रस्य भूयात् । सुखार्थे, मुखं प्रजाभ्यो भूयात् । सुखं प्रजानां भूयात् । शं मजाभ्यो भूयात् । शं प्रजानां भूयात् । शर्म भवतात भव्येभ्यः। शर्म भवतात भव्यानाम् । भद्राथै, भद्रमस्तु जिनशासनाय । भद्रमस्तु जिनशासनस्य । मद्रमस्तु जिनशासनाय । मद्रमस्तु जिनशासनस्य । कल्याणमस्तु जिनशासनाय । कल्याणमस्तु जिनशासनस्य । आयुष्यार्थे, “आयुष्यमस्तु चैत्राय । आयुष्यमस्तु चैत्रस्य । दीर्घमायुरस्तु मैत्राय । दीर्घमायुरस्तु मैत्रस्थ । चिरंजीवितमस्तु मैत्राय । चिरंजीवितमस्तु मैत्रस्य । क्षेमार्थे, क्षेमं भूयात संघाय । क्षेमं भूयात संघस्य । कुशल भूयात् संघाय । कुशल भूयात् संघस्य । निरामयं भूयात् साधुभ्यः । निरामयं भूयात् साधूनाम् । अर्थायें, अर्थो भूयान्मैत्राय । अर्थों भूयान्मैत्रस्य । प्रयोजनं भूयान्मैत्राय । प्रयोजनं भूयान्मत्रस्य । कार्य भूयान्मैत्राय । कार्य भूयान्मत्रस्य । आशिषीति किम् । • आयुष्यं माणिनां घृतम् । तत्त्वाख्याने न भवति । हितसुखशब्दाभ्यां पूर्वेण विकल्पः सिद्ध एव । तदर्थार्थ तु तद्भहणम् ॥६६॥ *परिक्रयणे ॥२।२।६७॥ परिक्रीयते नियतकालं स्वीक्रियते येन तत् परिक्रयणं वेतनादि । तस्मिन् वर्तमानागौणान्नाम्नश्चतुर्थी वा भवति । शताय परिक्रीतः। शतेन परिक्रीतः। संभोगाय परिक्रीतः कर्तास्मि तव नामियम् । संभोगेन वा । शतादिना नियतकाले स्वीकृत इसर्थः । परीति किम् । शतेन क्रीणांति । यस्यात्रे करणं न परिक्रयस्य । करणाश्रयणं किम् । शताय परिक्रीतो मासम्। मासान्माभूत् ॥६७॥ शक्तार्थवषदनमास्वस्तिस्वाहास्वधाभिः॥२।२।६८॥ शक्ताषंडायथा कट फ्रियन्ते वीरणानि ॥-तद्भद्रा-॥ भद्रक्षेमार्थयोरन्यत्रैकार्थत्वेऽपि क्षेममापदोऽभावो भद्र सपदुरकर्ष इत्यर्थभेदाद्वितयोपादानम् ॥-आयुष्यमस्त चैत्रायेति । आयुः प्रयोजनमस्य घृतादेरायुष्यं घृतादि । ततश्च दीर्घमायुरस्तु मैत्रायेत्यादौ चतुर्थी न प्रामोति । यत आयुःशब्देन जीवितमेवाभिधीयते न तु जीवितकारणं घृतादिकम् उच्यते कार्य कारणोपचारात् । यथा इन्द्रः स्थूणा । यदा त्यायुरेव भेषजादिखार्थे व्यणि आयुष्यशब्दो निष्पाद्यते तदा निर्विवाद सिद्धमेव । आमयस्याभावो-निरामयम् । 'विभक्तिसमीप'-इति समास ॥-आयुष्यं प्राणिनामिति । अत्र आयुपि साधु 'तन साधौ' य ॥-तगणमिति । तर्हि प्रागप्यथग्रहणमस्तु । सत्यम् । तदर्थानामाशिषि नियमार्थमिदम् ॥-परिक-॥ स्वीकारो सात्मसात्करण परिक्रय उच्यते । परिशब्दोऽन्न प्रत्यासत्ति द्योतयति । यथा परिसहस्रा गाव इति सहसमत्यासत्रा. संभाव्य परिसहसा गाव उच्यन्ते । एवमत्रापि क्रयप्रत्यासन्नोऽल्पकालो वेतनादिना स्वीकार परिक्रय उच्यते । तन यत्करण परिक्रयक्रियायां साधकतम वेतनादि तत्करणव्युत्पत्या परिक्रयणमुच्यते ॥-चेतनादीति । आदिपदाझाटकादिपरिग्रह ॥ करणाश्रयणं किमिति । करणाश्रयणं विना परिक्रीयतेऽस्मिन्निति अनया व्युत्पत्या मासादपि स्थाचतुर्थी ।-शताय परिक्रीतो मासमिति । क्रीत इति रूपं कर्मणि कर्तरि वा । तथाहि-परिक्रीयते स्म परिक्रीत. क. कर्मतापनश्चैत्रः क मासम् । कोऽर्थ मासे। मदा परिक्रीणीते स्म कर्तरि क कर्मणोऽविवक्षितत्वात् । अथात्र मासामिति कर्म विद्यते तत्कथं कर्तरि क । उच्यते । मासमित्यत्र 'कालावभाव '-इत्यनेनाधारस्य युगपत् कर्मसंज्ञाऽकर्मसज्ञा च । तत्र कर्मसज्ञायां कर्मणि द्वितीया, अकर्मसज्ञायां तु कर्तरि क ॥-शक्तार्थ-||-पृथग्योगाद्वेति निवृत्तमिति । तत्र कश्चित् सामत्येन पृथग्योगः कश्चिदेकदेशेन सभवति । भत्र ताव
2900aar
Tee
:
o