________________
ति । कृतं तेन । भवतु तेन । अलमतिप्रसङ्गेन । किं गतेन । कृत । कृतम् । भवतु । अलम् । किम् । एवंमकाराः कृतादयः॥ ४७ ॥ काले भान्नवाधारे॥२॥२॥ ४८॥ काले वर्तमानान्नक्षत्रवाचिनो गौणान्नाम्न आधारे तृतीया वा भवति । पुष्येण पायसमश्नीयात् । पुष्ये पायसमश्नीयात् । मघाभिः पललौदनम् । मघासु पललौदनम् । काल इति किम् । पुष्येऽर्कः । मघासु ग्रहः । अध्वनि माभूत् । चित्रासु जाता चित्रा माणविका तस्यां चित्रायामास्ते । अत्र माणविकायां माभूत । भादिति किम् । तिलपुष्पेषु यत्क्षीरं, तिलच्छेदेषु यद्दधि । अत्र तिलपुष्पतिलच्छेदशब्दौ स्वावच्छिन्ने काले वर्तते इति प्राप्नोति । आधार इति किम् । अद्य पुष्यं विद्धि । स्थाल्या पच्यते इत्यादिवत् आधारस्य करणविवक्षायां तृतीया सिध्यति संवन्धविवक्षायां तु पष्ठी माभूदिति वचनम् ॥ ४८ ॥ प्रसितोत्सुकावबद्धैः ॥२ ॥२॥ ४९ । एतैर्युक्तादाधारे वर्तमानागौणान्नाम्नस्तृतीया वा भवति । केशैः प्रसितः । केशेषु प्रसितः । प्रकर्षण सितो वद्धः प्रसितः । नियमसक्त इसर्थः । गृहेणोत्सुकः। गृहे उत्सुकः । केयौरववद्धः । केशेष्वववद्धः। आधार इत्येव । मनसा मसितः। मनसोत्सुकः । मनसाववद्धः । करणतृतीयाया विकल्पो माभूत् । अवबद्धोत्सुकशब्दसाहचर्यात्तदर्थ एव प्रसितशब्दोऽत्र गृह्यते । पूर्ववत् पष्ठीवाधनार्थं वचनम् । बहुवचनमेकद्विवहाविति यथासंख्यनिवृत्त्यर्थम् ।।४९ ॥व्याप्ये विद्रोणादिभ्यो वीप्सायाम् ॥२॥२॥५०॥ व्याप्ये वर्तमानेभ्यो द्विद्रोणादिभ्यो गौणनामभ्यो वीप्सायां तृतीया वा भवति । द्विद्रोणेन धान्यं क्रीणाति । द्विद्रोणं द्विद्रोणं क्रीणाति ।
' इत्थभूतस्य काणस्य लक्षणं झाक्षि बुध्यते ॥ ततस्तृतीया तेनैव तन्न सूत्रेण सिध्यति ॥ १ ॥ अनोच्यते । अध्यादेरिस्थभूतस्य काणादिलक्ष्यस्य भेदाभावालक्षणत्वानुपपत्तिः । यदाह । उद्योतकर.
लक्ष्यलक्षणभावो हि भेदे सत्युपपद्यते ॥ यथा छान्नकमण्डल्वोश्छनोपाध्याययोर्यथा ॥१॥ लक्षणादातपत्रादेस्तत्र लक्ष्य तु भिद्यते ॥ इह त्वेवमसभाव्यमभेदादक्षिकाणयो ॥२॥ यत्तल्काण तदेवाक्षि लक्ष्यते तत्र तेन किम् ॥ तत्काण. पुरुष इत्येतत्कथ तूपचारतः ॥ ३॥-काले भा–॥ स्वार्थिकप्रत्यया नातिवर्तन्ते प्रकृतिलिङ्गवचनानीति कालेऽपि नक्षत्रशब्दो नक्षत्रलिङ्गसंख्य एव ॥-पुप्येण पायसमश्नीयात् । पुप्येण चन्द्रयुक्तेनेत्यादिप्रक्रियायां पुप्यशब्द. काले वर्त्तते । पयसि सस्कृतं भक्ष्य — सस्कृते भक्ष्ये' अण् । पयसा सस्कृतमिति तु कृते तृतीयाधिकारनिवेशितेन 'सस्कृते' इति सूत्रेण इकणेव भवति ॥-अध्वनि माभूदिति । अत्र विशिष्टतारकावछिन्ने क्षेत्रे पुप्यमपाशब्दी वर्त्तते न काले इति ॥-चित्रा माणविका इति । यद्यपि चित्राशब्दो माणविकायां वर्तमान कालमप्युपाधित्वेनोपादत्ते । यतश्चित्रासु जाता या सा चित्रा इति विशेपणत्वेन प्रतीयमानत्वात् कालेऽपि वृत्ति सभाव्यते । तथापि तन्न कालस्य गौणत्वात् गौण मुख्ययोत्र मुख्य कार्यसप्रत्ययान भवति ॥-स्वावच्छिन्ने काले इति । खेनात्मना अवच्छिद्यते यस्तिलच्छेदतिलपुष्पविशिष्ट काल । कोऽयों यत्र काले तिला पुष्यति तिलानां छेदश्च भवतीत्यर्थ । 'तिलपुष्पेषु यरक्षीर तिलच्छेदेषु यद्दधि । तिलवापेपु यचोय तेन वृद्धो न जीवति' ॥ ॥ इति सुनुतमतम् । सारोद्धारमते पूर्वाई तदेव उत्तराई तु 'माघमासे च यदुक्त तेन वृद्धो विनश्यति' । कोऽर्थः । पुनर्नवो भवति ।-प्रसितो-॥ प्रसितशब्दोऽयं गुणवचनोऽप्यस्ति प्रकृष्ट सित. शुक्ल इति । क्रियावचनोऽप्यस्ति यः स्यते सिनोतेर्या भवतीति । तत्रोत्सुकाववद्धशब्दसाहचर्यातदर्थ. सिनोतिरेव कान्तो गृह्यत इत्याह-प्रकणेत्यादि । ननु प्रसितशब्दस्य शुक्रगुणवचनस्य क्रियार्थस्य च सभवादुभयार्थस्यापि ग्रहणप्रसङ्ग इत्याह-अवबद्धोत्सुकसाहचर्यादिति ॥ व्याप्ये द्वि-|-द्विद्रोणेन धान्य क्रीणाति । द्वौ गोणी मानमस्य धान्यस्य 'मानम्' इतीकण् । तस्य ' अनाम्न्य'-इति लुप् । यद्वा द्वौ द्रोणौ मेयावस्य धान्यस्य । कोऽर्थ । अनेन धान्न द्वौ द्रोणी