________________
करणे, दात्रेण लुनाति । मनसा मेरुं गच्छति । समेन धावति । समेन पथा ग्रामं धावतीत्यर्थः । एवं विपमेण धावति । आकाशेन याति। आधाराविवक्षायां तु सप्तम्यपि। समे धावति । विपमे धावति । आकाशे याति । इत्थंभूतलक्षणे, अपि भवान् कमण्डलुना छात्रमद्रासीत् । चूलया परित्राजकमद्रासीत् । छात्रत्वादिकं प्रकारमापन्नस्य मनुष्यस्य कमण्डल्वादि लक्षणम् । इत्थंभूतग्रहणं किम् । वृक्षं प्रति विद्योतनम् । अपि भवान् कमण्डलुपाणिं छात्रमद्राक्षीदित्यत्र तु लक्ष्यप्रधानो निर्देशो न लक्षणप्रधान इति न भवति । ' सहार्थे ' (२।२। ४५ ) इत्येव तृतीया सिध्यति लक्ष्यलक्षणभावे तु पष्ठी मा भूदितीत्थंभूतलक्षणग्रहणम् ॥ तथा धान्येनार्थः, धान्येनार्थी, मासेन पूर्वः, मासेनावरः, असिना कलहः, वाचा निपुणः, गुडेन मिश्रः, आचारेण श्लक्ष्णः, मापेणोनः, मापेण न्यूनः, मासेन विकलः, पुंसानुजः, शड्कुलया खण्डः,
गिरिणा काण इत्यादौ हेतौ कृतभवत्यादिगम्यमानक्रियापेक्षया कर्तरि करणे वा तृतीयेति ॥ ४४ ॥ सहाथै ॥२।२ । ४५ ॥ सहार्थस्तुल्ययोगो विद्यमानता च | १६ तस्मिन् शब्दादर्थाद्वा गम्यमाने गौणान्नाम्नस्तृतीया भवति । पुत्रेण सहागतः । पुत्रेण सह स्थूलः । पुत्रेण सह गोमान् । शिष्येण सह ब्राह्मणः। तिलैः सह मापान् वपति।
WAGAND
येनेति त्वर्थकथनमात्रम् ॥-इत्थंभूतग्रहणं किमिति । ननु इत्यभूतग्रहण किमर्थ यतो लक्षणे इत्युक्तेऽपि अपि भवान् कमण्डलुना छात्रमहाक्षीद्रित्याधुनाहरणानि भविष्यन्ति । अथैत्य मणिप्यन्ति भवन्त वृक्ष प्रति विद्योतनमित्यत्रापि तृतीया स्यात् । तन । यतो ' भागिनि '-इति सूत्रेण प्रतिना गोगे द्वितीया भविष्यति । एव सति प्रतेरऽयोगेऽपि योतकस्यात् वृक्षं विद्योतन स्यात् न तु वृक्षेणेति । सत्यम् । इत्यभूतग्रहणमेव ज्ञापयति यत्र साक्षात् प्रतिना योगो भवति तत्र ' भागिनि च प्रतिपर्यनुभि ' इति सूत्रेण द्वितीया भवति । अत्र तु वृक्षस्य विद्योतनमित्येव भवति ॥अपि भवान् कमण्डलुपाणिमिति । 'विशेषणसर्वादि'-इति सूत्रेण विशेषणद्वारेण पाणे पूर्वनिपाते प्राप्ते 'न सप्तमीन्दादिभ्यश्च ' इति निषेधात् कमण्डलो. प्राग्निपात । ननु वाक्यावस्थायां कमण्डलुशब्दात् किमिति न तृतीया । उच्यते । वाक्ये आरयातपदेन सामानाधिकरण्यामिति प्रधानत्वेन गौणत्याभावात् । तहि समासे सति कथ न । उच्यते । तदा लक्ष्यप्रधानत्वात । ननु समाले सति विभक्त्यन्तवर्जनानामत्वाभावे नानो विहितायास्तृतीयाया कथमन्त्र प्राप्तिः । नैवम् । ' नामन्ये' इति प्रतिषेधसूगकरणात् । तद्धि हे राजनित्यादिषु नलोपाभावार्थम् । तन युक्तम् । प्राप्तिपूर्वको हि प्रतिषेधः । अत्र तु नानो नोऽनह' इत्यनेन हे राजनित्यादिषु विभक्तिद्वारा नामत्वाभावे नलोपप्राप्तिरेव नास्ति । तस्माजामध्य इति प्रतिषेधसूत्रकरणानामकार्य प्रतिपन्नम् । तत समासमध्येऽपि प्राप्ति । तहिं धर्मश्रित इल्गादावपि समासे द्वितीयादिप्रसन्न स्यात् । तन्न । कमांदिशक्ते सबन्धस्य च समासेनैवाभिहितत्वात् । तहि नामार्थमाने प्रथमा भवतु । तदपि न । आरयातपदसामानाधिकरण्ये प्रथमा । तहि नीलोत्पलमित्यादिषु नीलेन सहारयातपदसामानाधिकरण्ये कय प्रथमा । उच्यते । तत्रापि सामानाधिकरण्य नास्ति । अन्यथा सापेक्षत्वे समासोऽपि न त्यादिति । तहिं कमण्डलुपाणिशब्दात् उपसर्जनीभूतलक्षणात् तृतीया प्राप्नोति । न । लक्षणस्य प्राधान्ये तृतीया न लक्ष्यस्य इति न भवतीति शाकटायन' ॥-सहाथ ॥ तुल्यः साधारणोऽप्रधानस्य प्रधानेन क्रियादिना य संबन्ध स-तुल्ययोगः ॥-विद्यमानता चेति । ननु च विद्यमानतायामपि तुल्ययोगोऽस्त्येव सत्तया सहोभयो संबन्धात् । तथाहि- सहैव दशभि पुत्रैर्भार ?
१ आदिशब्दात्स्यौल्यादिगुण गवादिद्रव्य ब्राह्मण्यादिजातिग्रह. ।
orkee