________________
क्रियया त सह संवन्धोऽस्तीति व्याप्यत्वादद्वितीया भवति ॥४०॥ क्रियाविशेषणात्॥२॥२॥४१॥ क्रियाया यद्विशेपणं तद्वाचिनो गौणान्नाम्नो द्वितीया भवति। मृद पचति । स्तोकं पचति । मन्दं गच्छति । सुखं शेते। दुःखं जीवति । सयुक्तिकं भापते। अथो पचति शोभनं ते भायो । अत्र 'सपूर्वात प्रथमान्ताद्वा'(२।२।३२) इति विकपो न भवति । द्वितीयार्थं च वचनं न कर्मसंज्ञार्थम् , तेन कृयोगे कर्मनिमित्ता पष्ठी न भवति । ओदनस्य शोभनं पक्ता । सुखं स्थाता । कष्टं स्थाता । चिरमासिता। तथा. गन्दं गन्ता ग्रामायेत्यादौ चतुर्थी न भवति ॥ ४१ ॥ कालाध्वनोप्तौ ॥ २ ॥ २ ॥ ४२ ॥ स्वेन संवन्धिना द्रव्यगुणक्रियारूपेण कायॆन संवन्धो व्याप्तिः।।। असन्तसंयोग इति यावत् । तस्यां द्योत्यायां कालेऽध्वनि च वर्तमानागौणानाम्नो द्वितीया भवति । मासं गुडधानाः। मासं कल्याणी । मासमधीते । क्रोश पर्वतः । क्रोश काटेला नदी । क्रोशमधीते । कालाध्वनोरिति किम् । स्थाल्यां पचति । व्यासाविति किम् । मासस्य मासे वा यहं गुडधानाः । मासस्य मासे वा एकरात्र कल्याणी।
तीया सिद्धा ॥-क्रियावि-॥ प्रत्यासत्ते. क्रियाविशेषण यत् समानाधिकरण तलादेव द्वितीया । नन्विद सूत्रं प्रथमाधिकारे क्रियतां प्रथमयापि सर्वाण्यपि रूपाणि सेत्स्यन्ति । उच्यते । पुष्पयास्त्वमथो पचति शोभन ते भार्येत्यादौ विकल्प प्रायोति । ननु रूपायुपाधिवझिया नव्यस्यैवोपाधिन चोपाधेरुपाध्यन्तरसभव., निर्गुणा गुणा क्रिया चेति वचनात् तत्कथ क्रियाया विशेषणसभय । सत्यमेतत् । कितु सजातीयस्य द्रव्योपाधेरपेक्षयोत्कर्षो दृश्यते । यथा शुक्ल' शुकतर शुकृतम इति रूपरसादीनां कला इति प्रविभागप्रचयापचयाभ्यामुत्कर्पापकर्पवृत्तित्व भवति, तत्तूपाध्यन्तरयोगात्तदाहुस्तद्विद - भवेद्विगुणमाधुर्यमनन्तगुणकालकम् ॥ द्रव्य चतुर्गुणोद्भूतगन्धमानफलादिकम् ॥ १ ॥ यथा च रूपादीनां तथा क्रियाणामपि परस्परापेक्षया विशेपसभवात् शोभन पचतीत्येवविशेषणयोग स्यात् । कथमन्यथा पापच्यते, पचतितरामित्यादौ तासामेकरूपत्वाद्यडादिप्रत्ययविधि स्यात् । ननु चासत्वभूता क्रिया तदुपाधिस्तु सुतरामसत्वभूतस्तत्कथ सत्वाभिधायिना नामा प्रतिपाद्यते इति । उच्यते । धातुप्रकृतिवाच्याऽसत्वभूतैव क्रिया यथा क्रियाशब्देन नामरूपेण सत्त्वरूपापन्ना प्रतिपाद्यते तथोपाधिरपि सत्वरूपापन- शोभनादिशब्देन इत्यदोपे ॥-मन्दं गन्तेति । मन्दशब्दस्य हि कर्मत्वे ' गतेर्नवानाप्ते' इत्यनेन ततश्चतुथी स्यात् । यदा गन्तेत्यन्न तृच् तदा मतान्तरेण ग्रामशब्दाचतुर्थी । स्वमते तु 'कर्मणि कृत ' इत्यनेन परत्वात्पष्ठयेव भवति । यदा तु तृन् तदा 'नूनुदन्त '-इति पष्ठीनिषेधात् स्वमतेऽपि चतुर्थी ॥-कालाध्वनो-॥-स्वेन संवन्धिनेत्यत्र 'द्विहेतो '-इत्यनेन विकल्पेन पष्ठीविधानात्कर्तरि तृतीया ॥-कात्स्येनेति सहाय तृतीया ॥-संबन्ध इति । अत्र कालाधनो. कर्मतापन्नयोरिति गम्यम् ॥-मासस्य मासे वा यह गुडधाना इति । अत्र हशब्दादनेन द्वितीया मासशब्दातु च्याप्तेरभावान्न । एवमुत्तरेष्वपि ॥
१ कथ पुनरसत्वभूतोऽर्थ सत्वरूपेण प्रकाश्यते इति चेत् स्ववाचकप्रकाशवलादिति ब्रूमः स्वशक्तिरिय वाचकानां यदऽसत्व सत्त्वरूपतया प्रकाशयन्ति । पदार्थस्य वा स्वरूपमिदमीटश मद्विशिष्टेन वाचकेनाभिधीयमानोऽसत्त्वरूप. सत्वरूपतया प्रकाशते । तदुक्त-व्यपदेशे पदार्थानामन्या सत्तौपचारिकी ॥ सर्वावस्थासु सर्वेषामात्मरूपनिदर्शिनी ॥१॥ स्फटिकादि यथा गुन्य भिन्नरूपैरुपाश्रयै ॥ स्वपाक्तियोगारसंबद्धं ताप्येणैव गम्मते ॥ २॥ इति ।
Mondweed