________________
श्री महेश०
॥ ३२ ॥
तत्सर्वं द्रव्यं गुणश्च कर्मेति सर्वेषां पृथकर्मत्वे प्रत्येकं द्वितीया पश्चात्त्वेकवाक्यतया विशेषणविशेष्यभाव इति । यदि वा द्रव्यस्य क्रियासु साक्षादुपयोगादस्तु कटस्यैव कर्मत्वम्, भीष्मादीनां तुज्न केवला प्रकृतिः प्रयोक्तव्येति नियमात् अविभक्तिकानामप्रयोगार्हत्वादेकविभक्तिमन्तरेण च सामानाधिकरण्यविशेषणत्वायोगाद्यथेश्वरसुहृदां स्वयं निर्धनत्वेऽपि तदेक योगक्षेमत्वात्तद्धनेनैव फलभाक्त्वं भवत्येवमकर्मणामपि कटकर्मत्वेनैव द्वितीया भविष्यति । कृतः कटो भीष्म उदारो दर्शनीय इत्यादौ तु करोतेरुत्पद्यमानः क्तो यस्य यस्य तया क्रियया संवन्धस्तस्य तस्य साकल्येन कर्मत्वमभिदधातीति कचिदपि द्वितीया न भवति । कथं तर्हि कृतं पश्य आहृतमाहर कर्त्रा क्रियते दात्रेण लुनाति दानीयाय ददाति भीमाद्विभेति प्रासादे प्रसीदति शयने शते इत्यादिषु क्तादिभिरभिहितेषु कर्मादिषु द्वितीयादयो भवन्ति । उच्यते कर्मादिसामान्यं कृद्भिराभेहितम् तत्राप्यभिहितः सोऽर्थोऽन्तर्भूतो नामार्थः संपन्न इति कर्मादिशक्तियुक्तं द्रव्यमेतदन्तैः शब्दैरभिधीयते यथेदं कर्म इदं करणमिति । तत्र यासौ* स्वरूपकालभिन्नायां क्रियायां’सव्यापारतया कर्मादिरूपता तदभिधानाय यथायर्थं द्वितीयादयो भवन्ति । यत्र पुनरेकद्रव्याधारा प्रधानाप्रधानक्रियाविषयानेका शक्तिर्भवति तत्र प्रधानक्रियाविषयायां शक्तौ प्रत्ययैरभिहितायामप्रधानक्रियाविषया शक्तिः प्रधानशक्त्यनुरोधादभिहितवत्प्रकाशमाना विभक्त्युत्पत्तौ निमित्तं न भवति । ययौदनः पक्त्वा भुज्यते देवदत्तेनेति भावाभिधायिना क्त्वाप्रत्ययेनौदनाधिकरणाप्रधानपचिक्रियाविषया कर्मशक्तिरनाभिहितापि प्रधानभुजिक्रियाविपयात्मनेपदे नाभिहितति तद्वत्काशमाना द्वितीयेोत्पत्तौ निमित्तं न भवति । यथा च ग्रामो गन्तुमिष्यते देवदत्तेनेति ग्रामस्य प्रधानेपिक्रियाविषयां कर्मशक्तिमात्मनेपदेनाभिदधताऽप्रधानगमिक्रियाविपयापि कर्मशक्तिरुपभुक्तेति तदभिधानाय द्वितीयाचतुथ्यौ न भवत इति । इह च गौणत्वं क्रियापेक्षं तेनाजां नयति ग्राममित्यादौ ग्रामाद्यपेक्षयाजादेः प्रधानत्वेऽपि गौणत्वं न विहन्यत इति । इह तु कृतपूर्वी कटं भुक्तपूर्वी ओदनम् व्याकरणं सूत्रयतीत्यादौ यः कृतादिभिः कटादेरभिसंबन्धः स प्रत्ययेऽर्थान्तराभिधायिन्युत्पन्ने कृतादीनामुपसर्जनत्वात् निवर्तते,
भीष्मवादीना कट एवाधार कि त्वन्येऽपि ॥ न केवला प्रकृतिरिति । नापत्र प्रयुञ्जीतेति न्यायात् ॥ - तदेकयोगक्षेमत्वादिति । अलब्धलाभो योग । लधापरिरक्षण क्षेम । तस्य देवदायको योगक्षेमौ तयोर्भाव ॥ - कर्मादिसामान्यमिति । करणादिक्रियामात्र योग्यमित्यर्थ ॥ तत्रापीति । सामान्यकर्माभिधानेऽपि ॥-अन्तर्भूत इति । तत्राभिहितोऽपि कभिन्नान्तर्भवति । यथा राज्ञ पुरुष इत्यत्र वाक्ये पष्ठया सरन्धोऽभिधीयते । न तु कचिदन्तर्भावमुपयातीति द्वयोरुपादानम् ॥-तत्रेति । कर्मादिशक्तियुक्ते नव्ये इत्यर्थ ॥ - स्वरूपकालभिन्नायामिति । कृताहतेत्यादिक्रियापेक्षया स्वरूपेण कालेन च पश्याहरेत्यादिका किया मित्रा ॥ सव्यापारतयेति । कारकस्येनेत्यर्थ ॥ - यथायथमिति । या यस्य स्वा इत्यर्थ ॥ - प्रधानाप्रधानक्रियेति । एकस्मिन् वाक्ये युगपदनेकप्रधानक्रियाणामसभवात्प्रधानाप्रधानक्रियाविपयैवानेका शक्तिरिति तत् क्रियापेक्षया शक्तेरपि गुणप्रधानभावो भवतीत्यत आह-प्रधानशक्त्यनुरोधादित्यादि । अत्रैवोदाहरणान्तर दर्शयति - यथा च ग्रामो गन्तुमिप्यत इति । ननु गौणाज्ञान कर्मणि द्वितीयेत्युक्तम्, अजा नयति ग्राममित्यादौ तु ग्रामाद्यपेक्षया अजादे प्रधानत्वान ततो द्वितीया प्राप्नोतीत्याहइह चेति ॥ क्रियापेक्षमिति । आस्यातपदेनाऽसमानाधिकरण गौणामिति गौणत्वस्य द्वयोरपि कर्मणोभीयात् क्रियापेक्ष गौणत्वमाश्रितम् ॥ न विहन्यत इति । तेन गौणावादजाशब्दादपि द्वि
11