________________
Www
चार्थेषु वर्तमानात्प्रतिपर्यनुभिर्युक्तात् ।
गौणान्नाम्नो द्वितीया भवति । भागिनि, यदन मां प्रति मां परि मामनु स्यात् । योऽत्र मम भाग आभवति स दीयतामित्यर्थः । ॥ लक्षणे, वृक्षं प्रति वृक्षं परि वृक्षमनु विद्योतते विद्युत् ॥ वीप्स्ये, संरक्षं प्रति वृक्षवृक्ष परि वृक्षवृक्षमनु सेचनम् ॥ इत्थंभूते, साधुदेवदत्तो मातरं प्रति मातरं परि मातरमन ॥ एतेष्विति किम् । अनु वनस्याशनिर्गता । समीप इसर्थः ॥ ३७॥ हेतुसहार्थेऽनुना ॥२॥२॥ ३८॥ हेतुर्जनकः सहार्थस्तुल्ययोगो विद्यमानता च, तद्विपयोऽपि सहार्य उपचारात् । तयोर्वर्तमानादनुना युक्ताद्गौणान्नाम्नो द्वितीया भवति । जिनजन्मोत्सवमन्वागन्छन् सुराः। देवेन्द्रोपपाताध्ययनमन्वागच्छदेवेन्द्रः । तेन हेतुनेसर्थापर्वतमन्ववैसिता सेना। नदीमन्ववसिता पुरी। पर्वतनदीभ्यां सह संवद्धेयर्थः । अन्ये तु तृतीयार्थमात्र इच्छन्ति । पर्वतमन्ववसिता सेना। पर्वतेन कळ करणेन वा कृतान्तेत्यर्थः । तृतीयापवादो योगः ॥ ३८ ॥.उत्कृष्टेऽनूपेन ॥२॥२॥ ३९ ॥ उत्कृऐऽर्थे वर्तमानात् अनूपाभ्यां युक्तागौणानाम्नो द्वितीया भवति । अनु सिद्धसेनं कवयः । अनु मल्लवादिनं तार्किकाः । उपोमास्वाति संग्रहीतारः। उप जिनभद्रक्षमाश्रमणं व्याख्यातारः । तस्मादन्ये हीना इत्यर्थः ॥ ३९ ॥ कणि ॥२ ।२।४० ॥ गौणानाम्नः कर्मणि कारके द्वितीया भवति । कटं करोति । ओदनं पचति । आदित्यं पश्यति । अहि लययति । ग्रामं गच्छन् वृक्षमूलान्युपसर्पति। अजां नयति ग्रामम् ।गां दोग्धि पयः। अथेह कस्मान्न भवति । क्रियते कटः कृतः कटः शतेन क्रीतः शत्यः परः आरूढो वानरो यं स आरूढवानरो वृक्ष इति। त्यादिकृत्तद्धितसमासैरभिहितत्वाल्लोकशास्त्रयोश्चाभिहितेऽर्थे शब्दप्रयोगायोगात् । यद्येवं कटं करोति भीष्ममुदारं दर्शनीयमिति भीष्मादिविशेषणविशिष्टस्य कटस्य करोतिक्रियया व्याप्यत्वात् कर्मत्वम् , तच्च कटशब्दादेवोत्पन्नया द्वितीययाभिहितमिति भीष्मादिभ्यो द्वितीया न प्राप्नोति यथा कृतः कटो भीष्म उदारो दर्शनीय इति करोतेः क्तप्रत्ययेनेति । नैवम् । भीष्मत्वादियुक्तस्य कटस्य संवन्धि कर्मत्वं प्रतिपाद्यम् । न च जातिशब्दाः सभविनोऽपि गुणान् प्रतिपादयितुं समर्था इति तत्प्रतिपादनाय यथा भीष्मादिशब्दप्रयोगो भवाति तथा द्वितीयापि तेभ्यो भविष्यति । न हि सामान्यवाचिनः कटशब्दादुत्पद्यमाना द्वितीया भीष्मादीनामनियताधाराणां गुणानां कर्मत्वमभिधातुं शक्नोति । यदि वा कटोऽपि कर्म भीष्मादयोऽपि यथैव ह्ययं कटं करोत्येवं तद्गतान् भीप्मादीनपि । तत्र यद्यत् करोतिना व्याप्तुमिष्टं
नगरस्य भागः प्रियझोर्भाग इति स स्वीक्रियमाणभागसादृश्यादिति ॥ हेतुस-॥ हेतुर्द्विविधो जनको ज्ञापकश्च । तत्र ज्ञापकस्य लक्षणत्वात् 'भागिनि च-' इति सुत्रेण द्वितीया सिद्धति जनक एवेह गृह्यते इत्याह-हेतुर्जनक इति ॥-तुल्ययोग इति । ननु तुल्ययोगाद्यर्थे सहादय एव शब्दा वर्तन्ते न पर्वतादिशब्दा इति कथ ततो द्वितीयेत्याह-तद्विपयोऽपीति । देवेन्द्रमुपपातयति कर्मणोऽणि-देवेन्द्रोपपातम् ॥-अवसितेति । अवसिनोति स्म कर्मकर्तरि वाऽवसीयते स्म 'गत्यर्थ' इति क । तुत्ययोगोऽभिन्न सह विद्यमानता तु भिन्नैरित्यनयों दः । विद्यमानतायामनु कर्माणि ससारीत्युदाहरण ज्ञातव्यम् ॥-उत्कृ-॥ स्वयमेव उत्कृप्यते स्म कर्मकर्तरि क्तः । उत्कृष्टशब्दो हीनापेक्षस्तेन हीनोत्कृष्टसबन्धेऽनुना योत्ये द्वितीयाऽनेन विधीयते । उमा कीर्ति सुष्टु अततीति ‘पादाचात्यजिभ्याम् ' इति इ. णित् । यद्वा उमा कीर्ति स्वातिरिवोज्ज्वला यस्य । यद्वा उमा माता स्वाति पिता तयोर्जातस्यात्पुत्रोऽप्युमास्वातिः ॥-कर्मणि ॥-शब्द प्रयोगायोगादिति । अर्थप्रत्यायनाय हि लोके शब्द प्रयुज्यते । स चार्थों यदा शब्दान्तरेण प्रतिपादित स्यात्तदा प्रयोजनाभावाच्छब्दान्तरप्रयोगो न कर्त्तव्यः ॥-अनियताधाराणामिति । न हि
.