________________
श्रीईमशविनार्थ च । तेनेह न भवति । राजधान्या अन्तरायां पुरि वसति । कि ते केशवार्जुनयोरन्तरेण गतेनेति । हा तात, घिर जाल्म, हा सुभ्र इत्यादावामन्यतया विवक्षा ॥३०॥ न हादियुक्तत्वेनेति न भवति । हा कृतं चैत्रस्य, धिक् कृतं मैत्रस्येत्यत्र च हाधिशब्दाभ्यां कृतशब्दे न्यग्भूतत्वात् न चैत्रादेः साक्षायोगः कि नहि तद्विशिष्टेन कृत
शब्देन । बहुवचनादन्येनापि युक्ताद्भवति । न देवदत्तं प्रति भाति किचित् । बुभुक्षितं न मति भाति किचित् । वृणीष्व भद्रे प्रति भाति यस्त्वाम् । योक्षपादमृषि न्यायः प्रसभाद्वदता वरम् । धातुसंवद्धोऽत्र प्रतिस्तेन भागिनि च प्रतिपर्यनुभिः' (२।२।३७) इति न सिध्यति । गौणादिति किम् । अन्तरा गार्हपत्यमाहवनीयं च वैदिः । अत्र प्रधानाद्वेदिशब्दान्न भवति ॥ ३३ ॥ द्वित्वेऽधोऽध्युपरिभिः॥२॥२॥३४॥ अवस्अधिउपरिभिर्युक्ताद्गौणानाम्न एपामेव द्वित्वे सति द्वितीया भवति । पष्ठयपवादः । बहुवचनमेकद्विवहाविति यथासंख्यनिवृत्त्यर्थम् । अघोऽधो ग्राम ग्रामाः । अध्यधि ग्राम क्षेत्राणि । उपर्युपरि ग्राम ग्रामाः। द्वित्व इति किम् । अधः प्रासादस्य । हर्म्यस्योपरि प्रासादः । असामीप्याच द्वित्वं न भवति ॥ ३४ ॥ सर्वोभयाभिपरिणा तसा ॥ २॥२॥ ३५ ॥ सर्वादिभिस्तसन्तैर्युक्ताद्गौणानानो द्वितीया भवति । पष्ठ्यपवादः । सर्वतो ग्रामं वनानि । उभयतो ग्राम वनानि । अभितो ग्रामं क्षेत्राणि । परितो ग्राम क्षेत्राणि ॥ ३५ ॥ लक्षणवीप्स्थेत्थंभूतेष्वभिना ॥२।२ । ३६ ॥ लक्ष्यते दश्यते येन तल्लक्षणं चिह्नम् । अवयवशः.समुदायस्य क्रियादिना साकल्येन प्राप्तीच्छा वीप्सा तत्कर्म वीप्स्यम् । केन चित् विवक्षितेन विशेषेण भाव इत्यंभावस्तद्विषय इत्थंभूतः । एष्वर्थेषु वर्तमानादभिना युक्ताद्गौणान्नानो द्वितीया भवति । वृक्षमभि विद्योतते विद्युत् । अत्र वृक्षो लक्षणम् विद्योतमाना विद्युल्लक्ष्यम् । अनयोश्च लक्ष्यलक्षणभाव संवन्धोऽभिना द्योत्यते ॥ वृक्षवृक्षमभि सेकः। एकैकस्य वृक्षस्य सेक इसः। साधुर्देवदत्तो मातरमभि । मानविषये साधुत्वप्रकार प्राप्त इयर्थः। लक्षणादिष्विति किम् । यदत्र ममाभि स्यात्तदीयताम् । अत्राभिना भागसंवन्धो द्योत्यते । योऽत्र मम भागः स्यादित्यर्थः । अत्रापि बहुवचनं यथासंख्याभावार्थम् । एवमुत्तरत्र ।। ३६ ॥ भागिनि च प्रतिपर्यनुभिः॥२।२।३७ ॥ स्वीक्रियमाणोऽशो भागः तत्स्वामी भागी तत्र लक्षणादिषु सहकवाक्योपात्तत्वादेतावपि निपातावित्यर्थ ॥-अन्येनापीति । द्विधा व्याण्येयम् । समयादिव्यतिरिक्तन यावच्छन्दादिना नाम्ना नामव्यतिरिक्तेन धात्वादिनापि योगे गौणानाम्नो द्वितीया भवतीति । | अक्ष तृतीयनेन पादे यस्य स तथा ॥-द्वित्वेधी-॥ ' सामीप्येऽधोध्युपरि ' इति द्वित्वम् ॥-असामीप्याच्चेति । अन्न औत्तराधर्यमात्र विवक्षित न सामीप्यमिति द्वित्वाभाव ॥-सब्बाभ-02 सर्वादिविशेषणत्वात् 'विशेषणमन्त ' इति न्यायात्तदन्तप्रतिपत्तिरित्याह-सर्वादिभिस्तसन्तैरिति ॥ लक्षण-॥-समुदायस्येति । वनादेरित्यर्थः ॥-साकल्येनेति । सहाथै तृतीया ॥इत्थंभूत इति । अनेन साधुत्वादिना प्रकारेण (प्रकार. सामान्यस्य भेदको धर्मो विशेष इत्यर्थं ) इत्थं भवन कीबे त । इत्यभूतमत्रास्ति 'अनादिभ्यः' । यवा इत्थं देवदत्तो भवत्यसिन्माबादी 'अद्यर्थाद् ' इति के इत्यंभूतो मात्रादि । 'अव्यय प्र'-इति स ॥-वृक्षवृक्षमभिसेक इति । अत्र वृक्षस्य वृक्षस्य सेक इति सेकेन वृक्षाणां वीप्स्यमानानां सेक प्रति यस्तेषां साध्यसाधनभावलक्षण. सबन्ध सोऽभिना द्योत्यते । चीप्सा तु द्विवचनद्योत्येवेति । अन्ये वन्यथा वर्णयन्ति-चीप्सावीप्स्यमानयो सबन्धो द्विवंचनेनैव द्योत्यते न त्वभिना इति संबन्धमचोतयतापि तेन योगे वचनात् द्वितीयेति ॥-भागिनि च-भवतीति आइपूर्वको भूधातु गागमे वर्तते इति हि धातुपारायणषिद ॥-स्पीक्रियमाण इति । यस्त्वस्वीक्रियमाणेऽप्यशे भागशब्द प्रयुज्यते |
DE