________________
ननु चाव्ययेभ्य एकत्वाधभावादनेन प्रथमा न मानोति । सत्यम् । लुविधानात्तु विभक्तीनां विधिविज्ञायते तदन्तर्गतत्वाच प्रथमाया ओप । तस्य च फलम अथो स्वस्ते गृहम्, अयो स्वस्तव गृहमित्यादि 'सपूर्वोत्पथमान्ताद्वा' (२१ । ३२ । इति विभाषया ते मे आदेशौ । पदसंज्ञा च 'अव्ययस्य'३ । २। ७) इसत्र वक्ष्यते एकद्विवहावित्यादिविभक्तिविधानादिति ॥ ३१ ॥ आमन्त्र्ये ॥ २।२। ३२ ॥ मसिद्धतत्संबन्धस्य किमप्याख्यातुमभिमुखीकरणमामन्त्रणम्, तद्विपय आमन्त्र्यः। तस्मिन्नर्थे वर्तमानान्नान्न एकद्विवहाँ यथासंख्यं प्रथमा विभक्तिर्भवति । हे देवदत्त । हे देवदत्तौ । हे देवदत्ताः । हे पचन् । हे पचमान । आमन्त्र्य इति किम् । राजा भव । अत्र राजा नामव्यः किं तु स एव विधीयत इति पूर्वेणैव प्रथमा । षष्टीमाप्तौ वचनम् ॥ ३२ ॥
गौणात्समयानिकषाहाधिगन्तरान्तरेणातियेनतेनर्वितीया ॥२॥२॥३३ ।। आख्यातपदेनासमानाधिकरणं गौणम् । गोणान्नानः समयादिभिर्निपातैयुक्तादेकद्विवहौ यथासंख्यम् अमौशमरूपा द्वितीया विभक्तिर्भवति । षष्ठ्यपवादः । समया पर्वतं नदी । निकषा पर्वतं वनम् । हा देवदत्तं वर्धते व्याधिः । धिग् जाल्मम् । अन्तरा निषधं नीलं च विदेहाः । अन्तरेण गन्धमादनं माल्यवन्तं चोचराः कुरवः । अन्तरेण धर्म सुखं न भवति । अति वृद्धं कुरुन् महबलम् । कुर्वतिक्रमेण वृद्धमित्यर्थः । येन पश्चिमां गतः । तेन पश्चिमां नीतः। अन्तरान्तरेणशब्दौ साहचर्यान्निपातौ गृह्यते । तथान्तराशब्दो मध्यमाधेयप्रधानमाचष्टे, अन्तरेण शब्दस्तच सविधानमपि प्रथमोत्पत्तेटिंग न भवति । वीरपुरुषमानयेति द्वितीयाद्यन्तानामपि समाससभवादिति प्रवमा न विधेया । नैष दोष । आधिक्यस्य वाक्यार्थत्वाद्वीरनाम्नोऽनपेक्षितशब्दान्तरार्थसंसौपहितविशेषण,भावात् स्वार्थमात्रनिष्ठात् प्रथमा विधीयते । एवं पुरुषशब्दादपि ॥-आमन्व्ये ॥-प्रसिद्धतत्संबन्धस्येति । तेन पाण्डित्यदेवदत्तत्वादिना प्रवृत्तिनिमित्तेन सबन्ध । यद्वा तेर आमच्चयवाचिना देवदत्तादिशब्देन सबन्धो वाच्यवाचकभावलक्षण । प्रसिद्धस्तत्संबन्धो यस्य देवदत्तादेस्तस्य कर्मतापत्नस्य येन शब्देन आत्मा निरवधान सावधान क्रियते तदामश्रणमिति स्पष्टार्थ.॥तद्विषय आमन्य इति । आमध्यपद हि क्रियाया विशेषणं भवति हे देवदत्त जाग्यहमित्यऽत्राभिमुसीकृतदेवदत्तविशिष्टा या प्रतीयते । यदाह हरि - आमन्त्रितपदं यच्च तत् क्रियाया विशेषकम् ॥ ब्रजामि देवदेत्तेति निघातोऽन्न प्रतीयते' ॥१॥ ततश्च देवदत्तादे. क्रियाविशेषणात् कर्माद्यतिरिक्तामन्त्रणसंबन्धे शेषरूपे वर्कमानागौणात् प्रथमापवादः पष्टी प्रामोति तद्धाधनार्थमिदमुच्यते । सबन्धश्चामड्यामन्त्रणभावो विषयविषयिभावो वा ॥-गौणारस-॥-गौणादिति । 'तत आगते ' प्रज्ञायणि वा । अत्र सूत्रे येनतेनौ मुक्काऽन्ये वाचकाः ॥-समया पर्वतं नदी । निकटे निकटा वा । निकपति दूरभाव 'समिनिकपिभ्यामाः' जहाति सौख्य विच् धयति निन्दाभाव 'ड्रागादयः' इति निकपाहाधिक्शब्दाना व्युत्पत्तिः ॥-हा देवदत्तमिति । हा कष्ट देवदत्तस्य यतो वर्द्धते व्याधि ॥-अन्तरा निषधमिति । अन्त राति 'दित्' इत्या' -अन्तरेण गन्धमादनमिति । अन्तरे मध्ये नयति' 'क्वचित् ' इति डे 'तत्पुरुपे कृति' इत्यलुपि ' पूर्वपदस्थ'-इति णत्वे च । यद्वा अन्तरेति इणुर्विशावेणीति णप्रत्ययः ॥-अतिवृद्धमिति । कुरूणामतिक्रमेण पाण्डवानां महदुहवलं वर्तत इत्यर्थः ॥-येन पश्चिमामिति । अत्र येनतेनी लक्ष्यलक्षणभाव द्योतयत पश्चिमा प्रति लक्ष्यीकृत्य गत इत्यर्थ । अयं गत. का प्रति पश्चिमा पश्चिमया लक्षणेन देवदत्तस्याप्रसिद्ध गमनं लक्ष्यते ॥-अन्तरान्तरेणेति । अथान्तराशब्द. खियामावन्तोऽप्यस्ति अव्यय च । अन्तरेगेत्यपि अन्तरशब्दात् तृतीयायां भवति अव्यय च । तत्र विशेषानुपादानात् सामान्येनोभयस्यापि ग्रहणं कुतो न भवतीत्याह-साहचर्यादिति । समयादिभिर्निपात.