________________
१ | १२ ) इत्यादयः ॥ ३० ॥.नाम्नः प्रथमैकद्विबहौ ॥ २ । २ । ३१ ॥ एकत्वद्वित्ववत्वविशिष्टेऽर्थे वर्तमानान्नाम्नः परा यथासख्यं सिऔजसुलक्षणा प्रथमा विभक्तिर्भवति । कर्मादिशक्तिषु द्वितीयादिविभक्तीनां विधास्यमानत्वादिह विशेषानभिधानाच्च परिशिष्टेऽर्थमात्रे प्रथमेति विज्ञायते । तत्र द्वितीयादिविनिर्मुक्तः स्वार्थद्रव्यलिङ्गसङ्ख्याशक्तिलक्षणो ऽसमग्रः समग्रो वा पञ्चको नामार्थोऽर्थमात्रम्। तेषु शब्दस्यार्थे प्रवृत्तिनिमित्तं स्वरूप जातिगुणक्रियाद्द्रव्य, संवन्धादिरूपं त्वतला दिमत्ययाभिधेयं स्वार्थः । स च भावो विशेषणं गुण इति चाख्यायते । डित्थः । डवित्यः । गौः। अश्वः । शुक्लः । कृष्णः । कारकः । पाचकः । दण्डी । विषाणी । राजपुरुषः । औपगवः । .गर्गाः। पञ्चालाः ॥ यत् पुनरिदंतदिसादिना वस्तूपलक्षणेन सर्वनाम्ना व्यपदिश्यते स्वार्थस्य व्यवच्छेद्यं लिङ्गसंख्याशक्त्याद्याश्रयः सत्वभूतं तद्रव्यं विशेष्यमिति चाख्यायते । इयं जातिः । अयं गुणः । इदं कर्मेति ॥ यदर्थे सदसद्वा शब्दत एवावसीयते तत् ज्न्यावादिसंस्कारहेतुः स्त्री पुमान् नपुंसकमिति लिङ्गम् । स्त्री । पुमान् । नपुंसकम् । पट्वी । खट्वा | युवतिः ॥ यस्यामेकवचनद्विवचनबहुवचनानि भवन्ति सा भेदप्रतिपत्तिहेतुरेकत्वादिका संख्या । एकः । द्वौ । वहवः । वृक्षः । वृक्षौ । वृक्षाः । ' निमित्तमेक इत्यत्र विभक्त्या नाभिधीयते ॥ तद्वतस्तु यदेकत्वं विभक्तिस्तत्र वर्तते ' ॥ १ ॥ यस्यां त्यादिभिरनाभिहितायां द्वितीयाद्या व्यतिरेक
॥ - नाम्नः प्रथ - ॥ -- तत्रेति । एवं स्थिते सतीत्यर्थं ॥-तेष्विति । पञ्चकस्य नामार्थस्य क्रमेण लक्षणमाह-जातिरिति । नित्यत्वैकत्वे सत्यनेकत्र समवेता जाति । अत्र जातिलक्षणे नित्यपदाभावे पटेन व्यभिचार । एकत्वाभावे विशेषेषु व्यभिचार । अनेकत्राभावे परमाणौ विशेषेण व्यभिचार ॥ - संबन्धादीति । आदिशब्दान्नित्यद्रव्यवृत्तयोऽन्त्या विशेषा अतीन्द्रियदृष्टिगम्या योगिसंवेदनीया । तेऽपि स्वार्थ ॥ - स्वार्थ इति । स्वस्यैवार्थ स्वार्थी विशेषणमसाधारणोऽथं प्रवृत्तिनिमित्तमिति ॥ गौरिति । जातिरनुवृत्तप्रत्ययहेतु । अत्र तद्विशिष्टस्य द्रव्यस्य प्रतीतेजति स्वार्थः ॥ - शुक इति । गुण शुक्रस्वादि । शुक पट इत्यादी तद्विशिष्टस्य द्रव्यस्य प्रतीतेर्गुण स्वार्थ ॥ गर्गा इति । गर्गस्यापत्यानि 'गर्गादेर्यज् ' ' यजजो - इत्यनेन लोप. ॥ पञ्चाला इति । पञ्चालानां राष्ट्रस्य राजानः पञ्चालस्य राज्ञोऽपत्यानि वा राष्ट्र्क्षत्रियादञ् ॥ - स्वार्थस्य व्यवच्छेद्यमिति । अन्न कर्त्तरि षष्ठी स्वार्थेन व्यवच्छिद्यते ॥ - शक्त्याद्याश्रय इति । आदिशब्दात् स्वरूपादिस्वार्थपरिग्रह ॥ इयं जातिरिति । जातिर्द्रव्यमेक्त्व नित्यत्व व्यापकत्व च स्वार्थ ॥-अयं गुण इति । तेन कम्मदिभ्यो व्यवच्छिद्यते । रूपस्पर्शगन्धादयो द्रव्य गुणत्वं स्वार्थ ॥ इदं कर्मेति । तेन गुणादिभ्यो व्यवच्छिद्यते । कर्मश्व प्रवृत्तिनिमित्तम् ॥ यदर्थं सदसद्वेति । शब्दधर्मो लिङ्गमिति मतापेक्षया ॥ भेदप्रतिपत्तिहेतुरिति । भेदो विशेषज्ञानोत्पत्तिरूप । तया हि पदार्थानां भेद प्रतीयते । भेद परिगणन सस्येतिलक्षणत्वात्तस्याः । ननु नामार्थव्यतिरेकेणान्येपा मेकत्वादीना विशेषणभूतानामभावादेक इत्यादौ प्रथमाया अभाव प्राप्नोतीत्याह निमित्तमिति । निमित्तमे कव्वसरयालक्षणम् ॥ तद्वत्तस्त्वेकत्वसंख्यावतो यदेकत्वं तत्र विभक्तिप्रवृत्ति । यथा वृक्ष इत्यत्र वृक्षत्ववतो द्रव्यस्यैकत्वं प्रतिपाद्यते तथाऽत्रापि एकेन सामान्यमेकत्वं सिना त्वेकत्वसंख्याचत एकत्व प्रतिपाद्यते । यथा सामान्य दण्डमानय दण्डिनो दण्डमानयेति ॥ - त्यादिभिरिति । तिशब्देन तिवादय आख्यातप्रत्यया आदिशब्देन च कृत्तद्धितसमासा उच्यन्ते ॥ व्यतिरेकेति । व्यतिरिच्यत