________________
rever
णिगवस्थायां यः कर्ता स णौ सति कर्मसंज्ञो भवति । गत्यर्थं । गच्छति मैत्रो ग्रामम् । गमयति मैत्रं ग्रामम् । याति मैत्रो ग्रामम् । यापयति मैत्रं ग्रामम् । देशान्तरप्राप्तेरन्यत्र न भवति । त्रियं गमयति मैत्रेण चैत्रः । भजनार्थोऽत्र गमिः । सामान्यवोधार्थः, बुध्यते शिष्यो धर्मम् । वोधयति गुरुः शिष्यं धर्मम् । जानाति शिष्यो धर्मम् । ज्ञापयति गुरुः शिष्यं धर्मम् । एवमुपलम्भयति अवगमयतीत्यादि । विशेषवोधार्थः । पश्यति रूपतर्कः कार्षापणम् । दर्शयति रूपतर्क कार्षापणं वणिक् । एवं घ्रापयति मैत्रमुत्पलम् । स्पर्शयति मैत्रं वस्त्रम् । श्रावयति शिष्यं धर्मम् । स्मारयति शिष्यं धर्मम् । अध्यापयति शिष्यं शास्त्रम् । अन्ये तु बोधविशेषार्थस्य दृशेरेवेच्छन्ति नाभ्येषाम् । तन्मते, जिघ्रत्युत्पलं चैत्रः प्रापयत्युत्पलं चैत्रेण मैत्रः । एवं स्पर्शयति चैत्रेण वस्त्रम् श्रावयति धर्म शिष्येणेत्यादौ प्रयोज्यकर्तरि तृतीयैव भवति । आहारार्थः । भुङ्क्ते बटुरोदनम्। भोजयति वदुमोदनम् । अश्नाति बटुर्भक्तम् । आशयति वदुं भक्तम् | शब्दक्रिय | जल्पति मैत्रो द्रव्यम् जल्पयति मैत्रं द्रव्यम् । एवमालापयति मित्रं मैत्रम् | संभापयति मैत्रं भार्याम् । शब्दव्याप्य । शृणोति शब्दं मैत्रः । श्रावयति शब्दं मैत्रम् | अधीते बटुर्वेदम् । अध्यापयति वदुं वेदम् । एवं जल्पयति मित्रं वाक्यम् । विज्ञापयति गुरुं वाक्यम् । उपलम्भयति शिष्यं विद्याम् । नित्याकर्मकः । आस्ते मैत्रः । आसयति मैत्र चैत्र । शेते मैत्रः । शाययति मैत्रं चैत्रः । नियग्रहणं पूर्वत्राविवक्षितकर्मकपरिग्रहार्थम् । अन्यथा विभागो न ज्ञायेत । कालाध्वभावदेशैथ सर्वेऽपि धातवः सकर्मका एवेत्यन्यकर्मापेक्षया नित्याकर्मका वेदितव्याः । गत्यदीनामिति किम् । पचत्योदनं चैत्रः । पाचयत्योदनं चैत्रेण मैत्रः । अणिक्कर्तेत्येव । गमयति चैत्रो मैत्रम् । तमपरः प्रयुङ्क्ते. गमयति चैत्रेण मैत्रं जिनदत्तः । नयत्यादिवर्जनं किम् । नयतेः प्रापणोपसर्जनमाप्त्यर्थत्वेन गत्यर्थत्वात् खाद्यद्योराहारार्थत्वात् द्वाशब्दाय क्रन्दां च शब्दकर्मकत्वात् कर्मत्वे प्राप्ते प्रतिषेधार्थम् । नयति भारं चैत्रः । नाययति भारं नैत्रेण । खादययपूपं मैत्रेण । आदयति ओदनं मैत्रेण । हाययति चैत्र मैत्रेण । शब्दाययति चैत्रं मैत्रेण । क्रन्दयति मित्रं मैत्रेण । कर्मसंज्ञाप्रतिषेधात् स्वव्यापाराश्रयं कर्तुत्वमेव । प्रेषणाऽध्येषणादिना प्रयोजकव्यापारेण णिगन्तवाच्येनाऽणिक्कर्तुर्व्याप्यत्वात्कर्मसंज्ञा सिद्धैव नियमार्थं तु वचनम् । प्रयोजकव्यापारेण व्याप्यमानस्य गत्यर्थादिसंबन्धिन एव प्रयोज्यस्य कर्तुः कर्मसंज्ञा भवति तेनान्यधातुसंबन्धिनः कर्तृत्वमेव भवति ॥ ५ ॥ भहिंसायाम् | २|२| ६ ॥ क्षेः स्वार्थिकण्यन्तस्य हिसार्थस्याणिक्कर्ता णौ कर्मसंज्ञो भवति । भक्षयन्ति सस्यं बलीवर्दाः । तान् प्रयुङ्क्ते, भक्षयति सस्यं बलीवर्दान् मैत्रः । उक्ते च कर्मणि भक्ष्यन्ते यवं बलीवर्दाः, भ इत्यर्थं ॥ दर्शयति रूपतर्कमिति । रूप तर्कयतीति कर्मणोऽण् ' इत्यणि रूपतर्क ॥ कर्षेण आप्यत इति 'भुजिपत्यादिभ्य इति कर्मण्यनटि ' पूर्वपदस्य - इति णत्वे प्रज्ञादित्वात् स्वा-- अभ्ये स्विति । ते हि गत्यादिसूत्रे दृशिमुपादाय योधार्थत्वेनैव सिद्धे दृशिग्रहणादृशेरेव विशेषपरस्मैपदम् ॥ - आदयत्योदनमिति । अत्र फलवत्वाभावात् 'परिमुह ' इति नात्मनेपदम् ।। भहिंसा ॥ भक्ष्यन्ते यत्र बलीवर्दा इति । यवानदता ययाना विनाश्यत्वेन हिसा । ननु
कार्यापणः । अत्र दृश्यादीना चक्षुरादिसाधनजनितज्ञानविशेपवृत्तीनां विशेषबोधार्थतेत्यर्थ ॥ बोधार्थस्य परिग्रहो नान्येपामित्याचक्षते ॥ खादयत्यपूपमिति । अत्र ' चस्याहारार्थेड्' इति मतान्तरेण वा प्रयोगोऽयम् । ते हि ' परिमुह ' इत्यत्र अधातुमपठन्त आत्मनेपदं नेच्छन्ति ॥