________________
क्ष्यते यवो बलीवन्मित्रेणेति वा वनस्पतीनां प्रसवमरोहध्यादिमत्त्वेन चेतनत्वात्तद्विशेषस्य सस्यस्य पाणवियोगस्तद्भक्षणात स्वाम्युपधातो वाऽत्र हिंसेति भक्षेहिंसार्थता । हिंसायामिति किम् । भक्षयति पिण्डी शिशुः तं प्रयुङ्क्ते भक्षयति पिण्डी शिशुना। भक्षयति राजद्रव्यं नियुक्तेन । भक्षयति पुत्रान् गार्या भक्षयतिरत्राकोशे । आहारार्यत्वात्माप्ते नियमार्थ वचनम् ॥ ६॥ वहेः प्रवेयः।२।२।७। प्रवीयते प्राजतिक्रियया व्याप्यते यः भवेयः । वहेरणिकर्ता प्रवेयो णौ कर्मसंज्ञो भवति । वहन्ति बलीवर्दा भारम् । तान् प्रयुङ्क्ते नियोक्ता, वाहयात भारं बलीवन | बाहयिता वलीपर्दानां भारम् | वाह्यन्ते भारं वलीवर्दाः । प्रवेय इति किम् । वाहयति | भारं मैत्रेण । नात्र मैत्रो वलीवर्दादिवत् प्रवेयः । प्राप्त्यर्थस्य मापणार्थस्य च वहेर्गत्यर्थत्वात् अकर्मकस्य च नित्याकर्मकत्वात् पूर्वेण सिद्ध नियमार्थमविवक्षितकर्मकस्य तु पक्षे विध्यर्थं चेदम् ॥ ७॥ हक्रोर्नवा । २।२।८॥ हरतेः करोतेश्वाणिकर्ता णौ कर्मसंज्ञो वा भवति । प्राप्ते चामाप्ते चायं विकल्पः । प्राप्ते, विहरति देशमाचायः । विहारयति देशमाचार्यमाचार्येण वा । एवमाहारयत्योदनं वालकं वालकेन वा । विकुर्वते सैन्धवाः, विकारयति सैन्धवान् सैन्धवैरिति वा । विकुरुते स्वरं क्रोटा, विकारयति स्वरं क्रोष्टारम् कोष्टुना वा। अत्र गत्यर्थाहारार्थनित्याकर्मकशब्दकर्मकत्वेन यथासंख्य प्राप्तिः। अमाते, हरति द्रव्यं मैत्रः। हारयति द्रव्यं मैत्रेण मैत्रं वा। करोति कटं चैत्रः । कारयति कटं चैत्र चैत्रेण वा। अब हरतिश्चौर्याों न प्रापणार्थ इत्यप्राप्तिः। पापणार्थत्वे तु प्राप्ते विभाषा । कारयिता कटस्य देवदचं देवत्तेन वा।
teredeveerwwwse
हिसा हि प्राणव्यपरोपणलक्षणा सा च प्राणिन्येव सचेतने सभवति कथमचेतने सस्ये । न हि तत्रायुरिन्द्रियबलोलासलक्षणा रसमलधातूनां परिणतिहेतव' प्राणा सन्तीति अत आह -वनस्पतीनामिति ॥-वृद्ध्यादिमत्त्वेनेति । वनस्पतयः सचेतना वृयादिमत्त्वात् । यो यो वृद्ध्यादिमान् स स सचेतनः । यथा पुरुष । वृयादिमन्तश्चैते तस्मात्सचेतना इति पञ्चावयवमनुमानमिति ॥भक्षयति पुत्रानिति । ननु पुत्रभक्षणस्य हिसात्मकत्वात् भक्षयति पुत्रान् गायेति कथ कर्मत्वाभाव इत्याह-भक्षयतिरत्रेति। न ह्यत्र गार्गी स्वयं पुत्रान् भक्षयति । न च तामऽन्यस्तत्र प्रयुर्. तेऽपि त्वेवमाक्रोशति भक्षय पुत्रानिति भक्षिन हिसाविषय ॥-वहेः प्र-॥ सूत्रतात्पर्यमाचष्टे-प्रात्यर्थस्येति । तत्र वहति' प्रात्ययों यथा वहन्ति बलीवी देशान्तर प्रामुवन्तीति । अत्र अने| कार्थत्वात् पायर्थ । यद्वाऽणिगन्तस्यानटि प्रापणमिति रूपे पाहयर्थत्वम् । प्रापणार्थों यथा ग्राम भार वहति बलीवर्द। ग्रामं प्रापयतीति । अत्रापि प्रापणोपसर्जने प्राप्तिरस्त्येव तेन गत्यर्थत्वम् । अकमैको यथा वहति नदी । स्यन्दत इत्यर्थः । अनेकार्थत्वात् स्पन्धर्थ ॥-वाहयिता भारं बलीव नामिति । अत्र बलीवर्दशब्दाद् वैकत्र यो ' इति प्राप्तषष्ठीविकल्पाद्वितीया । तद्विमुक्तपक्षे भारस्येत्यत्र 'कर्मणि कृतः' इत्यनेन पष्ठी द्वितीयप्रयोगे वेतद्विपर्यय ॥ 'वैकत्र द्वयोः' इति पष्ठीप्रवृत्युदाहरण तु वाहयिता भारस्य बलीवदानामिति गम्यमपि ज्ञेयम् । अत्र तु निष्ययोजनत्वान दर्शितम् ॥-हक्रो-॥ हसाहचर्यात् कृधातोरपि भ्वादेरेव ग्रह तेन कृत् विक्षेपे कुंगृ हिसायामित्यनयोर्व्यवच्छेद ॥-प्राप्ते चेति । यदा हरतिर्गतौ वर्त्ततेऽभ्यवहारे वा करोतिश्च वल्गनादावकर्मकः शब्दकर्मकश्च तदा पूर्वेण प्राप्ते ॥ यदा तु हरति स्तेयादौ वर्त्तते करोतिश्च सकर्मको भवति तदाऽप्राप्ते विशेषानुपादानादुभयत्र विकल्पोऽयमिति ॥ कारयिता कटस्य देवदत्तं देवदत्तेन वेति । प्रथमप्रयोगे देवदत्तशब्दात् द्वितीयप्रयोगे तु कटशब्दाद् ‘वैकत्र द्वयोः' इत्यनेन प्राप्तषष्टीविकल्पावितीया । तद्विमुक्तकर्मणि ' कर्मणि कृत' इत्यनेन षष्ठी । यद्यत्र वैकत्र यो ' इत्यनेन पष्ठीप्रवृ. तिः स्यात्र विकल्पः तदा द्वितीये कर्मणि 'मणि कृत.' इत्यनेन नित्य पष्ठी स्यात् । क्र्तृप्रधानदेवदत्तशब्दात्तु 'द्विहेतोररुयणकस्य वा' इत्यनेन प्राप्तकर्तृषष्ठीविकल्पातृतीया। वैकत्र द्वयो' इत्यस्य 'द्विहेतोररुव-12