________________
यद्विष्टं प्राप्यते तदनिष्टम् । अहिं लङ्घयति । विषं भक्षयति । कण्टकान् मृद्भाति । चौरान् पश्यति । यत्र नेच्छा न च द्वेषस्तदनुभयम् । ग्रामं गच्छन् वृक्षमूलान्युपसति । वृक्षच्छायां लङ्घयति । पुनस्तत्कर्म द्विविधम् प्रधानेतरप्रभेदात् । तच्च द्विकर्मकेषु धातुषु दुहिभिक्षिरुधिप्रच्छिचिग्ग्शास्वर्थेषु याचिजयतिप्रभृतिषु च भवति । दुह्यर्थः गां दोग्धि पयः गां स्रावयति पय । गां क्षारयति पयः । भिक्ष्यर्थ, पौरवं गां भिक्षते । पौरवं गां याचते । चैत्रं शतं मृगयते । चैत्रं शतं मार्थयते । एवं गामवरुणद्धि व्रजम् । छात्रं पन्थानं पृच्छति । छात्रं वाक्यं चोदयति । वृक्षमवचिनोति फलानि । शिष्यं धर्म ब्रूते । शिष्यं धर्मम् अनुशास्ति । क्रुद्धं याचते शमावस्थाम् | अविनीतं याच विनयम् । याचिरिहौंनुनयार्थः । तेन भिक्षार्थाद्भेद: । गर्गान् शतं जयति । गर्गान् शतं दण्डयति । ग्रामं शाखां कर्षति । काशान् कटं करोति । अमृतमम्बुनिधिं मथ्नाति अजां ग्रामं-नयति । ग्रामं भारं*हरति । उपसरजमश्वं मुष्णाति । ग्रामं भारं वहति । शतानीकं शतं गृह्णाति । तण्डुलानोदनं पचति । अत्र यदर्थं क्रियारभ्यते तत्पयप्रभृति प्रधानं कर्म । तत्सिद्धये तु यदन्यक्क्रियया व्याप्यते गवादि तदप्रधानम् । यदा तु पयोsर्थी प्रवृत्तिरविवक्षिता तदा प्रधानस्यासंनिधानाद्द्ववादेरेव प्राधान्यम् । यथाश्चर्यो गवां दोह इति । तत्र दुहादीनाममधाने कर्मणि कर्मजः प्रत्ययो भवति, गौर्दह्यते दुग्धा दोह्या वा पयो मैत्रेण । याच्यते पौरवः कम्बलम् । अवरुध्यते गांजः । पृच्छयते धर्ममाचार्यः। भिक्ष्यते गां चैत्रः । अवचीयते वृक्षः फलानि । उच्यते शिष्यो धर्मम् । शिष्यते शिष्यो धर्मम् । जीयते शतं चैत्रः। गर्गाः शतं दण्डयन्ताम्। देवासुरैरमृतमम्बुनिधिर्ममन्थे इत्यादि । नीव हिहरतिप्रभृतीनां तु प्रधाने कर्मणि । नीयते नीना नेतव्या वा ग्राममजा । उद्यते भारो ग्रामम् । हियते कुम्भो ग्रामम् ।
1
इति ॥ विषं भक्षयतीति । यदा ज्ञातं सत् भक्ष्यते तदैवाऽनिष्टम् । यदा तु राजभीतेन व्याध्यतिक्रान्तेन वा भक्ष्यते तदा इष्टमेव ॥ - गां दोग्धि पय इति । अन्तर्भूतण्यर्थत्वेनामीयां द्विकर्मकत्वम् । अन्तर्भूतव्यर्थी• सकर्मका सर्वे । तेनाऽयमथों गौः कर्त्री पय कर्म मुञ्चति । तां गा मोचयतीति ॥ गां स्रावयति पय इति । गतिबोधेत्यत्र बहुवचनादन्येषामपि अणिकर्तु कर्मत्वम् । तेन गवादीनामपि कर्मत्व युक्तम् । नात्र नियम प्रवर्त्तते । एतेऽपि ईशा अपि द्विकर्मका उच्यन्ते इति । यद्वा बहुलमेतन्निदर्शनमिति णिजन्तता सर्वत्र ॥ - पौरवं गां भिक्षते । अस्ति राजा पुरनम । तदपत्य ' पुरुमगध इत्यणि पौरवोऽय च याच्यमानो हृष्टो म्लानो वा भवताति विकार्यम् कर्म । भिक्षते कोऽथा याचनापूर्वकं गां दापयति वियोजयतीति वेत्यर्थः ॥गामध्वरुणद्धीति । ब्रज सेवमाना सेवयतीत्यर्थ ॥ पृच्छति । कथापयति ॥ चोदयतीतिः वादयतीत्यर्थ ॥ - वृक्षमवचिनोतीति । वृक्ष फलानि वियुक्ते त वियोजयतीत्यर्थः ॥ - ब्रूते कथयन्त कथापयति ॥ अनुशास्ति । ज्ञापयति ॥ - याचते । कारयते ॥ अनुनयार्थ इति । तेन भिक्ष्यर्थमन्ये याचिद्वाराऽनुनयार्थाना न ग्रह । भिशिर्याच्यायामेव । याचिस्तुभयार्थ इति ॥ जयति । मोचयति ॥ कर्षति । कर्षयति ॥ करोति । योजयति ॥ मध्नाति । वियोजयति ॥ नयति । प्रापयति ॥ हरति । वियोजयति । प्रापयति वा ॥ मुष्णाति । त्याजयति उपसर पुरपविशेषो देशो वा । तत्र जात' । कोऽर्थः परस्वाभिक सन्तमात्मस्वामिक करोति ॥ वहति । प्रापयति ॥ गृह्णाति । स्याजयति ॥ तण्डुलानोदनं पचति । तण्डुलान् विक्लेदयन् विकुर्वन् ओदन करोतीत्यर्थी धातूनामनेकार्थत्वादिति ॥ दुहादीनामिति । 'दुहादेगणिक कर्म नीवहादे प्रधानम् ॥ णिगन्ते कर्तृकमैवमन्यद्वा वक्ति कर्मज ॥ ' येनापविद्धसलिलस्फुटनागसभा देवासुररमृतमम्बुनिधिमंमन्ये ॥ व्यावर्त्तनैरहिपतेरयमाहिताङ्कः ख व्यारिखन्निव विभाति स मन्दरादि ' ॥ १॥ - नेतव्या वा ग्राममजेति । अजादे प्राधान्यानेतुश्व पूर्व तत्रैव क्रियाप्रवर्त्तना