________________
॥२०॥
VPVPVPC
दिसायो.
भान्ती भान्ती स्त्री। प्सान्ती। साती कुले । सान्ती प्साती स्त्री। अवर्णादिति किम्। अदती । सुन्वती । रुन्धती। तन्वती स्त्री कुले वा। एषु शतः। अधीयती स्त्री कुले वा। अत्रातृश् । जरती स्त्री कुले वा । अत्रातृः । अश्न इति किम् । क्रीणती स्त्री लुनती स्त्री । कुले वा। ईङयोरिति किम् । तुदता कुलेन । अवर्णादिति विशेषगादश्न इति प्रतिषेधाच लोपदीर्घाभ्यां पूर्वमेवानेनान्तः । भूतपूर्वतया वा पश्चात् । ददती स्त्री ददती कुले इयत्र तु कृतेऽप्यन्तादेशे 'अन्तो नो लुक्' (४।२ । ९४) इति नलोपः ॥ ११५ ॥ इयशवः । २।१११६ ॥ श्यात् शवश्च परस्यातुरीङयोः परतोऽन्त इत्यादेशो भवति । दीव्यन्ती । सीव्यन्ती स्त्री कुले वा । भवन्ती । चोरयन्ती स्त्री कुले वा । धारयन्ती स्त्री कुले वा । इयशव इति किम् । जरती स्त्री कुले वा । ईङयोरित्येव । दीव्यता । सीव्यता ॥ ११६ ॥ दिव औः सौ। २।१। ११७॥ दिवोऽन्तस्य सौ परे और्भवति । यौः प्रियद्यौः हे द्यौः । अतिद्यौः। 'निरनुवन्धग्रहणे न सानुवन्धस्य' इति धातोर्न भवति । अक्षदर्दीव्यति, किम् , उद्, *अक्षयूः । साविति किम् । दिवं पश्य । द्यामिति तु द्योशब्दस्य 'आ अम्शसोऽता' इत्याकारे रूपम् ॥ ११७ ॥ उः पदान्तेऽनूत् । २ । १।१२८ । पदान्ते वर्तमानस्य दिवोऽन्तस्योकारादेशो भवति, स, चानूचस्योकारस्य दीपेतं न भवतीत्यर्थः । युभ्याम् । धुभिः । युभ्यः । धुषु । विद्युभ्याम् । परमाभ्याम् । युगतः। युकामः। ग्रुत्यम् । शुकल्पः । विमला दिनम् । पदान्त इति किम् । दिवन्ति । दिव्यम् । दियौ । दिवम् । दिवि । अनूदिति किम् । अद्यौ द्यौर्भवति युभवतीत्यत्र 'दीर्घ श्वियङ्यक्येषु च' (४।३ । १०८ ) इत्यनेन चौ दीर्घत्वं न भवति । ऊकारस्य प्रतिपेवादिप्रत्येव । शुकामस्यापत्यं द्यौ कामि. दिवाश्रयः, दिवौकस इति तु पृषोदरादित्वादकारागमे भविष्यति । वृत्तिविपये वाऽकारान्तो दिवशब्दोऽस्ति ॥ ११८ ॥ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानखोपज्ञशब्दानुशासनवृत्तौ द्वितीयस्याध्यायस्य प्रथमः पादः समाप्तः ॥ २ ॥ १॥
प्रावृड्जातेति हे भूपा मा स्म त्यजत काननम् ॥ हरिः शेतेऽत्र न त्वेपो मृलराजमहीपतिः॥१॥
अकारलोपदीर्घत्वयो कृतयोरवर्णात्परत्व शतृप्रत्ययस्य नास्ति तस्कधमकाराऽवर्णशतृप्रत्ययदीभावापेक्षत्वेन बहिरमोऽन्त इत्यादेश इत्याह ॥-अवणादित्यादि ॥-भूतपूर्वतयेति । वाण्णारप्राकृत बलीय इति तु नेहोपतिष्टते भिन्नकालत्वात् । तथाहि-ईडयो सद्भावेऽन्तादेश प्रामोति । लोपदांघों तु तत प्रागेय । यत्र हि वापर्णप्राकृतयोर्युगपत्प्राप्ति कारक इत्यादी तत्रेदमुपति उत इति ॥-दिव औः सौ-द्योरिति । अन्न उपदान्ते '-इति प्राप्लेऽप्यऽचरितार्थत्वात् साविति विशेषविधानाद्वा औरेवानेन प्रवर्तते । न तु उकार ॥ दिव औकारेण सबन्धात्से परत्वमाजविज्ञानाचसबन्धिन्यसवन्धिन्यप्युदाहरति-प्रियद्यौरित्यादि ॥-अक्षयरिति । एकदेशविकृतमिति प्राप्ति ॥-उपदान्ते--दिवमिति । कलापकेऽस्य दिवशब्दस्याऽमि सति अन्त्यस्याल विकल्पेन भवति ।। तत चामित्यपि भवति । शस्यपि विकल्पेनाकारमिच्छन्ति केचित् ॥ मन्तर्वर्तिनी विभक्तिमाश्रित्य पढत्वेऽनेनोत्वे कथ दिवाश्रय इत्यादीत्यतआह-अकारागमे भविष्यतीति । अकारागमे चाऽकारागमकरणसामदेिव उन । विभक्त पूर्व वाऽकारागमे पदान्तत्वाभावाटेव वा ॥-वृत्तिविषये इति । समासविषये प्रयुज्यते । केबलस्तु न प्रयुज्यत इत्यर्थ ॥ इति द्वितीयस्य प्रथम पाद ॥