SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्री मश० ॥१८॥ मधु | विन्दु | इन्दु | द्रु | वसु | अंशु | श्रु । हनु । सानु । भानु । इत्यूर्म्यादिः ॥ बहुवचनमाकृतिगणार्थम् । तेन यस्य सति निमित्ते मतोर्वत्वं न दृश्यते स यिद द्रष्टव्यः ॥ ९९ ॥ मासनिशासनस्य शसादौ लुग् वा । २ । १ । १०० ॥ एषां शसादौ स्यादौ परे लुगन्तादेशो वा भवति । मासः । मासान् । मासि । मासे । निशः । निशाः । निशि । निशायाम् । निजभ्याम् । निशाभ्याम् । निच्छु । निशासु । आसनि । आसने । शसादाविति किम् । मासौ । मासाः । मासरूप्यः ॥ ॥ १०० ॥ दन्तपादनासिकाहृदयासृग्यूषोदकदोर्यकृच्छकृतो दत्पन्नस्हृदसन्यूषन्नुदन्दोषन्यकञ्शकन् वा । २ । १ । १०१ ॥ दन्तादीनां यथासंख्यं शसादौ स्यादौ परे दत् इत्येवमादय आदेशा वा भवन्ति । दन्त, दतः । दन्वान् पश्य । दता । दन्तेन । दद्भ्याम् ३ । दन्ताभ्याम् ३ । दद्भिः । दन्तैः । दत्सु । दन्तेषु । पाद, पदः । पादान् । पदा । पादेन । नासिका, नसः । नासिकाः । नसा । नासिकया। हृदय, हृदि । हृदये। असृज्, अस्ना । असृजा । यूप, यूष्णा । यूपेण । उदक, उद्गा । उदकेन । दोस्, दोष्णा । दोषा । यकृत् यना । यकृता । शकृत्, शक्ना । शकृता । शक्ति । शकनि । शकृति । शसादावित्येव । दन्तौ । दन्तकल्पः ॥ १०१ ॥ यखरे पादः पणिक्यघुटि । २ । १ । १०२ ॥ पादिति पादशब्दस्य लुप्ताकारस्य पादयतेर्वा कृतणिलोपस्य निर्देशः | पादन्तस्य नाम्नो णिक्यद्युड्वर्जिते यकारादौ स्वरादौ च प्रत्यये परे पदित्ययमादेशो भवति । स च निर्दिश्यमानस्यैव भवतीति पच्छन्दस्यैव भवति न तदन्तस्य सर्वस्य । व्याघ्रस्येव पादावस्य व्याघ्रपात् तस्यापत्यं वैयाघ्रपद्यः । द्वौ पादावस्य द्विपात्, द्विपदः पश्य । द्विपदा । द्विपदे । त्रिपदी गाथा | व्याघ्रपदी स्त्री कुले वा । द्वौ द्वौ पादौ ददाति द्विपदिकां ददाति । द्विपदे हितम् द्विपदीयम्। पादमाचष्टे पद्यमानं प्रयुङ्क्ते वेति पादयतेः किपि पाद । पदः पश्य । पदा । पदे । पदी कुले । अत्र व्यपदेशिवद्भावेन हनूमानिति । 'अनजिरादि ' इति दीर्घ ॥ मासनिशा - ॥ स्यादाविति । स्यादेरन्य शसादिर्न सभवति इति स्यादावुदाहारि । अथ 'सख्यैकार्थात् ' - इति शस्सभवस्तदादिशब्दस्याऽकलादीनामऽसभवेनानर्थक्यम् । यद्वा मण्डूकप्लुतन्यायेन स्यादिरनुवर्त्तनीय इति । आदिशब्दरण व्यवस्थावाचित्वाद्वा स्यादिरेव लभ्यते । मासशब्दस्य भ्यामि अनेनान्तलोपेऽसिद्ध वहिरङ्गमिति अकारस्थानित्वेन सो रुरुत्वाभावे 'घुटस्तृतीय' इति दरखे तु न्यायानित्यत्वात् माध्यामिति मन्यते भाष्यकृत् । दुर्गस्तु मास्भ्यामिति । स्वमते तु द्वयमपि भवति ॥ - निजभ्यामिति । अत्र निशब्दे सत्यपि निशाग्रहण निःभ्यामित्यस्य सिद्ध्यर्थं निराशब्दस्य हि भ्यामि निड्भ्यामित्येव भवति । किन्तत्वाद्धातुस्खे 'यजसृज ' इत्यादिना पत्यप्राप्ते ॥ दन्तपाद - ॥ ननु पूर्वैश्छन्दोविषयत्वमेपामुक्तमिति ' मासनिशा ' इत्यादिसूत्र निरर्थकम् । सत्यम् । भाषायामपि कचित्पदादय प्रयुज्यन्ते इति ज्ञापनार्थत्वात् । अत एव प्रविरलप्रयोगविपयत्वात्सर्वासु विभक्तिषु नोदाह्रियते । अत एव चान्द्रभोजौ मन्येते पादपदशब्दाभ्यामपि पदा पादेनेत्यादि सिद्ध पर पदशब्दवरणवाच्येव पादशब्दस्य वनेकार्थस्यापि पदा पादेनेत्यादिसिद्ध्यर्थं पादशब्दोपादानम् । हृदयच्या सिद्धे हृदयोपादानसृपो विशेषार्थम् । हृद हृदयान् ऋषीन् ॥ हृद्शब्दस्तु पिवचनो नास्ति ॥ य स्वरे ॥ पादन्तस्य नाम्न इति । पूर्वसूत्रेषु नान्न इति अधिचक्राणोऽपि नाऽध्याहारि धातोस्तत्राऽसभवात् । अत्र धातुसभवे नाम्न इति विशेषण चक्रे || अनेकवर्णत्वात् सर्वस्य पादन्तस्य प्राप्नोतीत्याह -- निर्दिश्यमानस्येति ॥ द्विपदिकामिति । सख्या समाहारे च' इति स ॥ सप्रख्यादेरित्यकल् । अलोपश्च । ननु ' अवण्णवर्णस्य ' इति सिद्धे अकल्सनियोगे किमहोपेन । सत्यम् । स्थानित्वाभावार्थम् । अन्यथा 'स्वरस्य ' - इति स्थानित्वे पादशब्दाभावान स्यात् पदादेश ॥ -
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy