SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ चर्मण्वत्यष्ठीवचक्रीवत्कक्षीवद्रुमण्वत् ।२।१।९६॥ एते शब्दा मत्वन्ता नाम्नि विपये निपात्यन्ते । चर्मनशब्दस्य नलोपाभावो णत्वं च निपात्यते । चर्म-19 ज्वती नाम नदी । अस्थिशब्दस्याष्ठीभावः । अष्ठीवान् जडोरुसंधिः । चक्रशब्दस्य चक्रीभावः । चक्रीवान् नाम गर्दभः । चक्रीवानाम राजा । कक्ष्याशब्दस्य कक्षीभावः। कक्षीवानाम ऋषिः । लवणस्य रुमण्भावः । रुमण्वान्नाम पर्वतः । अन्ये त्याहु:-रुमन्निति प्रकृत्यन्तरमस्ति तस्यैतनिपातनम् नकारलोपाभावार्थम् णत्वार्थं च । वत्वं तु यथायोगमस्त्येव । नारनीत्येव । चर्मवती । अस्थिमान् । चक्रवान् । कक्ष्यावान् । लवणवान् ॥ ९६ ॥ उदन्वानब्धौ च । २।१।१७ ॥ आपो धीयन्तेऽस्मिन्नित्यब्धिः। अब्धौ नाम्नि चोदन्वानिति उदकशब्दस्य मताबुदन्भावो निपात्यते । उदन्वान् घटः । उदन्वान्मेषः । यस्मिन्नुदकं धीयते स एवमुच्यते । नाम्नि उदन्वान्समुद्रः । उदन्वान्नाम ऋषिः । यस्यौदन्वतः पुत्रः । उदन्वानाम आश्रमः । अब्धौ चेति किम् । उदकवान् घटः । अत्र घटस्योदकसंबन्धमा विवक्षितं न दधातीत्यर्थः ॥ ९७ ॥ राजन्वान् सुराज्ञि ।२।११९८॥ शोभनो राजा यस्य तस्मिन् अभिधेये राजन्यानिति मतौ नलोपाभानो निपात्यते । राजन्वान् देशः । राजन्वती पृथ्वी । राजन्वत्यः प्रजाः । सुराज्ञीति किम् । राजवान् देशः ॥ ९८ ॥ नोयादिभ्यः।२।११९९ ॥ ऊर्मि इत्येवमादिभ्यो नामभ्यः परस्य मतोर्मकारस्य बकारादेशो न भवति । ऊर्मिमान् । दल्मिमान् । भूमिमान् । तिमिमान् । क्रिमिमान् । एभ्यो मोपान्त्यत्वात्माप्ते, यवमान् कुञ्चामान् द्राक्षामान् धाक्षामान् वासामान् एभ्योऽवर्णान्तत्वात्याप्ते, हरित्मान गरुत्मान् ध्वजित्मान् ककुद्मान् एम्भोऽपश्चमवर्गादिति प्राप्ते, ज्योतिष्मती महिप्मान् गोमती कान्तिमती शिम्बीमती हरिमती वासमती इक्षुमनी वन्धुमती मधुमती विन्दुमती इन्दुमती द्रुमती वसुमती अंशुमती श्रुमती हनूमान् सानुमती एभ्यो 'नागिन' (२।४ । १२) इति प्राप्त प्रतिषेधोऽयम् । ऊर्मि । दल्मि । भूमि । तिमि । कृमि । यव । कुम्चा । द्राक्षा | ध्राङ्क्षा । वासा । हरिद । गरुत् । ध्वजित् । ककुद् । ज्योतिस् । महिप । गो। कान्ति । शिम्बी । चारु । इक्षु । बन्धु । नन्दति अणि पृपोदरादित्वात् । आसेत्तो 'कुमुद '-इति वा आसन्दी वेत्रासन सानास्ति मध्यादि । वेदे यथा आसन्दीमारुरा उलातेति । लोके यथा औदुम्बरी राजासन्दी भवति । उदुम्बरस्य विकार औदुम्बरी । राज्ञ आसन्दी राजासन्दी । सोमासनमित्यर्थ ॥-चर्मण्वत्यष्टीव-॥-कश्याशब्दस्येति । कक्षे भवा कक्षाय हिता वा कक्षे साधुर्वा 'दिगादिदेहाशाद्य 83 | इत्यादिभिये कक्ष्या ब्रह्मण. सादृश्यमुयोगधेत्यर्थ ॥-लवणस्येति । लुनाति वैरस्य नन्यायन' ॥ अत एव गणपाठाण्णत्वम् ॥-उदन्वान्-॥ उदनुभावसामर्थ्यावलोपो नाऽन्यथा उदभावो निपात्येत ॥-राजन्यान्-॥-सुराशीति । शोभननृपतौ वाच्चे । यदा तु राजनशब्देन चन्द्रोऽभिधीयते तदा राजवान देश इत्येव । निपातनस्येष्टविषयत्वात् ॥-नोयादिभ्यः ॥-दल्मिमानिति । दल्मिरिन्द्र प्रहरणविशेपो वा सोऽस्यास्ति ॥-तिमिमान् ॥-क्रिमिमानिति । 'क्रमितमि'-इति द्वयोरपि निपातनम् । क्रिमि क्षुदजन्तु । तिमिमहामत्स्य । गरुत् पिच्छं तदऽस्यास्ति ॥-ध्वजित्मानिति । अवान जयति किप् पृपोदरादि-॥-ककुद्मानिति । ककतेर्बाहुलकादुप्रत्यये गणे हिदकारपाठात् मती नानुनासिक ॥-महिष्मानिति । नडकुमुद '-इति मती । 'असिद्ध बहिरङ्गम् '-इति अकारलोपस्यासिद्धत्वान्न धुटस्तृतीयः ॥ न च वाच्य 'स्वरस्य परे'-इति स्थानित्व तस्यासद्विधौ ‘न सन्धि'-इति निषेधात् । कान्तिमतीप्रभृति बन्धुमती यावत्सर्वेषु 'नयां मतु ॥-शिम्बीमती । “डीनीयन्धिवधि '-इति डित् इम्यः । गौरादिदी. ॥-मधुमती । मध्वादेर्मनु । शृणोतीति विप् आगमशासनमनित्यमिति तागमाभावे श्रुशब्दः।
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy