________________
GOOK
त्यादौ संयोगान्तलोपस्य परकार्येऽसत्त्वादुत्तरसूत्रेण लोपो न भवति । स्यादिविधौ चासत्त्वादत्वादिलक्षणो दीयों भवति । पदस्येति किम् । स्कन्वा । स्यन्त्वा । भवाञ्चशेते इत्यादौ तु श्चादेविधानसामान्न भवति ॥ ८९॥ रात्सः।२।१।९०॥ पदान्ते वर्तमानस्य संयोगस्य संवन्धिनो रेफात्परस्य सकारस्यैव लुग् भवति । चिकी। चिकीयम् । चिकीर्षु । अत्र चिकीर्षतीति किपि 'अतः। (४।३।८२) इत्यकारलोपे षत्वस्य परेऽसत्त्वात्सकारस्यैव लोपः । एवं जिही। जिहीाम् । जिहीर्षु । कटचिकीः। पटजिहीः। पूर्वणैव सिद्धे नियमार्थं वचनम् । तेन रात्परस्य संयोगान्तस्य सस्यैव लोपो नान्यस्य । ऊर्छ । ऊग्भ्याम् । न्यमा । गृधेः स्पर्धेश्च यङ्लुपि द्वित्वे, 'रिरौ च लुपि' (४।१।५६) इति पूर्वस्य रागमे 'आगुणावन्यादेः' (४।१। ४८) इति दीर्घले चाडागमे च सिद्धम् अजर्घाः । अपास्पाः । रादेव सस्येति तु विपरीतनियमो न भवति । 'पुंवत्कर्मधारय '-इत्यत्र पुंवदिति निर्देशात् ॥ ९० ॥ नाम्नो नोऽनह्नः ।२।१।९१ ॥ पदान्ते वर्तमानस्य नाम्नो नकारस्य लुम् भवति अनः-स चेदहनशब्दसंवन्धी न भवति स चासन् स्यादिविधौ । पर इति निवृत्तम् । राजा । वृत्रहा । दण्डी । वाग्मी । राजपुरुषः । राजकाम्यति । राजकल्पः । स्यादिविधावसत्त्वात् राजभ्याम् राजभिः राजसु इत्यादौ दीर्घत्वैस्त्वैत्वान्यकारान्तत्वाभावान्न भवन्ति । अनह्न इति किम् । अहरेति । अहरधीते । अहोरूपम् । दीर्घाहा निदाघः । अत्र परविधौ रेफरुत्वयोरसत्त्वान्नलोपः स्यात् । सावकाशं च तदुभयं संबोधने । हे अहः। हे दीर्घाहः । पदस्येत्येव । राजानौ । स्यादिविधावित्येव । राजायते । चर्मायते । अत्र क्यविधौ सत्त्वात् 'दीघश्चियङ्यक्येषु च' (४।३।१०८) इति क्येऽन्त्याकारदीर्घः सिद्धः। नान्न इति किम् । अहन्नहितम् । कुर्वीरन् । सर्वस्मिन् । वृक्षान् वृत्रहभ्याम् , वृत्रहभिरित्यत्र तु असिद्धं बहिरङ्गमन्तरङ्गे इति नलोपस्यासिद्धत्वात् ' इस्वस्य तः पिन । 'भूर्लक् च'-इत्यत्र जकारप्रश्लेषात् ॥ न च भूविधानादेव न भविष्यतीति वाच्यम् । विधान भूमेत्यन्न पदसंज्ञके चरितार्थम् ॥-सामर्थ्यान्न भवतीति ॥ अन्यथा प्रक्रियालाघवार्थ अकारमेव विदध्यादित्यर्थ ॥-रात्सा-॥-रात्परस्य सस्यैवेति । यद्येवं अबिभ. अजाग इत्यादौ विभत्तेजगित्तेश्च ह्यस्तन्या दिवि 'हव'-इति द्वित्वे अत्वे 'पृथ'-इतीत्वे 'द्वितीय'-इति बत्वे | गुणे च नियमाछोपो न प्राप्नोतीति । नैवम् । प्रकरणात्पूर्वसूत्रविहितस्यैवायं नियमो न 'व्यञ्जनादे' '-इत्युत्तरसूत्रविहितस्य । यहा, सूत्रे द्वितकारनिर्देशो ज्ञातव्य । द्वितकारनिर्देशेऽपि न कोऽप्यु-8 चारणकृतो भेदोऽस्ति ततश्च रात्परस्य तकारसकारस्यैव लुक् नान्यस्येति सूत्रार्थ. समजनि । यद्येव तर्हि कीर्तयते विपि कीरिति प्राप्नोति । अत्र भाष्य लोके प्रयुक्तानामिदमन्वाख्यानं लोके च कीत् इत्येव दृश्यते न कीरिति ॥-अजर्घा इति । नन्वत्र 'सेः सुद्धाम् '-इति सेलुकि रुत्वे च कर्त्तव्ये 'गडदबा '-इति घत्वस्यासत्त्वात्कृते रुत्वे चतुर्थान्तत्वाभावात्कथं धकार । सत्यम् । 'असिद्ध वहिरङ्गम्' इति भविष्यति । अन्वित्यधिकाराच्च ‘रो रे जुम्' इति न पूर्व लुगिति प्राप्ति. ॥-नाम्नो-॥ नन्वन्न विशेषविधानात् 'रो लुप्यरि' इति 'अह' इति च रेफरुत्वे एव भविष्यतः किमहन्प्रतिषेधेनेत्याह-असत्त्वादिति । नचैव तयोरनवकाशतेत्याह-सावकाशमिति ॥-तदुभयमिति । रेफरत्वलक्षणम् ॥-संबोधने इति । 'नामध्ये ' इति नलोपप्रतिषेधात् ॥-अहन्नहितमिति । लक्षणप्रतिपदोक्योरिति प्रतिपदोक्तस्यैवाहनशब्दस्य निषेध इत्यत्र प्राप्तिः । परं नान्न इति व्यावृपया निषिध्यते ॥-वृत्रहभ्यामिति । धातुमात्राश्रितत्वेन तोऽ