________________
थीहेमश ॥१३॥
Grammar
अत एव निर्देशाटतो रत्वं च । सं गतावित्यस्य वाऽकज् सम् । सन । धृष्णोतीति दधृष्। अत एव निर्देशाद्वित्वम् । दधृग्, दधृक् । ऊर्ध्व स्निह्यति नाति था। अत एव निर्देशात उदो दकारस्य लोपे सस्य पत्वं, नहेर्नकारस्य च ष्णिरादेशः । उष्णिम् , उष्णिक् । ऋत्वित्भ्याम् । दिग्भ्याम् । दृग्भ्याम् । घृतस्पृग्भ्याम् । स्रग्भ्याम् । दग्भ्याम् । उष्णिग्भ्याम् । पदान्त इत्येव । ऋत्विजौ । दिशौ । दृशौ । घृतस्पृशी । खजौ । दधृषौ । उष्णिहौ ॥ ६९ ॥ नशो वा ।२।१ । ७० ॥ नशे पदान्ते गोऽन्तादेशो वा भवति । जीवस्य नशनम् , जीवनम् । जीवनक् । पले, जीवन । जीवनट् । जीवनग्भ्याम् । जीवनड्भ्याम् । पदान्त इत्येव । जीवनशौ
॥ ७१ ॥ युजश्चक्रुञ्चो नो ङः ॥२॥११७१॥ युअञ्चकुञ्चां नकारस्य पदान्ते वर्तमानस्य उकार आदेशो भवति । युनतः किपि घुटि नागमे संयोगान्तलोपे, । यु । अञ्चतेरनर्चायां नलोषे घुटि नागमे, अर्चायां तु नलाषाभावे, प्राङ् । प्राभ्याम् । पाषु । प्राक्षु । क्रुश्चेरत एव निर्देशात् 'नो व्यञ्जनस्यानुदितः। (४।
२। ४५ ) इति नलोपाभावे, क्रुङ् । क्रुभ्याम् । क्रुषु । ऋक्षु । पदान्त इत्येव । युञ्जौ । युजः । प्राञ्चौ । पाश्चः। क्रुश्चौ । क्रुश्चः ॥७१ ॥ सो रु।२।१।। १ ७२॥ पदान्ते वर्तमानस्य सकारस्य रुरादेशो भवति । मित्रशीः । आशीः । अग्निरत्र । वायुरत्र । आग्नर्गच्छति । पयः । पयोभ्याम् । पयोवत् । उकारः 'अरोः सुपि रः(१।३।५७) इत्यत्र विशेषणार्थः ॥ ७२ ॥ सजुषः।२।११७३ ॥ सजुष् इत्येतस्य पदान्ते वतमानस्य रुरन्तादेशो भवति । सर्देवैः । सक्रषिभिः । सहपूर्वस्य जुपेः किपि सहस्य सभावे रूपमेतत् । सताम् । सर्वत् । पदान्त इत्येव । सजुषौ ॥ ॥ ७३ ॥ अ-हः । २।१।७४ ॥ अहनशब्दस्य पदान्ते रुरिखयमादेशो भवति, स चासन् परे स्यादिविधौ च । दीर्घाण्यहान्यस्मिन् हे दीर्घाहो निदाघ । दीर्घाहा निदाघः । अत्र रुत्वस्यासवानान्तलक्षणो दीर्घा भवति ॥ कश्चित्तु दीर्घत्वं नेच्छति, तन्मते दीर्घाहो निदाघः । अहोभ्याम् । अहस्सु । अहन् शत्रुमित्यत्राहनशब्दस्य त्याद्यन्तस्य लाक्षणिकत्वान्न भवति ॥ ७४ ॥ रो लुप्यरि।२।१। ७५ ॥ अहनशब्दस्य लपि सत्यामरेफे परे पदान्ते रोऽन्तादेशो भवति । रोरपवादः । अहरधीते । अहरेति । अहर्ददाति । अहर्भुङ्क्ते । दीर्घाहाश्चासौ मासश्च दीर्घाहर्मासः । अहकाम्यति । अहर्वान् । लुपीति किम् । हे दीर्घाहोऽत्र । अरीति किम् । अरोरूपम् । अहोरात्रः । गतमहो रात्रिरागता । कृत्स्नमहो विहिते निपातन सर्वन भवति । गत्व तु पदान्त एव भवतीति ॥ स्रगिति । सरति मस्तकादिकमिति ऋधिपधि '-इत्यनेन बहुवचनात् किदज् ॥-नशो वा ॥ जीवतीति अन् । जीवस्य कोऽर्थ । जीवस्य जीवतो वा नशन ' भ्यादिभ्यो वा ' इति किम् ॥-युज च्-॥ ननु न इति किमर्थ 'पष्टचान्त्यस्य ' इति सर्वेषामन्तस्यैव नस्य भविष्यति । सत्यम् । युजिन्समाधावित्यस्यापि पदान्ते युङ इत्यनिष्टम् , अपदान्ते कुच गतावित्यस्य कुचौ कुच इत्यपि अनिष्टे स्याताम् । अधुना तु नकारे कृते सूत्रसामर्थ्यान तस्य लुम् इत्यपि फलम् ॥-सजुषः ॥ डत्वापवाद ॥सजूरिति । प्रथमे सर्वज्ञवचन द्वितीये मुनिवचन ।।-संभावे इति । अस्मादेव निर्देशात् ॥-अन्तः ॥-कश्चित्त्विति । दुर्गसिह ॥ लाक्षणिकत्वादिति । अयमभिप्राय । उणादयोऽन्युत्पन्नानि नामानीत्यस्मिन् पक्षे नाझ प्रतिपदोक्तस्य सभवात् लाक्षणिकस्य न ग्रहणमिति । व्युत्पचिपक्षस्तु इह नाश्रितः ॥-रो लुप्यरि ।-अहरधीते इति । कालाध्वनोद्धितीया ॥-अहकाम्यतीति । 'रो कास्ये ' इति नियमात् 'प्रत्यये' इत्यनेन न सकार ॥ हे दीर्घाहोऽनेति । अत्र वाक्ये पिभक्त वास्ति तत्कथ रो न भवति । सत्यम् । लुपीति प्रत्यासत्या व्याख्येयम् यदपेक्षया लुए