________________
.
.
.
स चासन् परे । प्रशान् । मतान् । प्रदान् । परिक्लान् । प्रशान्भ्याम् । मतान्भ्याम् । प्रदान्भ्याम् ! नत्वस्यासत्त्वान्नलोपाभावः। म्बोः खल्वपि । जंगन्मि । जंगन्ध । जंगन्मः । जगन्वान् । ननन्मि । ननन्मः । म्बोश्चति किम् । प्रशामौ । प्रतामौ । म इति किम् । छित् । भित् । भ्वादेरित्येव । इदम् । किम् ॥ ६७ ॥ सन्मध्वन्स्क्वस्सनडुहो दः ।२।१।६८॥ सन्मध्वन्सोः कस्मत्ययान्तस्य सकारान्तस्यानडुशब्दस्य च योऽन्त्यस्तस्य पदान्ते वर्तमानस्य दकारो भवति । उखासत् । उखाखद् । पर्णध्वत् । पर्णध्वद् । विद्, विद्वत् कुलम् । उपसेदिवद्, उपसेदिवत्कुलम् । स्वनडु, वनडुत्कुलम् । उखासद्भ्याम् । पर्णवद्भिः । विद्वत्सु । विद्वत्ता । उपसेदिवत्तमः । अनडुद्भ्याम् । कस्सिति द्विसकारपाठः किम् । सान्तस्यैव यथा स्यात् । इह मा भूत् । विद्वान् । हे विद्वन् । उपसेदिवान् । उपसेदिवन् । सकारस्य 'पदस्य' (२११। ८९ ) इति लोपेन निवर्तितत्वात ॥ एवं तर्हि अनडान हे अनडन् इत्यत्र नकारस्यापि प्रामोति । तत्र विशेपणाभावात् । नैवम् । नकारविधानसामर्थ्यान्न भविष्यति । एतच दत्वं 'येन नाप्राप्ते' इति न्यायात रुत्वढत्वयोरेव वाधकम् । संयोगान्तलोपे पुन +माप्ते चाऽमाप्ते चारभ्यते इति तस्य बाधकं न भवति ॥ पदान्त इत्येव । उखास्रसौ । पर्णध्वसौ । विद्वांसौ । अनड्डाही ॥ ६८ ॥ ऋत्विदिश्श्स्पृ शस्रज्दधृषुष्णिहो गः। २।१।६९॥ एषां पदान्ते वर्तमानानां गोऽन्तादेशो भवति । ऋतुम् ऋतौ ऋतवे ऋतुप्रयोजनो वा यजते ऋत्विक, ऋत्विम् । दिश्यते इति दिक्, दिग् । पश्यति दर्शनं वा दृक्, दग्, । अन्य इव दृश्यते अन्यादृग्, अन्यादक् । एवं यादग्, यादृक् । ताहम् , तादृक् । घृतं स्पृशति घृतस्पृग् , घृतस्पृक् । मन्त्रेण स्पृशति मन्त्रस्पृग, मन्त्रस्पृक । सृज्यत इति क्रुसंपदादित्वात् किम् ।
8 नो ॥-पदान्त इत्यनुवर्तमानेन समुच्चयार्थश्चकारो न तु पदान्त इत्यऽस्याऽनुकर्षणार्थ । विधानसामर्थ्यालोपाभावो नाशङ्कनीयो म्वोविधानस्य चरितार्थत्वात् इत्याह -नत्वस्यासत्वादिति ॥
खल्वपीति । अप्यऽर्थेऽखण्डमव्ययम् ॥-सस्वंस्कस्स--॥-उखास्रदिति । उखया युतेन स्थाल्या वा नसते । ननु दकारकरण किमर्थ तकार एवं क्रियताम् । यतस्तकारेऽपि कृते 'धुटस्तृती181 य.' इत्यनेन दकारी भविष्यति । नैवम् ॥ तकारे विधीयमाने परेऽसदितिवचनात् 'धुटस्तृतीय ' इति दत्वाभावाइकारस्य श्रवण न स्यात् ॥- स्वनडुदिति । भन्न बहुत्वे वापय कार्यमेकत्वे तु|
'पुमनडुन्नी '-इति कच् स्यात् ॥-कस्सितीति । कसो ककारो वस निवासे वसिक आछादनेऽनयोगुंदासार्थ । तेन बसे विपि यजादित्वात् वृति दीर्घवे ऊ । क्षौम बस्ते किंपि क्षोमव । 161 अथ वसतिवस्त्यो सकारान्तत्वाव्यभिचारात् व्यभिचारे च विशेषणस्यार्थवत्वाव्यभिचारिण कस एव ग्रहण भविष्यति । कुत वस्सिति सकारोपादानात् । नैवम् । अन्यथापि प्रतीति स्यात् । यइलु
बन्तयोरेतयोरेव ह्यस्तनीसिवन्तयोविशेषविहितत्वेन 'से स्वा च '-इति सिव्लोपाभावे वस्सिति द्वि सकाररूप ग्रहण स्यात् इतीह माभूदिति ककारकरणम् ॥-रुत्वढत्वयोरेव वाधकमिति । अनडुङ्शब्दे 'हो धुट्पदान्ते' इत्यनेन ढत्वस्य शेपेषु रुत्वस्य प्राप्ति ॥ प्राप्ते चाप्राप्ते चेति । क्लीये विद्वद्कुलमित्यादिष्वप्राप्ते पुस्त्वे तु विद्वानित्यादी प्राप्ते इति तस्य न बाधकम्॥ऋत्विज्-1-ऋत्विगिति । ऋतु प्रयोजन प्रवर्तको यस्येति वाक्ये 'मयूर' इति प्रयोजनशब्दलोप । अत एव निपातनाद्वा । ऋतुप्रयोजन इति अर्थकथन वा ॥ तत्र पक्षे ऋतुना हेतुभूतन यजत इत्यर्थ । ननु अविदिग्दगिति गान्ता निपाता. क्रियन्ता कि गविधानेन । सत्यम् । गनिपातने गत्वसनियोगशिष्ठतेच ज्ञायेत ततो व्यावृत्ती दष्टपी उणिहापिति न स्याताम् । गत्वे तु