________________
०९) पठीः । पिपठीयः । पदान्त इति किम् । गिरौ । गिरः। लुवौ । लुवः । नामिन इत्येव । अजागः ।ौरित्येव । मधुलिट् । भ्वादेरित्येव । अग्निः । वायुः । चतुर्भिः |
॥ ६४॥ न यि तद्विते ।२।१।६५॥ यकारादौ तद्धिते परे यो वौं तयोः परयो मिनो दीर्घो न भवति । धुरं वहति, धुर्यः । गिरि धातु म्युपान्त्यस्तद्धिते न संभवति । यीति किम् । गीर्वत् । धुर्वत् । तद्धित इति किम् । गिरमिच्छति गीयति । धृति । गीरिवाचरति गीयते । धर्यते । क्ये, कीर्यते । गीयते । दीव्यति । सीव्यति । कीर्यात् । गीर्यात् । दीव्यात् । सीव्यात् । केचितु क्यन्क्योरपि प्रतिषेधमिच्छन्ति । तन्मते, गियति गिर्यते धुति धुर्यते इत्येव भवति ॥ इह कस्मान्न भवति पुर्याम, गिर्योः, कियोः । बहिरङ्गलक्षणस्य यत्वस्यासिद्धत्वेन व्यञ्जनस्याभावात् ॥ ६५॥ कुरुच्छुरः। २।१।६६ ॥ कुरुच्छुरो' संवन्धिनो नामिनो रेफे परे दीर्थो न भवति । कुर्यात् । कुर्वः । कुर्मः। छुर्यात् । छुर्यते । कुर्वित्युकारः किम् । कुरत् शब्दे । कुर्यात् । कूयते ॥ केचिदस्यापि प्रतिषेधमिच्छन्ति ॥ अथ द्विर्वचने पूर्वस्य कस्माद् दीर्घो न भवति । रीः रिर्वा । रिर्यतुः । युः । वीः। विव्यतुः। विव्यु । बहिरङ्गालक्षणस्य यत्वस्यासिद्धत्वेन व्यञ्जनस्याभावात् । सविव्याय विव्याधेत्यादौ तु नामिनोऽसिद्धत्वात् ॥ ६६ ॥ भो नो म्वोश्च ।२।१।६७ ॥ मकारान्तस्य वादेरन्तस्य पदान्ते वर्तमानस्य मकारवकारयोश्च परयोनकारादेशो भवति ।
विसर्ग बाधित्वा नित्यादन्तरमिति न्यायात् प्रथममनेन दीर्घ । ततो विसर्ग ॥-न यि त॥-नाम्युपान्त्य इति । अयमर्थ । यदा दिव् इत्यादे. क्रिप् तदा ऊटा भाव्यम् इति न वकारान्तत्वम् । यदा तु विच् तदा गुणे कृते एकारस्य दीर्घरूपस्य दीर्धकरण व्यर्थम् । ननु दिव्यमित्यत्र सभवति वान्तो नाम्युपान्त्यश्च धातु । सत्यम् । अत्रापि डिवप्रत्ययान्तस्य औणादिकत्वाडिवो न धातुत्वमिति न वान्तो नान्युपान्त्यश्च धातु सभवति ॥-पुर्यामिति । पुरशब्दान्जातित्वात् इया पृश् पालनपूरणयोरित्यस्मात् कृगृभूपृषड्भ्य कित्' इति किति इप्रत्यये वा । एव गिर्यो कियोरिति ॥वहिरङ्गलक्षणस्येति । प्रत्ययाश्चितत्वेन यत्व बहिरङ्ग दीर्घत्व तु प्रकृतिमात्राश्रितत्वेनान्तरङ्गम् ॥-कुरु-1-कुर्वित्युकारः किमिति । अन्यथा प्रतिपदोक्तत्वात् कुरत् शब्दे इत्यस्यैव ग्रहण स्यात् । तर्हि कार इति निर्विवाद क्रियताम् । न च वाच्य कछुर इति कृते कृप्ट हिसायामित्यस्यापि ग्रहण स्यात् कृणोतीत्यादौ रेफाभावात्करिप्यतीत्यादौ तु नाम्यभावेन दीर्घत्वप्राप्तेरभावाचेति । उच्यते । एवविधे सूत्रे कृते चिकीर्षतीत्यादी दीर्घनिषेध स्यात् ॥-संविव्याय । विव्याधेति ॥ ब्यग् व्यधच् आभ्या णवि 'व्यस्थवगवि ' इत्यात्वप्रतिषेधे द्वित्वे अनादिव्यञ्जनलोपे ' ह्रस्व ' इत्यनेन ह्रस्वत्वे तस्य च कार्यान्तरवाधनार्थ 'ज्याव्यव्याधि '-इति इकारस्थापीत्वे प्रथमे प्रयोगे 'नामिनोऽकलिहले '-इति एत ऐल्वे आयि च सिद्धम् ॥-नामिनोऽसिद्धत्वादिति। द्वित्वे कृते प्रत्ययान्नितत्वेन बहिरङ्गस्य प्रकृल्याश्रितत्वेनान्तरङ्गे दीर्घत्वे कर्त्तव्ये 'इस्व ' इत्यनेन कृतस्य इकारस्य इत्यर्थ । न तु वृद्धाधनार्थ ‘ज्याव्येव्यधि '-इति कृतस्य इकारस्यापि मध्ये इकारस्यासिदत्य यतस्तस्थासिद्धत्वे ' इस्व ' इत्यनेन कृत इकार सिद्ध स्यात् तस्य च नामित्वात् ततो नामिनोऽसिद्धत्वादिति यदुक्त तयाहत स्यात् । ननु नामिनोऽसिद्धत्वादिति किमित्युक्त यावता यद्यप्पनानेन दीयों भविष्यति तथापि 'हस्व ' इत्यनेन इस्वे कृते सविण्यायेत्यादि सेत्स्यति । सत्यम् ॥ इस्वरूपे परस्मिन् कायें विधेये दीर्घरव दीर्घत्वशास्त्र वाऽसिद्ध भवतीति । यदापि नित्यत्वाविशेषविधानाद्वा 'इव ' इति बाधित्वा ‘ज्याव्येयधि'-इति प्रवर्तते तदापि प्रत्ययाश्रितत्वेन बहिरङ्गत्वेनासिद्धत्वान्नामिनोऽभावाद्दीर्घाऽभाव । कुईते कुर्दनेत्यादिपु योस्फूर्जेति ज्ञापकाद्दीर्घत्व न भवति कथ यदि रेफोपान्त्यानां दीर्घः स्यात्तदा ट्वोस्फूर्जा वज्रनिर्घोष इत्यस्यापि दीर्घ. सिद्ध इति दी|च्चारणं न कर्त्तव्यम् । तस्मादन दीर्घ कुर्वन् ज्ञापयति भ्वादेरित्यय विधिरनित्यः ॥-मो