________________
खलप्वः । एषु स्याद्युत्पत्तेः प्रागेव क्विवन्तेन समासः । एवं नयनशीलो नीः । सेनां नेता सेनानीः । सेनान्यौ । सेनान्यः । यद्वा । नयतीति नीः पश्चात्साधनेन योगः । पर्मस्य नेता परमनीः । परमन्यौ । परमन्यः । किग्रहणादिह न भवति । परमश्चासौ नीश्च परमनीः । परमनियौ । परमनियः । स्याद्यन्तेनात्र विशेषणसमासो न तु किवन्तेन । वृत्तिग्रहणादिह न भवति । ब्राह्मणस्य नियौ । असुधिय इति किम् । सुष्ठु ध्यायति दधाति वा सुधीः । ' दिद्युद् ' ( ५ । २ । ८३ ) इत्यादिना किप धीभावथ । सुधियौ । सुधियः । सुपूर्वस्यैव वर्जनादिह भवत्येव । मध्यौ । आध्यौ । उथ्यौ ॥ ५८ ॥ दृन्पुनर्वर्पाकारैर्भुवः । २ । १ । ५९ ॥ दृन् पुनर वर्षा कार इत्येतैः सह या किव्वृत्तिस्तत्संबन्धिनो भ्रुवो धातोस्वर्णस्य स्वरादौ स्यादौ प्रत्यये परे वकारादेशो भवति । इन् हिंसन् भवतीति हन्भ्वौ । इन्भ्वः । पुनर्भूः पुनरूढा स्त्री । पुनर्ध्वो । पुनः । वर्षाभूरोपधीविशेपो दर्दुरथ । वर्षाभ्वौ । वर्षाभ्वः । कारे कारेण वा भवति कारभूः । कारवौ । कारभ्यः । करशब्देनापीच्छन्त्येके । करभ्वौ । करभ्वः । । काराशब्देनाप्यन्ये । काराभ्वौ । काराभ्वः । नादिभिरिति किम् | स्वयंभुवौ । प्रतिभुवौ । मित्रभुवौ । विभुवौ । आत्मभुवौ । पूर्वेणैव सिद्धे नियमार्थमिदम् एतैरेव भुवो नान्यैरिति ॥ ५९ ॥ णषमसत्परे स्यादिविधौ च । २ । १ । ६० ॥ इतः सूत्रादारभ्य यत्परं कार्यं विधास्यते तस्मिन्पूर्वस्मिंश्च स्याद्यधिकारविहिते विधौ कर्तव्ये णत्वं पत्वं वासदसिद्धं द्रष्टव्यम् । एतत्सूत्रनिर्दिष्टयोच णत्वपत्वयोः परे पत्वे णत्वमसद्रष्टव्यम् ।
नास्ति ॥ सेनानीरिति । सेनां नेतेत्यर्थकथनम् । यावता सेनाशब्दस्य षष्ठयन्तस्य गतिकारकेति न्यायेन नीशब्देन किवन्तेन ' कृति' इति समास ॥ न च वाच्य 'न नाम्येक' इति नियमेन द्वितीयैव प्राप्नोति न पष्ठी तत्कथ कृतीति समासः । उच्यते । ' डस्युक्त कृता' इत्यस्यैव विपयेऽय नियमो न कृतीत्यस्य ॥ यदापि नयतीति नी. पश्चातु परमशब्देन कर्मपष्ठयन्तेन कारकत्वात् स्याद्युत्पत्ते पूर्व विबन्तेन समासस्तदापि यत्व भवतीत्याह - यद्वेत्यादि । उभयत्राप्यर्थभेदाभावात् प्रक्रियाभेदमात्रमेतदुपदर्शितमिति । परमार्थस्तु सोपपदादेव किप् । ननु बहव सेनान्यो यस्येति | कृते यत्व भवति वा न वा । भवत्येव । यत सेनानीशब्दस्य फिबन्तेन वृत्तिरस्ति ॥ - परमनीरिति । परमशब्दस्याकारकत्वात् विबन्तेन समासाभावात् कियग्रहणादिह यत्र न भवति ॥दन्पुन | इन् हिंसन्निति । दृहु इति धातु । दहतीति विपि तल्लोपे सिलोपे च ' पदस्य ' इति हलोपे छन् इति रूपम् ॥ - वर्षाभूरिति । भेक्वा पुनर्नवागां स्त्री वर्षाभू र्दुर्दुरे (नपत्रीण ) पुमान् इति वैजयन्तीकार ॥ कारेति । क्रियत इति कार । राजलभ्यो भाग ॥ करम्वाविति । उभय शाकटायन. । स हि करशब्द पठित्वा करकारशब्दयोरेकार्थत्वादेकदेशविकृत तदेवेति कारशब्देनापीच्छति । काराशब्द तु देवनन्दी || - स्वयंभुवाविति । अत्रापि ' दिद्युडदत् -' इत्यादिना किप् । न तु ' शसस्वयम्' इत्यादिना । तदा हि धानुल्य न स्मात् ॥ एतैरेवेति । प्रकृतिनियमोऽयम् । एतैर्योगे भुव एव नान्यस्य धातोरिति तूपपदनियमो न भवति । 'अस्वयभुवोऽच्' इति सूत्रनिर्देशात् । एवविधे हि नियमे क्रियमाणे एतैर्भुव एव नान्यस्येत्यन्ये धातवो नियत्रिता स्यु' । भुवस्तु एतैरन्यैश्च योगे वस्त्र स्यात् । तथा चास्वयभुव इति न स्यात् ॥ णवम ॥ णो विधेयत्वेन एण्वस्तीत्यभ्राद्यकारे णशब्देन णत्वविधायकानि सूत्राण्युच्यन्ते । एव पशब्देनापि पत्वविधायकानीति ॥ - पतत्सूत्रनिर्दिष्टयोरिति । यदि तु सप्तमपादोक्तक्रमेण पण इति क्रियते (तदा णत्वमसदृष्टव्यम् । पूर्वं कृतस्य णत्वस्यासत्वात् प्रनष्ट इति सिद्धम् । न च श इति व्यावृत्या पूर्वमेव न भविष्यति । धातो. पश्चादुपसर्गसंबन्ध इति मते व्यावृत्तेश्चरितार्थत्वात् अभिपुणोतीत्यादि न सिव्यति । ' उपसर्गात्सुग्' इत्यनेन विहितस्य पत्वस्य णत्वे परेऽसच्चात् )