________________
Credecome
राम् । त्यदादिसंवन्धिविज्ञानादिह न भवति । आतिकिम् । अतिकिमौ । अतिकिमः । प्रियकिम् । मियकिमौ । पियकिमः । आदिशब्दस्य व्यवस्थावाचेत्वात्तसादयस्वैमवसाना ग्राह्याः॥ ४०॥ आ देसः।२।१।४१॥ द्विशब्दमभिव्याप्य त्यदादीनामन्तस्य तत्संवन्धिनि स्यादौ तसादौ च परेऽकार आदेशो भवति । स्यः। त्यौ । त्ये । सः । तौ । ते । यः। यौ। ये । अमू । अमी । इमौ । इमे । एप । एतौ। एते । एकः। एवं द्वौ ।त्यकौ । परमत्यौ। स्त्रियां, स्या । त्ये।त्याः । द्वे। नपुंसके, | त्ये । त्यानि । द्वे । तसादौ, ततः। तत्र । तथा । तहिं । यतः । यत्र । यदा । यथा । त्यदादिसंवन्धिविज्ञानादिह न भवति । अतितद् । अतितदौ । अतितद' । प्रियतद् । मियतदौ । भियतदः । आ वेरिति किम् । किम् ॥ ४१ ॥ तः सौ सः।२।१।४२ ॥ आ देस्त्यदादीनां संवन्धिनि सौ परे तकारस्य सकारादेशो भव- 1.8 ति । स्यः । स्या । स्यकः । परमस्यः। सः । सा । सकः । परमसः । एपः । एषा । एषकः । परमैपः । हे स । हे परमस । हे परमैप। त इति किम् । य । साविति किम्। त्यद् । तद् । त्यो । तौ । त्यदादिसंबन्धिविज्ञानादिह न भवति । भियत्यद् , प्रियैतत् पुमान् । आ वरित्येव । भवती ॥ ४२ ॥ अदसो दः संस्तु डौ। २॥१॥४॥ त्यदादिसंबन्धिनि सौ परेऽदसो दकारस्य सकारादेशो भवति, सेस्तु डौ । असौ । असकौ ।-हे असौ, हे असकौ विद्वन् । असौ । असको खी। हे असौ, हे असको खि । सावित्येव । अद । अमू । त्यदादिसंबन्धिविज्ञानादिह न भवति । अत्यदाः । डित्करणमन्त्यस्वरादिलोपार्थम् । तेन 'औता' (१।४।२०) 'एदाप.' (१।४। ४२) 'दीर्घङयाव्यञ्जनात्सेः' (१।४। ४५ । 'अस्यायत्तसिपकादीनाम् ' (२।४। ११०) इति कार्याणि न भवन्ति । अन्यथा दः सौ इसेतत् क्रियेत ॥ ४३॥ असुको वाऽकि । २।१ । ४४ । त्यदादिसंबन्धिनि सौ परेऽदसोऽकि सत्यमुक इति दस्य सः सकारात्परस्याकारस्योकार सेश्च डौत्वाभावो वा निपात्यते । असुकः । असकौ । हे अमुक । हे असकौ । असुका । असकौ स्त्री । केचित असुकसिति सान्तं सिना सह निपातयन्ति ॥४४॥ मोऽवर्णस्य गम् अन्यथाऽनवधिक ज्ञायेत । अत्र पूर्वसूत्रात् स्यादावित्यनुवर्तमानेन सह तसादावित्यस्य समुच्चयार्थश्चकार ॥ यथा 'विशेपण विशेष्येण '-इत्यत्र । अत एव 'आ ढेर ' इत्यत्र स्याटावित्यस्यानुवृत्तिरन्यथा चानुकृष्टत्वान्नानुवत्तेत ॥-थमवसाना इति । तेन कितरामित्यादी तदुत्तरेषु न भवति ॥-आ देरः ॥ द्वाविठति क्यनि किपि तयोलोंपे सौ अनेन ईकारस्य अस्व न त्यदादिसबन्धिस्याद्यभावात् द्वीरित्येव भवति ॥-एक इति । रूपनिर्णयार्थमिद दर्शित न तु किचित्फलम् ॥-तः सौ सः ॥-भवतीति । 'नामग्रहणे-' इति न्यायावत्रापि सत्वे भवसीति स्यात् । नपुसके सेरभावात् पुलिझे तु से स्थानित्वेन सत्वे कृतेऽपि 'पदस्य' इति सलोपे विशेपाभावात् स्त्रियामुदाहृतम् ॥-अदसो-॥-असाविति । सेरनेन डौ ' डिव्यन्त्यस्वरादे.' इत्येव कार्य न | तु 'आ द्वेर' इति प्रक्रियालाघवार्थ डिल्करणस्य सर्वकार्यवाधकत्वेन व्यास्यास्यमानत्वाचा -हे असौ। हे असको विद्धन्निति । अत्र औरित्यपि ते तदादेशा इति से स्थानित्वेऽपि ' अदेत | स्यमो. '-इत्यस्य न प्रसन्न । सिद्वारेणाऽमोऽपि लुपि सिद्धाया यत् अम्ग्रहण तदन्यस्य स्यादेशस्य निवृत्यर्थमिति तत्र व्याख्यानात् ॥-कार्याणि न भवन्तीति । एतानि च खियां प्रामुवन्ति । तथाहि असूशब्दात् सौ अनेन औकारे ‘आ देर ' इत्यत्वे आपि औव्यपदेशे औतेत्यस्य सिव्यपदेशे तु आमन्व्ये 'एदाप ' इत्यस्य, अनामन्ये तु ' दीर्घड्याब्' इत्यस्य, अकि तु 'अस्यायत्तत् 'इत्यस्य प्राप्ति । अथ औतेल्यत्र प्रथमाहितीयाद्विवचनेनेति व्याख्यानात् कथ सिस्थानीकारस्य प्राप्ति । सत्यम् । अत्रैव स्थिते तत्रय व्याल्यातमिति औतेति प्रामोत्येव ॥–असुको-॥-असुक इति । अत्र परत्वान्नित्यत्वाच ' अवाढे '-इति बाधित्वा सस्य 'आ देर ' 'लुगस्या-' इत्यलोप । सो रु ॥-केचित्त्वसुकसिति । तन्मते सवोधने स्त्रियां चाऽसुक इति विसर्गान्त एव ।