________________
श्रीहैमस
॥ ८ ॥
भिः। परमैभ्यः । परमास्मै । परमास्यै । परमास्मात् । परमास्याः अत्रः पूर्वोत्तरयो पदयोः पूर्व कार्ये कृते पश्वात्संधिकार्यम् । एतच्च 'आतो नेन्द्रवरुणस्य ' ( ७। ४ । २९ ) इत्यत्र ज्ञापयिष्यते । अभेदनिर्देश सर्वादेशार्थ ॥ ३६ ॥ टौस्यनः । २ । १ । ३७ ॥ त्यदादिसंवन्धिनि टायामोसि च परेऽवर्जितस्येदमः स्थाने अन | इत्ययमादेशो भवति । अनेन । अनया । अनयोः स्वम् । अनयोनिर्धेहि । परमानयोः । त्यदादिसंवन्धिविज्ञानादिह न भवति । अतीदमा । अतीदमोः । प्रियेदमा । प्रियेदमाः । अनक् इत्येव । इमकेन । इमिकया । इमिकयो । इमकयोः ॥ ३७ ॥ अयमियं पुंस्त्रियोः सौ । २ । १ । ३८ ॥ त्यदां संवन्धिनि सौ परे पुंलिङ्गस्त्रीलिङ्गयोरिदमः स्थाने यथासंख्यमयम् इयमित्येतावादेशौ भवतः । अयं पुमान् । इयं सी। परमायम् । अनयम् । परमेयम् । अनियम् । साविति किम् । इमौ । इमे । सदादिसंवन्धिविज्ञानादिह न भवति । अतीदम पुमान् स्त्री वा । एवं मियेदम् । पुत्रियोरिति किम् । पुंसि इयम् स्त्रियामयम् माभूत् । नपुंसके तु नित्यत्वात्प्रथममेव सेर्लपि इदं कुण्डमित्यत्र प्रसङ्ग एव नास्ति । साकोऽप्ययमियमादेशौ भवतः । अयम् । इयम् ॥ अन्ये त्वादेशे कृते पञ्चादकमिच्छन्ति । अयकम् । इयकम् ॥ ३८ || दो मः स्यादौ । २ । १ । ३९ ॥ त्यदां संबन्धिनि स्यादौ परत इदमो दकारस्य मकारादेशो भवति । इमौ । परमेमौ । इमे । इमम् । इमौ । इमान् । इमकौ । इमकेन । इमकाभ्याम् । त्यदादिसंवन्धिविज्ञानादिह न भवति । अतीदमौ । प्रियेदमौ ॥ ३९ ॥ किमः कस्तसादौ च । २ । १ । ४० ॥ त्यदादिसंवन्धिनि स्यादौ तसादौ च प्रत्यये परे किशब्दस्य स्थाने क इत्यकारान्त आदेशो भवति । कः । कौ । के । कम् | कौ । कान् । केन । काभ्याम् | कै । स्त्रियाम् का के । काः। काम् । के । काः । नपुंसके, के । कानि । परमकः । परमकौ । अकः । अकौ । साकोऽपि । कः । कौ । तसादौ, कदा कहि । तसादौ चेति किम् । कि तिष्ठति । किं पश्य । कित -
1
इति च निवृत्तम् । ननु परमाभ्यामित्यादौ परादप्यदादेशात्समासे सति स्याद्युत्पत्तिसापेक्षत्वेन हिरज्ञादन्तर अवस्यैत्ये कृते इदरूपाभावादादेशाभाव प्राप्नोतीत्याह- अत्रेति । किच परमैभिरित्यादिषु परमशब्दसबन्धिना अकारण सह यदि लक्षण सधि प्रथममेव क्रियते तदा उभयो स्थाने य समुत्पद्यते स लभते अन्यतरव्यपदेशमिति न्यायात् यदा एकारस्य इदम् शब्दसबन्धिता तदा एकारेण सह इदमोत् स्यात् । ततः पूर्वस्य व्यञ्जनान्ततायामनिष्टरूपापत्ति । यदा तु स्य इदम्वन्धिता न भवति तदा एकारस्य स्थिति स्यात् इत्युभयथापि अनिष्टापति ॥ - एतचेति । कथम् अनेन्द्रमित्यत्र प्रयोगे आकारात् इन्द्रवरणस्थस्व स्वरस्य वृद्धिर्न भवतीत्युक्तम् । ततश्च यदि पूर्वमेव सधिकार्य स्वात्तदा निषेधोऽनेन व्यर्थ एवेत्यर्थं ॥ - अयमियम्-॥ पूर्वदलौकिको निर्देश । लुप्तप्रथमाद्विवचनान्त पदम् ॥ पुंस्त्रियोरिति कि । पुसि इय खियामय माभूदिति । ननु कथमिदमुक्त यावता नपुसके अयमियमादेशनिवृत्यर्थं पुसियोरिति वचनात् तचाह - नपुंसके तु नित्यत्वादित्यादि । अपेक्षातोऽधिकार इति 'अनक् इत्यन न सवध्यते । तेन मतान्तरे साकोsपि आदेश । केपा चिन्मते अकारान्त आदेश से स्थाने म् ॥ - दो म. स्यादौ । स्याद्यधिकारे स्वादावित्युपादानात् स्यादिरेवाऽनुवर्त्तते न कि चित्तद्विशेषणमित्याह- स्यादाविति ॥ - किमः कः ॥ नच वाच्यमिद सूत्र किमर्थं यत आ रस्तसादौ च अये इम इति क्रियमाणे साकस्यानिष्ट रूप स्यात् । कक । ककौ । नन्वन्न ससादाविति किमर्थं तसि तावत् ' इतोsa कुत इति निपातन वक्ष्यते । सत्यम् । उत्तरार्थमिदम् । अथवा धमन्तार्थं तसादिग्रह