SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ अवृत्त्यन्त इयेव । अथो परमेमं पश्य । वृत्त्यादौ तु भवत्येव । एनमेनां वा श्रित एनच्छूितकः। अन्वादेश इत्येव । चैत्रमध्यापय इमं च मैत्रम् । यत्रापि वस्तुमात्रनिदेशं कृत्वा किञ्चिद्विधीयते तत्रापि न भवति । अयं दण्डो हरानेन फलानि ॥ केचित्त्विदम आदेशमेनम् इति मकारान्तं द्वितीयैकवचने आहुः, तन्मते इर्द कुण्डमानयाथो एनं परिवर्तयेत्येव भवति । योगविभाग उत्तरार्थः ॥ ३४ ॥ अब्द्यञ्जने ।२।१॥ ३५ ॥ इदम इति पष्ठ्यन्तमपि सर्वोदेशार्थ-प्रथमान्ततयेह विपी त्यदादिसंबन्धीदम्शब्दो व्यञ्जनादौ स्यादौ परेऽन्वादेशे गम्यमानेऽद् भवति, अवृत्त्यन्ते । तकार उच्चारणार्थः । इमकाभ्यां शैक्षकाभ्यां रात्रिरधीता अथो आभ्यामहरप्यधीतम । इमकैः शैक्षक रात्रिरीता अथो एभिरहरप्यधीतम् । एवमिमकस्मै अथो अस्मै । इमिकस्यै अथो अस्यै । इसकस्मादयो अस्मात । इमकस्याथो अस्य । इमकेपामथो एषाम् । इमकस्मिन् अथो अस्मिन् । इमिकस्यामथो अस्याम् । इमकेषु अथो एषु । इमिकासु अथो आसु । सौ तु परत्वादयमायादेशः । अथो अयं शीलवान् ॥ केचिदेतदोऽपीच्छन्ति । एताभ्यां छात्राभ्यां रात्रिरधीता आभ्यामहरप्यधीतम् । एवमेतैः, एभिः । एतस्मै अस्मै इत्यादि । अन्वादेश इत्येव । इमकस्मै देहि । अवृत्त्यन्त इत्येव । अयो परमेमकाभ्यां रात्रिरीता । व्यञ्जन इति किम् । अधो इसके तिष्ठन्ति । उत्तरत्र 'अनन् । (२।१ । ३ ५) इति वचनादिह साक एव विधिः ॥ ३५ ॥ अनन् ।२।१।३६॥ अन्वादेश इति निवृत्तम् । पृथग्योग उत्तरार्थः । त्यदादिसंवन्धिनि व्यञ्जनादौ स्यादौ परेऽग्वर्जित इदम अद् भवति । आभ्याम् । एभिः । आभिः । अस्मै । अस्यै। अस्मात् । अस्याः । अस्य । अस्याः। एपाम् । आसाम् । अस्मिन् । अस्याम् । एषु । आसु । अनगिति किम् । इमकाभ्याम् । इमकेभ्यः । इमकस्मै । इमिकस्यै । इमकेषाम् । तत्संवन्धिविज्ञानादिह न भवति । अतीदंभ्याम् । अतीदंसु । प्रियेदमु । इह तु भवति । परमाभ्याम् । परमैअत्रापि पूर्ववद्गम्यमानोऽन्यादेश । अथो इत्यादि तु द्योतकत्वात् क्वापि प्रयुज्यते कापि न ॥-अयं दण्डो हरानेनेति । अत्र ह्यनुवादमानमेव न तु निभाल्यतामित्यादि विधीयते ॥-केचित्त्विति । पाणिनिप्रभृतय ॥-अथो एनं परिवर्तयेत्येव भवतीति । न तु कुण्डशब्दल नपुसकस्य विशेषणरवे एनदिति ॥- अद्याने ॥ तकार उच्चारणार्थ । अन्यथा सौ ‘सो रु' इत्यादौ कृते ओ इत्यनिष्ट रूप स्यात् ॥-प्रथमान्ततयेह विपरिणम्यत इति । अत एव कार्या निमित्त कार्यमिति निर्देशक्रमे प्राप्ते निमित्तात्पूर्व कार्यनिर्देश । उत्तरबानगिति प्रथमान्तविशेपणोपादानाद्वा ॥शैक्षकाभ्यमिति । शिक्षेते इति शिक्षकौ । तत स्वार्थे प्रज्ञावण् । शिक्षण शिक्षा 'क्लेटो गुरो'-इत्यऽप्रत्ययस्तत. शिक्षा वित्तोऽधीयाते वा 'पदक्रमशिक्षा '-इत्यकः । ततः शिक्षकावेव प्रज्ञाद्यण् । अथ वा शिक्षायां भवौ ' शिक्षादेश्वाण । ततो यावादित्वात् क । अथ सावपि व्यञ्जनादित्वात् कथं नायमादेश इत्याह-सौ तु परत्वादिति ॥-केचिदिति । चान्द्रभोजक्षीरस्वामिप्रभृतय ॥साक एव विधिरिति । विनान्तादौ अन्वादेशे साको निरकश्चादादेशविधानादिह एवमपि व्याख्या । साको यद्यादेशस्तदा अन्वादेश एवेति । तेन निरकोऽन्वादेशे अनन्वादेशे चोत्तरेणादादेश सिद्ध ॥-अनक् ॥-पृथयोगादिति । पृथगयोगारम्भादिति भावः । अन्यथा साकोऽनकोऽप्यन्वादेशे पूर्वसूत्रेणैव सामान्यविधानेन सिद्धत्वात् सूत्रारम्भवैयर्थ्य मिति। अन्वादेशनिवृत्तौ तत्सबद्धमवृत्त्यन्त sareeeeeeeeee
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy