________________
%
A
ABAD
थितस्य तेनान्येन वा शब्देन पुनरन्यद्विधातुं कथनमिसर्थः । तस्मिन्विषये पदात्परयोयुष्मदस्मदोर्यदुक्तं वस्नसादि तन्निसं भवति । यूयं विनीतास्तद्वो गुरखो मानय
न्ति । वयं विनीतास्तन्नो गुरखो मानयन्ति । युवां शीलवन्तौ तद्वा गुरवो मानयन्ति । आवां शीलवन्तौ तन्नौ गुरखो मानयन्ति । त्वं विद्वानथो ते क्षमाश्रमणैर्जानं दी। यते । अहं विद्वानथो मे क्षमाश्रमणैर्ज्ञानं दीयते । धनवांस्त्वमथो त्वा लोको मानयति । धनवानहपथो मा लोको मानयति ॥ ३१ ॥सपूर्वात्प्रथमान्तादा। २।
१।३२ ॥ विद्यमानपूर्वपदात्मथमान्तात्पदात्परयोर्युष्मदस्मदोरन्वादेशे वस्त्रसादय आदेशा या भवन्ति । यूयं विनीतास्तद्गुरखो वो मानयन्ति । तद्गुरवो युष्मान मानयन्ति ॥ वयं विनीतास्तद्रवो नो मानयन्ति । तद्गुरवोऽस्मान्मानयन्ति । युवां मुशीलौ तज्ज्ञानं वां दीयते । तज्ज्ञानं युवाभ्यां दीयते । आवां सुशीलौ तज्ज्ञानं नौ दीयते । तज्ज्ञानमावाभ्यां दीयते । सुशीलस्त्वमयो क्षमाश्रमणास्ते ज्ञानं प्रयच्छन्ति । अथो क्षमा अमणास्तुभ्यं ज्ञानं प्रयच्छन्ति | सुशीलोऽहमथो क्षमाश्रमणा मे ज्ञानं प्रयच्छन्ति । अथो क्षमाश्रमणा मह्यं ज्ञानं प्रयच्छन्ति । धनवानसि अथो ग्रामे कम्बलस्ते स्वम् । अथो ग्रामे कम्बलस्तव स्वम् । धनवानहमथो ग्रामे कम्बलो मे स्वम् । अथो ग्रामे कम्बलो मम स्वम् । धनवास्त्वं तल्लोकस्त्वा पूजयति । तल्लोकस्त्वां पूजयति। धनवानहं तल्लोको मा पूजयति । तल्लोको मां पूजयति। गम्येऽप्य
न्वादेशे भवति । ग्रामे कम्बलो वः स्वमथो ग्रामे कम्बलो युष्माकं स्वमथो इसादि । सपूर्वादिति किम् । पटो युष्माकं स्वम् । अथो वः कम्बलः स्वम् । प्रथमान्तादिति ६. किम् । पटो नगरे युष्माकं स्वम् । अथो कम्बलो ग्रामे वः स्वम् । 'माणवक जटिलक ते स्वमयो' इत्यादौ तु विशेषणपदस्य ' असदिवामन्व्यं पूर्वम् । (२।१।११
नित्यग्रहणाभावे 'पढात् '-इति सूत्रे कथ विकल्प इति । तदा हि तत्रैव न वेति कुर्यादिति । कस्य चिद्रव्यस्य काचित् क्रिया जाति गुण द्रव्य वा प्रतिपादयितु कथितस्य तेन तदितरेण वा शब्देन पौनरुत्य माभूदिति विशेपान्तर प्रतिपादयितु पुन कथनमन्वादेश इति यावत् ॥ तेनान्येन वेति । युष्मदस्मदशब्दाभ्या कृत्वा विनीतत्यादिक विधाय पुनर्युप्मदस्मद्या गुरुमाननादिक विधीयते । अत्र सूत्रे तेनैव शब्देन कथनमान्ति । अन्येन तु कथनमुत्तरत्रैव ज्ञेयम् ॥-पुनरन्यद्विधातुमिति । पुन शब्दोपादानात्तस्यैव कथन यदि भवति तदैवान्वादेश । न हान्यस्य कथने । पुन शब्दार्थो घटते । तेन यनान्यस्य कथन तत्र नान्वादेश । ततश्च जिनदत्तमध्यापय एत च गुरुदत्तमित्यता तस्यैव जिनदत्तस्य पुन कथनाभावादन्यादेशाभावात् 'त्यदामेनद् '-इत्यनेन एनदा
देशो न भवति ॥-यूयं विनीता इति । अन्वादेशदर्शनार्थ वाक्यान्तरमिदमुपदर्शितम् । न तूत्तरपदसबद्ध बोहव्यम् । तेन तदित्यस्त पदस्य सपूर्वस्वाभावादु त्तरेण न विकल्प । तदित्यव्यय 8. तस्मादित्यर्थे । विनीनतामात्रमत्रान्द्यते नापूर्व किचिद्विधीयते ॥ यूय विनीता इति प्रथमादेश उत्तरस्यान्वादेशल्यापनार्थम् ॥ विनीता इति विनीतत्व प्रतिपादयितु यूयमित्युक्तम् ॥-तद्वा
गुरवो मानयन्ति इति । अयमन्वादेश । यूयमिति यत्प्रथममुक्त तस्येव च गुरवो मानयन्तीति प्रतिपादयिनु द्वितीय कथन तत्र वसादेश । एव सर्वत्र ॥-सपूर्वात्-॥ सहशब्दो विद्यमा१ नवचन । पूर्वशब्दो व्यवस्थार्थ । सह विद्यमान पूर्वपद यस्मात् ' एकार्थ च-' इति समास ॥-प्रथमान्तावति । प्रथमाया प्रत्ययत्वात्प्रत्यय प्रकृत्यादेरित्यादिनाऽन्तस्य लब्धत्वादन्तग्रहण न्याया 12 नुवादार्थमिति ॥-धनवानऽसीत्यादि । अत्र अन्येन कथनमन्वादेश । यतो धनवानसीत्यस्मिन्नन्वादेशदर्शके वाक्यान्तरे प्रथममसीत्युक्तम् । अथो ग्रामे कम्बलस्ते स्वमित्यत्र तु ते इत्युक्तम् ॥
गम्येऽप्यन्वादेशे भवतीति । यूय धनवन्त इत्यादिपदोपादाने हि साक्षादन्वादेशो भवति । अथो इत्यादेस्तु द्योतक्मात्रस्योपादाने गम्य एव । माणवक जटिलक ते स्वमथो इत्यादौ तु विशेषण