________________
ओहेयश
॥५॥
तिष्ठतः, शीले आवां तिष्ठाव इयत्रोत्तरेण वामनावादेशौ न भवतः ॥ २१ ॥ द्वित्वे वाम्नौ । २।१।२२ ॥ पदात्परयोर्युष्मदस्मदोद्वित्तविषयया युगविभक्या द्विती सह यथासंख्यं वाम्नाविसतावादेशौ वा भवतः, तश्चेत्पदं युष्मदस्मदी चैकवाक्ये भवतः । धर्मों वां रक्षतु | धर्मो नौ रक्षतु । धर्मो युवां रक्षतु । धर्म आवां रक्षतु । शीलं वां दीयते । शीलं नौ दीयते । शीलं युवाभ्यां दीयते । शीलमावाभ्यां दीयते । ज्ञानं वां स्वम् । ज्ञानं नौ स्वम् । ज्ञानं युवयोः स्वम् । ज्ञानमावयोः स्वम् । युग विभवत्येत्येव । ग्रामे युप्मत्पुत्रः । नगरेऽस्मत्पुत्रः । पदादित्येव । युवां धर्मो रक्षतु । आवां धर्मो रक्षतु । एकवाक्य इत्येव । ओदनं पचत युवयोर्भविष्यति आवयोभविष्यति ॥ २२ ।। अॅडसा तेमे । २।११२३ ॥ तेमे इति लुप्तद्विवचनान्तं पदम् । पदात्परयोर्युप्मदस्मदोर्डेडस् इत्येताभ्यां सह तेमे इत्येतावादेशौ वा भवत एकवाक्ये । छेडसेत्येकवचनं स्थानिभ्यामादेशाभ्यां च यथासंख्यनिवृत्त्यर्थम् । धर्मस्ते दीयते । धर्मस्तुभ्यं दीयते । धर्मो मे दीयते । धर्मो मयं दीयते । शीलं ते स्वम् । शीलं तव स्वम् । शीलं मे स्वम् । शीलं मम स्वम् । एकवाक्य इत्येव । ओदनं पच तव भविष्यति मम भविष्यति । त्वां युवां युप्मान्वाऽतिक्रान्ताय अतितुभ्यम् । डेङसेति किम् ।। पटस्त्वया क्रियते । धर्मो मया क्रियते ॥ कथं 'न मे श्रुता नापि च दृष्टपूर्वा । न मे न मयेति यत्रार्थः। असाधुरेवायम् । स्यादिशतिरूपकमव्ययं वा ॥२३॥
अमा त्वामा।२।१॥२४॥ पदात्परयोयुष्मदस्मदोरमा द्वितीयैकवचनेन सह त्वा मा इत्येतावादेशौ यथासंख्यं वा भवत एकनाक्य। धर्मस्त्वा रक्षतु । धर्मो मा रक्षतु। धर्मस्त्वां रक्षतु । धर्मो मां रक्षतु । पदादित्येव । त्वामीक्षते । मामीक्षते। एकवाक्य इत्येव । अतित्वां पश्यतु । अतिमां पश्यतु ॥ २४॥ असद्विामन्त्र्यं पूर्वन् ।२।१।२५॥ आमन्त्र्यते यत्तदामन्त्र्यम् । तद्वाचि पदं युप्मदस्मयां पूर्वमसदिवाविद्यमानमिव भवति । सति तस्मिन्यत्कार्य तन्न भवति असति यत्तद्भवतीत्यर्थः । श्रमणा युप्मान् रक्षतु धर्मः। श्रमणा अस्मान् रक्षतु धर्मः । श्रमणा युष्मभ्यं दीयते । श्रमणा अस्मभ्यं दीयते । श्रमणा युप्माकं शीलम् । श्रमणा अस्माकं शीलम् । श्रमणौ युवां रक्षतु धर्मः । श्रमणौ आनां रक्षतु धर्मः । श्रमणौ युवाभ्यां दीयते आवाभ्यां दीयते । श्रमणौ युवयोः स्वमाययो स्वम् । श्रमण खां रक्षत तपः मां रक्षतु तपः। श्रमण तुचं दीयते मह्यं दीयते । श्रमण तव शीलम् मम शीलम् । एप्वामन्यस्यासत्त्वावलसादयो न भवन्ति ॥ ग्रामाचैत्र ते स्वमथो इत्यादौ चैत्रपदस्यामन्त्र्यस्यासवादग्रामपदापेक्षयाऽन्वादेशे नित्यं तेमयादिनिधिः, न तु 'सपूर्वात्प्रथमान्ताद्वा' (२।१।३२) इनि विकल्पः । इवकरणं किम् । श्रवणं यथा स्यात् । आमन्व्यमिति किम् । धर्मो वो च किटतापरिहारार्थमिति ॥-द्वित्वे-॥ दित्य इति भावप्रत्ययान्तेन संख्या निर्दिश्यते । सरयाया च विभक्तिर्तते न युप्मदस्मदी द्रव्यक्तित्वात्तयारिति द्वित्य इति विभक्तरेन विशेपणमित्याहहित्यविषययेति ॥-डेडसा-||-रएपूर्वेति । पूर्व रष्टा 'नाम नाम्ना'-इति स (सी चेत् )॥-अमा त्वा मा || अम् यद्यप्यनेकप्रकारोऽस्ति तथाहि एकोऽत स्थमोऽम् द्वितीयोऽमन्ययीभावस्येति तृतीय आण्यासविभक्तरम्बऽम् इति तथापि युष्मदस्मन्यामन्यस्यासभवाद्वितीयकवचनमेव गृहाते इत्याह-अमा द्वितीयैकवचनेनेति ॥-असदिवा-॥ योऽर्थ खेन धर्मेण प्रसिद्धी धर्मान्तरसवन्ध प्रत्यभिमुखीक्रियते स आमय । यथा देवदत्तो देवदत्तत्वेन प्रसिद्धी धर्मान्तरेऽभिमुसीक्रियते यथा पच पठेत्यादि । तत्रार्थ कार्यासभवादुपचारादाम गाभिधायि पदमामव्य विज्ञायत इति । तथोत्तरत्र नित्यग्रहणादस्मिन् सूने कथ विकरपो न लभ्यत इति । उच्यते । नित्य विधास्यमानत्यानिति भणनायत्रैव यससाइयो विधीयन्ते सरोव विकल्प उपतिष्ठते न वससादीना निषेधे 21 इति । अथवा यद्यत्रापि सूत्रे विकल्प स्यात्तदा किमेतत्सूत्रकरणेन । यतोसदिवामध्य पूर्वम् इति कृतेऽपि यमनासादयो विकल्प्यन्ते । ते च 'पढागुगविभक्त्या-' इत्यनेनैव विकल्पेन भविष्य