SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ देशो भवति । युष्माकम् । अस्माकम् । प्रिययुष्माकम् । प्रियास्माकम् । खां युवां युष्मान्वा अतिक्रान्तानाम्, अतित्वाकम् । अतिमाकम् । अतियुवाकम् । अत्यावाकम् । अतियुष्माकम् । असस्माकम् । आकमित्याकारो ण्यन्तार्थम् । युष्मानाचक्षाणानां णौ, विपि, युष्माकम् । अस्माकम् ॥ केचित्तु तत्संबन्धिन एवाम आकमादेशमिच्छन्ति । तथाम्प्रत्यये दकारस्य यत्वमपीच्छन्ति । तन्मते प्रिया यूयं येषां तेषां प्रिययुष्मयाम् । प्रियास्मयाम् । एवमतियुष्मयाम् । अस्याम् ॥ २० ॥ पदाधुविभक्त्यैकवाक्ये वसौ बहुत्वे । २ । १ । २१ ॥ द्वितीया चतुर्थी पष्ठी च युग्विभक्तिः । तथा वहुत्वविपयया सह पदात्परयोर्युष्मदस्मदोर्यथासंख्यं वस्त्रम् इत्येतावादेशौ वा भवतः, तचेत्पदं युष्मदस्मदी चैकवाक्ये भवतः । अन्वादेशे नित्यं विधास्यमानत्वादिह विकल्पो लभ्यते । एवमुत्तरसूत्रत्रयेऽपि धर्मो वो रक्षतु । धर्मो नो रक्षतु । धर्मो युष्मान् रक्षतु । धर्मोऽस्मान्रक्षतु । तपो वो दीयते । तपो नो दीयते । तपो युष्मभ्यं दीयते । तपोऽस्मभ्यं दीयते । शीलं वः स्वम् । शीलं नः स्वम् । शीलं युष्माकं स्वम् । शीलमस्माकं स्वम् । पदादिति किम् । युष्मान् धर्मो रक्षतु । अस्मान् धर्मो रक्षतु । युग्विभक्त्येति किम् । ज्ञाने यूयं तिष्ठत । शीले वयं स्थास्यामः । ज्ञाने युष्माभिः स्थितम् । शीलेऽस्माभिः स्थितम् । ज्ञानं युष्मदागतम् । शीलमस्मदागतम् । ज्ञानं युष्मासु तिष्ठति । शीलमस्मास्वायतते । ग्रामे युष्मत्पुत्रः । नगरेऽस्त्पुत्रः । इति युष्मदुपाध्यायो ब्रूते । इत्यस्मदाचार्यो ऽनुशास्ति। एकवाक्य इति किम् । एकस्मिन्पदे निमित्तनिमित्तिनोर्भावे माभूत् । अतियुष्मान्पश्यति । अत्यस्मान्पश्यति । वाक्यान्तरे च माभूत ओदनं पचत युष्माकं भविष्यति । पटं वयत अस्माकं भविष्यति । नतु च वाक्यान्तरस्यात्परयोर्युष्मदस्मदोः सामर्थ्याभावादेव वस्त्रसादयो न भ | विध्यन्ति किमेकवाक्यग्रहणेन । नैवं शक्यम् । युक्तयुक्तादपि पदादसमर्थत्वान्न प्राप्नुवन्ति । इति स्म नः पिता कथयति । इति वः श्रेयसी ब्रवीमि इति मे माताऽवोचत्। शालीनां त ओदनं दारयामि । अत्र हि युष्मदस्मदी पित्रादिभिर्युक्ते न पित्रादियुक्तैरितिस्मादिभिरिति वस्तसादयो न स्युः । अतः पारंपर्येणापि युक्तादेकवाक्यस्थात्पदात्परयोर्युष्मदस्मदोर्बासादयो भवत्वित्येक वाक्यग्रहणमर्थवत् । बहुत्व इति किम् । धर्मों युवां रक्षतु । धर्मस्त्वां रक्षतु । स्याद्यधिकारे विभक्तिग्रहणं यूकुस्यादिवचननिवृत्त्यर्थम् । तेन ज्ञाने युवां त्यादिव्यति किमाकार करणेनेत्याह - आकमित्यादि ॥ केचित्विति । पाणिनिसूत्रानुसारिण । ते हि साम आकमिति पठन्त कृतसामादेशस्याम आकममिच्छन्ति । स चावर्णस्याम इति तत्सर्बाधिन एवेति ॥ - पदाद - ॥ पद्यते गम्यते कर्तृकर्मविशिष्टोऽर्थोऽनेनेति पदम् । विभक्तया सह सामानाधिकरण्यार्थं युनक्तीति युद्द कर्त्तरि क्विप् । यद्वा योजन युद्द सममविपम सस्यास्थानम् । युग्ममिति यत्सख्यायते । तेन परिछिन्न वस्त्रमपि युगित्युच्यते । तत समसस्या द्वितीयाचतुर्थीपष्टीरूपा विभक्तयो युग्शब्देनोच्यन्त इति ॥ - धम्मों वो रक्षत्विति । अत्र पदादेश पदवदिति वम् इत्यस्य पत्ये 'सो रु' इति सत्व बभूव । तथा 'शसो न 'शेषे लुग्' इत्यादीनि बाधित्वा नित्यत्वात् निरवकाशत्वाश्च वस्तसावेव भव॑त इति ॥ - एकवाक्य इति । एक च तत् वाक्य चेति ' पूर्वकालेक' - इत्यनेन समासे एकस्य पूर्वनिपात । ततो विशेषणस्य व्यवच्छेदकत्वात् सर्व वाक्य सावधारण भवतीति न्यायाच्च एकस्मिन् वाक्य एव भवतीति न तु पदे। अतियुष्मान् पश्यतीत्यादी तु यथैकस्मिन् वाक्ये तथा एकविभक्त्यपेक्षया एकस्मिन् पदेऽपि युष्मदस्मदी स्त इति । तथा एकस्मिन्नेव वाक्य इत्यवधारणात् यदि पद युष्मदस्मदी चैकस्मिन्नेव वाक्ये भवतो न तु वाक्यान्तरे तदाखी भवत ॥ - सामर्थ्याभावादेवेति । परस्परव्यपेक्षालक्षणसबन्धाभावादेवेत्यर्थ ॥ किमेकवाक्यग्रहणेनेति । कि सविशेषणेन वाक्यग्रहणेन वाक्यग्रहणमेव पदव्यवच्छेदाय क युक्त किमेकग्रहणेनेत्यर्थं ॥ - युक्तयुक्तादिति । युक्तेन युष्मदस्मत्सबद्धेन पित्रादिना यद् युक्तमितिस्मेत्यादि तस्मादित्यर्थ ॥ - इतिस्मेत्यादि । अत्रेतिस्मेत्यादि पद साक्षात् युष्मदादिक नापेक्षते कि पित्रादिकमिति एकवाक्यग्रहणात सामर्थ्याभावेऽपि एकवाक्ये पदात्परस्य युष्मदादेरादेश सिद्ध । तथा युग्बहुत्वे इत्यप्युक्ते द्वितीयाचतुर्थी षष्ठीबहुवचनानि लब्धानि । विभक्तिग्रहण तूत्तरार्थमिह
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy