SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ किम् । युष्मानस्मानतिक्रान्ती, अतियुष्माम् । अल्पस्माम् । अतियुष्माभ्याम् । अत्यस्माभ्याम् । अतियुष्पयोः । अत्यस्मयोः । अत्र समास एव द्वित्वविशिष्टेऽर्थे च-15 द्वितीय तते, न युष्मदस्मदी इति युवावादेशौ न भवतः । स्यादाविसेव । युवयोः पुत्रः युष्मत्पुत्रः। आवयोः पुत्रः अस्मत्पुत्रः ।युवयोरिदम् युष्मदीयम् । आवयोरिदम् अस्मदीयम् ॥ १० ॥ त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् । २ । १ । ११ । एकत्वविशिष्टेऽर्थे वर्तमानयोर्युष्मदस्मदोर्मकारान्तस्याक्यवस्य स्वसंवन्धिन्यन्यसवन्धिान वा स्यादौ परे प्रत्ययोत्तरपदयोश्च परयोर्यथासख्यं त्व म इत्येताबादेशौ भवतः । त्वाम् । माम् । त्वया । मया । त्वद् । मद् । त्वयि । मयि । आतक्रान्तौ वामतित्वाम्। | अतिमाम् तिष्ठतः । अतिकान्तं त्वा मां वा अतित्वाम् । अतिमां पश्य । अतित्वान् । अतिमान् । अतित्वया । अतिमया । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वा- 1 भिः । अतिमाभिः । अतित्याभ्याम् । अतिमाभ्या देहि । अतित्वभ्यम् । अतिमभ्यम् । अतित्वत् । अतिमत् । अतिताभ्याम् । अतिमाभ्याम् आगतम् । अतित्वद ।। अतिमद् । अतित्वयोः । अतिमयोः स्वम् । अतित्याकम् । अतिमाकम् । अतित्वयि । अतिमाय । आतित्वयोः । अतिमयोः । अतित्वामु । अतिमासु । सिजस्डेन्ङस्सु । पुनः परत्वावमहमादयो भवन्ति । प्रययोत्तरपदयोः खल्यपि। तवायं त्वदीयः। मदीयः । लन्मयम् । मन्मयम् । त्वामिच्छति त्वद्यति। मद्यति । त्वमिवाचरति त्वद्यते । मद्यते । त्वया कृतं त्वत्कृतम् । मत्कृतम् । त्वत्पुत्रः। मत्पुत्रः । त्वद्धितम् । मद्धितम् । त्वत्मधानः। मत्मधानः । त्वामाचष्टे त्वदयति मदयतीत्यत्र निखत्वादन्त्यस्वरादिलोपात्यागेव त्वमादेशौ । कश्चित्तु पूर्वमन्यवरादिलोपे त्वमादेशे अकारस्य वृद्धौ पागमे त्वापयति मापयति, किपि तु त्वाम् माप् इत्याह । एकस्मिन्निति किम् । युष्माकम् । एकत्वेन युप्मदस्मदोविशेषणदिह न भवति । अतिक्रान्तं युष्मान् अतियुष्माम् । असस्माम् । अतियुष्मया । अत्यस्मया । अतियुष्मद् । असस्मद् । अतियुष्मयि। अवस्मयि । प्रसयोत्तरपदे चेति किम् । त्वय्यधि अधियुष्मद् । अध्यस्मद् । अन्तरङ्गत्वात्स्यादिद्वारेणैव त्वमादेशे सिद्धे प्रयायुत्तरपदग्रहणं 'बहिरङ्गाऽपि लुप् अन्त न्यायात् युवावादय गवादेशा प्राप्स्यन्ति न त्वमहमादय । सत्यम् । परत्याद्विशेषविहितत्वेन प्रकृष्टत्यादित्यर्थ ॥ त्वमौ-|-त्वदयतीति । अत्र नित्यत्वदिऽन्त्यस्वरादिलोपात् प्रागेव त्वमादेशो पश्चादपि | अन्त्यरवरादिलोपो न लोपात् स्वरादेश इति न्यायात् लुगस्येत्येव प्रवर्तते । तस्मिन्नापि कृते न भवति । नैकस्वरस्य' इति निषेधात् । 'मिति' इत्यनेन वृद्धिरपि न अधातुत्वात् ॥-कश्चि|त्त्विति उत्पल । शब्दान्तरमहत्या इयोरप्यनित्यत्वादन्यत्र सावकाशत्वात्परत्वादन्त्यस्वरादिलोप इत्यर्थ ॥-अकारस्य वद्धाविति । अतो णितीत्यनेन सूत्रेण । ननु प्रत्ययोत्तरपद्ग्रहण किमर्थ स्यादा- 18 वित्येव सिद्धत्वात् । न च परत्वात् 'ऐकाय इति स्यादेर्लुपि प्रत्ययलोप इति न्यायस्य 'लुप्यवृझेनत् ' इति प्रतिषेधात् स्यादेरभाव इति वाच्यम् । यत ऐकायें लुबुच्यने । ऐकार्य च प्रकृतिप्रत्ययो पूर्वोत्तरपदे चाश्रित्य भवतीति तस्य बहिरड्नत्वात्तदाश्रया लुबपि बहिरगा । विभक्तिमानमाश्रित्य विधानात् त्वमादेशयोरन्तरगत्यम् । ततोऽसिद्ध बहिरङ्गमन्तरङ्ग इति न्यायान्नित्यादप्यन्तरङ्गस्प बलीयस्त्यात् त्वमादेशयो कर्त्तव्ययो लुपोऽसिद्धत्वात्ताभ्यामेव पूर्व प्रवर्तितव्य ततो लुबिति न किचिदनिष्टमित्याह-अन्तरइत्यादिति । ननु यदा स्यादिग्रहणमेव क्रियते न प्रत्ययोत्तरपदग्रहण तदा त्वदीय त्वत्पुत्र इत्यादी प्रागेव परत्वान उसा सह तवममादेशी प्रामुत , तत्कथमन्तरङ्गत्वात्स्यादिद्वारेणैव सिध्यतीति । सत्यम् । यौ त्वमौ भवतस्तावल्पाश्रितौ यत प्रकृतिमेवाश्रयत यौ तु मौ तौ प्रकृते ३
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy