SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ravwcchemes खियांत विभक्तेरापा व्यवधानान्न भवति । स्वर इत्येव । जरा । जराभ्याम् । जराभिः । स्यादावित्येव । जरायम् । जारः । जारेयः॥ ३॥ अपोऽद्रे । २।१४॥ अप इत्येतस्य स्वसंवन्धिन्यन्यसंवन्धिान वा भकारादौ स्यादौ परतोऽद् इत्ययमादेशो भवति । अद्भिः। अद्भय । स्वद्भ्याम् । अत्यद्याम् । भ इति किम् । आपस्तिप्रन्ति । अपः पश्य । अपाम् । अप्सु । स्यादावित्येव । अभक्षः ॥४॥ आ रायो व्यञ्जने । २।१।५॥ स्वसंवन्धिन्यन्यसंवन्धिनि वा व्यञ्जनादौ स्यादौ परे शब्दस्याकारोऽन्तादेशो भवति । राः । हे रा । अतिराः । राभ्याम् । राभिः । राभ्यः । रासु । एकदेशविकृतस्यानन्यत्वात् अतिराभ्यां कुलाभ्याम् । अतिराम कुलेषु। व्यञ्जन इति किम् । रायौ । रायः । स्यादावित्येव । रैमूत्रम् । रैभयम् । स्भीत्येव सिद्धे व्यञ्जनग्रहणमुँत्तरार्थम् ॥ ५॥ युष्मदस्मदोः।२।११६॥ युप्मदस्मदित्येतयोः शब्दयो' स्वसंवन्धिनि अन्यसंवन्धिनि वा व्यञ्जनादौ स्यादौ परे आकारोऽन्तादेशो भवति । त्वाम् । माम् । अतित्वाम् । अतिमाम् । युवाम् । आवाम् । अतियुवाम् । अत्यावाम् । युप्मान् । अस्मान् । अतियुप्मान् । अत्यस्मान् । युवाभ्याम् । आवाभ्याम् । अतियुवाभ्याम् । अत्यावाभ्याम् । युष्माभिः। अस्माभिः। अतियुप्माभिः । अत्यस्माभि । युप्मासु । अस्मासु । अतियुप्मासु । अत्यस्मासु । युप्मयतेरस्मयतेश्च क्विप् । युष्म् , अस्म् । अनयोरेंमौभ्यांसु परत्वात्त्वमाद्यादेशे कृते पश्चा meetnermencree eena स्त्रियां त्विति । अतिजरयेत्यन्न हि अतिजरशब्दात् प्रवृत्तेनाप्प्रत्ययेन जराशब्दो व्यवधीयते ॥-जारः । जारेयः ॥ जराया अयम् । तस्येदम् ' इत्यण् । जराया अपत्यम् । द्विस्वरादनद्या' इति एयण ॥-अपोऽद् भे-॥-स्वभ्याम् । शोभना अतिशयिता वा आपो अयोरिति विग्रहे — पूजास्वते प्राक्टात् ' इति समासान्तप्रतिपेधे भ्यामि सत्यपि तदन्तग्रहणे निर्दिश्यमानस्यादेशा भवन्ति' नृत्यप पुवादेश ॥-अभक्ष इति । 'शीलिकामि--' इति ण ॥-आ रायो-॥ आकारस्यैकवर्णत्वात् 'पठ्या अन्त्यस्य' इति रैशब्दान्तस्यैव भवति ॥-स्मीत्येव सिद्ध इति । आमि तु रायमतिक्रान्तानि यानि तेषां 'क्लीवे' इत्यनेन ह्रस्वत्वे सति ' सनिपातलक्षण '-न्यायात् इकाररूप हूस्वमाश्रित्य समुत्पन्नो नाम् तद्विघाताय नोत्सहते । तर्हि 'दीर्घो नामि'-इत्यपि न प्राप्नोति । सत्यम् । तदानित्यत्वादस्य न्यायस्य भवस्येव दीर्घ । यतो न्याया हि स्थविरयटिन्यायेन प्रवर्तन्ते ॥-उत्तरार्थमिति । ययेव तत्रैव क्रियता किमत्रानेन सदेहास्पदेन । नैवम् । • केचिन्सनिपातन्यायमनित्यमाश्रित्य अतिराणामित्याकारमपीच्छन्ति तन्मतसग्रहार्थ व्यञ्जनग्रहणमिहार्थमपि तेन स्वमतेऽपि समतम् ॥-युष्मदरमदोः ॥ अत्राविवक्षितार्थयोर्युप्मदस्मदोरेतावनुकरणे इति त्यदाद्विकार्यमेकशेष 'टाइयोसि-' इत्यनेन युष्मदस्मदादिकार्थ च यत्वादि न प्रवर्तते ॥-अतित्वामिति । नामाधिकारात्तदन्तप्रतिपत्ती तदन्तमुदाहरति ॥-युष्मयतेरिति । युवा यु'मान्वेति विधेयम् न तु त्वामिति, णिचि सति त्वमौ स्याताम् ॥-अमौभ्यास्विति । अयमर्थ । द्वयोरन्यन्त्र सावकाशत्वात् शब्दान्तरमाया चानित्यत्वात्परत्वात्पूर्व त्वमाद्यादेश इति । प्रथममात्वे तु Poete bdence
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy