________________
केवलिभुक्तिप्रकरणम् क्षुबाधिते 'न जाने, न चेक्ष' इत्यस्ति न तु विपर्यासः । तद् वेद्यं सहकारि तु, तस्य न तद् वेद्यसहकारि ॥ ११ ॥ ज्ञानावरणादीनामशेषविगेमे क्षुधि प्रजातायाम् । अपि तद् ज्ञानादीनां हानिः स्यादितरवत् तत्र ॥ १२ ॥ नष्टविपाका क्षुदिति प्रतिपत्तौ भवति चागमविरोधः । शीतोष्ण-क्षुद-उदन्याऽऽदयो हि ननु वेदनीय इति ॥ १३ ॥ उदये फलं न तस्मिन् उदीरणेत्यफलता न वेद्यस्य । नोदीरणा फलात्मा तथा भवेदायुरप्यफलम् ॥ १४ ॥ अनुदीर्णवेद्य इति चेद न क्षुद् वीर्य किमत्र नहि वीर्यम् । क्षुदभावे क्षुदभावेन स्थित्यै क्षुधि तनोविलयः॥१५॥ अपवर्तते कृतार्थ नायुर्ज्ञानादयो न हीयन्ते । जगदुपकृतावनन्तं वीर्य किं गततृषो भुक्तिः ॥ १६ ॥ ज्ञानाद्यलयेऽपि जिने मोहेऽपि स्याद् क्षुद् उद्भवेद् भुक्तिः । वचन-गमनादिवच्च प्रयोजन स्व-परसिद्धिः स्यात् ॥ १७ ॥ ध्यानस्य समुच्छिन्नक्रियस्य चरमक्षणे गते सिद्धिः । सा नेदानीमस्ति स्वस्य परेषां च कर्तव्या ॥ १८ ॥ रत्नत्रयेण मुक्तिर्न विना तेनाऽस्ति चरमदेहस्य । भुक्त्या तथा तनोः स्थितिरायुषि न त्वनपवयेऽपि ॥ १९ ॥ आयुरिवाऽभ्यवहारो जीवनहेतुर्विनाऽभ्यवहृतेः । . चेत् तिष्ठत्वनन्तवीर्ये विनाऽयुषा कालमपि तिष्ठेत् ॥ २० ॥ न ज्ञानवदुपयोगो वीर्ये कर्मक्षयेण लाब्धिस्तु । तत्राऽऽयुरिवाऽऽहारोऽपेक्ष्येतँ न तत्र बाधाऽस्ति ॥ २१ ॥
- १ विगमा । २ नष्टविपाकः । ३ उदयं । ४ हीयते । ५ त्तं । ६ द्धि । ७ स्या ८ । अत्यव्यवहारो । ९ -पेक्षेत्त । १० वाधा।
Aho! Shrutgyanam