________________
शाकटायनाचार्यविरचितं मासं वर्ष वाऽपि च तानि शरीराणि तेन भुक्तेन । तिष्ठन्ति न चाऽऽकालं नान्यथा पूर्वमपि भुक्तिः ॥ २२ ॥ असति झुदाधेऽङ्गे ये न शक्तिक्षयो न संक्लेशः । आयुश्चानपर्वत्यै बाध-लयौ प्राग्वदधुनाऽपि ॥ २३ ॥ देशोनपूर्वकोटीविहरणमेवं सतीह केवलिनः । सूत्रोक्तमुपापादि न, मुक्तिश्च न नियतकाला स्यात् ॥ २४ ॥ अपवर्तहेत्वभौर्वेऽनपवर्तनिमित्तसंपदायुष्कः । स्याद् अनपवर्त इति तत् केवलिभुक्तिं समर्थयते ॥ २५ ॥ कायस्तथाविधोऽसा जिनस्य यदभोजनस्थितिरितदिम् । वाङ्मात्र नाऽत्रार्थे प्रमाणमाप्तागमोऽन्यद् वा ॥ २६ ॥ अस्वेदादि प्रागपि सर्वाभिमुखादि तीर्थकरपुण्यात् । स्थितनखतादि सुरेभ्यो न क्षुद् देहान्यता वाऽस्ति ॥ २७ ॥ भुक्तिर्दोषो यदुपोष्यते, न दोषश्च भवति निर्दोषैः। इति निगदतो निषद्याऽर्हति न स्थान-योगादेः ॥२८ ॥ रोगादिवत् क्षुधो न व्यभिचारो वेदनीयजन्मायाः । पाणिनि “एकादश जिन" इति जिनसामान्यविषयं च ॥ २९ ॥ तद्हेतुकर्मभावात् परीषहोक्तिर्न जिन उपस्कार्यः । नश्वाऽभावासिद्धरित्यादेर्न क्षुदादिगतिः ॥ ३० ॥ तैलक्षये न दीपो न जलागममन्तरेण जलधारा । तिष्ठति तथा तनोः स्थितिरपि न विनॊऽऽहारयोगेन ॥ ३१॥ परमावधेयुक्तस्य छद्मस्थस्येव नान्तरायोऽपि । सर्वार्थदर्शनेऽपि स्याद् न चान्यथा पूर्वमपि भुक्तिः ॥ ३२ ॥ इन्द्रियविषयमाप्तौ यद्भिनिबोधेसजनं भुक्तौ ।
तच्छन्द-गन्ध-रूप-स्पर्शमाप्त्या प्रतिव्यूढम् ॥ ३३ ॥ १ तिष्ठति । २ चान्यथा । ३ क्षुद्वाधेगे । ४ वातपवन्यं त्वाध- । ५ -वो । ६ को । ७ मात्रां । ८ दिः. सुरेत्यो। १० दोषो। ११ क्रु । १२ मत्तरेण । १३ -- । १४ विता । १५ यु-१६ वो- ।
९
Aho! Shrutgyanam